Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.24.1

इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः ।
यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः ॥ ४.२४.१ ॥

我们常常赞颂因陀罗,赞颂这位诛杀弗栗多者;我的赞歌已经来到。愿那应允慷慨善行者呼唤的神,使我们脱离罪责。

4.24.2

य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज ।
येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः ॥ ४.२४.२ ॥

在猛者之中手臂强劲者,他粉碎了檀那婆的军力;因他而征服了河流,因他而赢得了牛群。愿他使我们脱离罪责。

4.24.3

यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम् ।
यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः ॥ ४.२४.३ ॥

他满足众人的愿望,如公牛一般,是寻得天光的神;压榨石为他宣说力量,他的祭祀由七位祭司主持,最为令人欢悦。愿他使我们脱离罪责。

4.24.4

यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे ।
यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः ॥ ४.२४.४ ॥

他拥有牛、公牛与阉牛;为寻得天光者,声音被度量;为他,明亮的苏摩以神圣之言为饰而流淌。愿他使我们脱离罪责。

4.24.5

यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ ।
यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः स नो मुञ्चत्वंहसः ॥ ४.२४.५ ॥

祭苏摩者渴望他的恩惠,在寻牛之战中呼唤这位执箭者;赞歌栖息于他,力量存于他之中。愿他使我们脱离罪责。

4.24.6

यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबुद्धम् ।
येनोद्यतो वज्रोऽभ्यायताहिं स नो मुञ्चत्वंहसः ॥ ४.२४.६ ॥

那最先为行动而生者,其威力最先觉醒,他所举起的金刚杵扑向了蛇(阿希),愿他使我们脱离苦难。

4.24.7

यः संग्रामान् नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि ।
स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥ ४.२४.७ ॥

那聚集战斗、引向战场的主宰者,赐予两种滋养的人——我赞颂因陀罗,困顿之中一次又一次地呼唤他;愿他使我们脱离苦难。