Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.36.1

तान्त्सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा ।
यो नो दुरस्याद्दिप्साच्चाथो यो नो अरातियात् ॥ ४.३६.१ ॥

愿真力火神毘舍那罗,如公牛般强健,将他们焚尽:那加害于我们的恶者、那心怀伤害的人,以及那与我们为敌者。

4.36.2

यो नो दिप्साददिप्सतो दिप्सतो यश्च दिप्सति ।
वैश्वानरस्य दंष्ट्रयोरग्नेरपि दधामि तम् ॥ ४.३६.२ ॥

凡害我者,害不害人者,害加害者者,以及意欲加害者,我将他置于毘舍那罗火神的獠牙之间。

4.36.3

य आगरे मृगयन्ते प्रतिक्रोशेऽमावास्ये ।
क्रव्यादो अन्यान् दिप्सतः सर्वांस्तान्त्सहसा सहे ॥ ४.३६.३ ॥

那些在屋中、在回声中、在新月之夜伺机而动的,那些食肉的恶魔,以及想伤害他人的,我以力量全部制伏。

4.36.4

सहे पिशाचान्त्सहसैषां द्रविणं ददे ।
सर्वान् दुरस्यतो हन्मि सं म आकूतिर्ऋध्यताम् ॥ ४.३६.४ ॥

我以力量制伏食肉的毕舍遮,夺取他们的财富。我杀死所有加害的敌人;愿我的心愿得以成就。

4.36.5

ये देवास्तेन हासन्ते सूर्येण मिमते जवम् ।
नदीषु पर्वतेषु ये सं तैः पशुभिर्विदे ॥ ४.३६.५ ॥

那些与太阳同坐、借太阳量度速度的诸神,以及居于河流与山岳之中者,我与他们一同获得牲畜。

4.36.6

तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव ।
श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥ ४.३६.६ ॥

我是焚烧毕舍遮者,对拥有牲畜的人如同猛虎。如同群犬见狮而无处藏身,他们也找不到庇护之所。

4.36.7

न पिशाचैः सं शक्नोमि न स्तेनैः न वनर्गुभिः ।
पिशाचास्तस्मान् नश्यन्ति यमहं ग्राममाविशे ॥ ४.३६.७ ॥

我无法与鬼魅抗衡,也无法与盗贼或林中的害人者抗衡。我所进入的村庄,鬼魅便会消亡。

4.36.8

यं ग्राममाविशत इदमुग्रं सहो मम ।
पिशाचास्तस्मान् नश्यन्ति न पापमुप जानते ॥ ४.३६.८ ॥

我这股猛烈之力所进入的村庄,鬼魅便会消亡。它们不识近在身边的罪恶。

4.36.9

ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव ।
तान् अहं मन्ये दुर्हितान् जने अल्पशयून् इव ॥ ४.३६.९ ॥

那些激怒我的人,如蚊子激怒大象,我视他们为人群中心怀恶意、昏睡不醒的小人。

4.36.10

अभि तं निर्ऋतिर्धत्तामश्वमिव अश्वाभिधान्या ।
मल्वो यो मह्यं क्रुध्यति स उ पाशान् न मुच्यते ॥ ४.३६.१० ॥

愿尼厉帝如马缰绳套住马一般套住他。那个对我发怒的恶人,不能从绳索中解脱。