阿闼婆吠陀 · 颂诗(Sūkta) 5.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.2.1
तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥ ५.२.१ ॥
此乃诸世界中之最上者,猛烈的祭祀与光耀的力量由此而生。他一出生便碾碎敌人,而众助者皆随之欢庆。
5.2.2
ववृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ ५.२.२ ॥
以力量增长,拥有充沛的威势,他使敌对的奴仆心生恐惧。静止者与动摇者他皆掌控;在欢庆中所献的供物向你低首。
5.2.3
त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः ।
स्वदोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥ ५.२.३ ॥
他们在你之中寄托许多誓愿,当这些助者成为双倍、三倍之时。以甜美倾注更甜美者;在盛宴中以蜜斗蜜。
5.2.4
यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।
ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥ ५.२.४ ॥
若智者们在你之后因你在财富之争、每一场战斗中获胜而欢喜,那么,啊强者,使你自己最有威势而坚定;愿作恶者与怀恶者不伤害你。
5.2.5
त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥ ५.२.५ ॥
凭借你,我们在战斗中获胜,眼望许多战利品。我以言语激励你的武器;以神圣的咒语磨砺你的力量。
5.2.6
नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे ।
आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥ ५.२.६ ॥
无论上下,你都承载着它,在你以护佑之助居住的居所里。把那将要离去的母亲安置于此;从此处激发众多的功业。
5.2.7
स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् ।
आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥ ५.२.७ ॥
在高处赞颂那有多条道路者、坚固强大者、最有力者、在可及者中所达到者。他以其力量显现,拥有巨大的威能;作为大地的尺度,他向前推进并获胜。
5.2.8
इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः ।
महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥ ५.२.८ ॥
愿布利哈德迪夫的这些梵咒为因陀罗生出力量——他是居先者,能看见天空。他统治伟大的宗族,自主为王;迅捷而充满热力,像奔流的大海一样包围整个世界。
5.2.9
एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।
स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥ ५.२.९ ॥
如此,伟大的布利哈德迪夫·阿闼婆宣说因陀罗即是自身之躯。摩多利湿梵之纯净伴侣,即那两位姊妹,激动他、以力量使他增长。