Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.35.1

यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत् ।
यो लोकानां विधृतिर्नाभिरेषात्तेनौदनेनाति तराणि मृत्युम् ॥ ४.३५.१ ॥

以普拉贾帕蒂(ṛta 的长子)以苦行为梵而烹煮的奥达那——它是诸世界的支柱与中心——愿我以此越过死亡。

4.35.2

येनातरन् भूतकृतोऽति मृत्युं यमन्वविन्दन् तपसा श्रमेण ।
यं पपाच ब्रह्मणे ब्रह्म पूर्वं तेनौदनेनाति तराणि मृत्युम् ॥ ४.३५.२ ॥

创造众生者借以越过死亡、以苦行与劳作所得、梵先为梵烹煮的奥达那——愿我以此越过死亡。

4.35.3

यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षमापृणाद्रसेन ।
यो अस्तभ्नाद्दिवमूर्ध्वो महिम्ना तेनौदनेनाति तराणि मृत्युम् ॥ ४.३५.३ ॥

支撑养育万物之大地、以汁液充满虚空、以其伟力撑起高天者——愿我以此奥达那越过死亡。

4.35.4

यस्मान् मासा निर्मितास्त्रिंशदराः संवत्सरो यस्मान् निर्मितो द्वादशारः ।
अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम् ॥ ४.३५.४ ॥

由其而成三十辐之月、由其而成十二辐之岁、环绕往来的昼夜不能耗尽者——愿我以此奥达那越过死亡。

4.35.5

यः प्राणदः प्राणदवान् बभूव यस्मै लोका घृतवन्तः क्षरन्ति ।
ज्योतिष्मतीः प्रदिशो यस्य सर्वास्तेनौदनेनाति तराणि मृत्युम् ॥ ४.३५.५ ॥

成为气息赐予者与有气息者、为他而诸世界流淌着酥油、其一切方位皆光明者——愿我以此奥达那越过死亡。

4.35.6

यस्मात्पक्वादमृतं संबभूव यो गायत्र्या अधिपतिर्बभूव ।
यस्मिन् वेदा निहिता विश्वरूपास्तेनौदनेनाति तराणि मृत्युम् ॥ ४.३५.६ ॥

由熟食供品而生出不死,成为伽亚特里之主、其中安放着各种形态之吠陀者——我借此奥达那越过死亡。

4.35.7

अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु ।
ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥ ४.३५.७ ॥

我推开憎恨者、伤害神者;愿我的敌人远离我。我烹煮那征服一切的梵奥达那;愿诸神听我这有信心者之言。