Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 6.122

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.122.1

एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋतस्य ।
अस्माभिर्दत्तं जरसः परस्तादछिन्नं तन्तुमनु सं तरेम ॥ ६.१२२.१ ॥

我知晓而奉献此份,哦维什瓦卡尔曼,律(ṛta)的长子。凭我们所施,越过衰老之外,愿我们沿着未断之线渡过。

6.122.2

ततं तन्तुमन्वेके तरन्ति येषां दत्तं पित्र्यमायनेन ।
अबन्ध्वेके ददतः प्रयच्छन्तो दातुं चेच्छिक्षान्त्स स्वर्ग एव ॥ ६.१२२.२ ॥

有人沿着展开的线渡过,其布施经由祖先之路。无亲的施主在施予,若愿施予,那便是天界。

6.122.3

अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधानाः सचन्ते ।
यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम् ॥ ६.१२२.३ ॥

你们二人随后开始,共同努力;有信之人得此世界。你们二人煮好、供奉之物在火中;为护卫它,哦夫妇,共同依靠吧。

6.122.4

यज्ञं यन्तं मनसा बृहन्तमन्वारोहामि तपसा सयोनिः ।
उपहूता अग्ने जरसः परस्तात्तृतीये नाके सधमादं मदेम ॥ ६.१२२.४ ॥

以心念,我跟随那前行的大祭,以苦行而同源。哦阿耆尼,被召唤者,越过衰老,在第三重天,愿我们共同欢庆。

6.122.5

शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।
यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददातु तन् मे ॥ ६.१२२.५ ॥

纯洁、清净、堪为祭祀的这些女子,我分别安置于祭司的手中。我以何愿为你们灌注此物,愿与摩录多同来的因陀罗将它赐予我。