アタルヴァ・ヴェーダ · スークタ 4.33
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.33.1
अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् ।
अप नः शोशुचदघम् ॥ ४.३३.१ ॥
アグニよ、われらから罪を焼き払い、富を浄めたまえ。われらから罪を焼き払え。
4.33.2
सुक्षेत्रिया सुगातुया वसूया च यजामहे ।
अप नः शोशुचदघम् ॥ ४.३३.२ ॥
良き田、良き道、富のために、われらは供犠を捧げる。われらから罪を焼き払え。
4.33.3
प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ।
अप नः शोशुचदघम् ॥ ४.३३.३ ॥
これらの中で最も輝く者と、われらの先の賢者たちが前に進み出たゆえに。われらから罪を焼き払え。
4.33.4
प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् ।
अप नः शोशुचदघम् ॥ ४.३३.४ ॥
アグニよ、賢者はあなたのために生まれ、われらもあなたのために生まれる。われらから罪を焼き払え。
4.33.5
प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः ।
अप नः शोशुचदघम् ॥ ४.३३.५ ॥
力強きアグニの光が四方に広がるゆえに。われらから罪を焼き払え。
4.33.6
त्वं हि विश्वतोमुख विश्वतः परिभूरसि ।
अप नः शोशुचदघम् ॥ ४.३३.६ ॥
全面の御方よ、あなたは四方からすべてを包み込んでいる。われらから罪を焼き払え。
4.33.7
द्विषो नो विश्वतोमुखाति नावेव पारय ।
अप नः शोशुचदघम् ॥ ४.३३.७ ॥
全方向に顔を持つアグニよ、敵を越えて舟のように我らを渡らせよ。我らから罪が焼け去るように。
4.33.8
स नः सिन्धुमिव नावाति पर्ष स्वस्तये ।
अप नः शोशुचदघम् ॥ ४.३३.८ ॥
彼が舟で川を渡すように、我らを幸いのために渡らせよ。我らから罪が焼け去るように。