Vedyatra वेदयात्रा
検索

アタルヴァ・ヴェーダ · スークタ 6.84

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.84.1

यस्यास्त आसनि घोरे जुहोम्येषां बद्धानामवसर्जनाय कम् ।
भूमिरिति त्वाभिप्रमन्वते जना निर्ऋतिरिति त्वाहं परि वेद सर्वतः ॥ ६.८४.१ ॥

恐ろしきニルリティよ、汝の座にて、縛られた者らの解放のために私は歓喜を供える。人々は汝を「大地」とも「ニルリティ」とも呼ぶ。私は汝を四方から十分に知っている。

6.84.2

भूते हविष्मती भवैष ते भागो यो अस्मासु ।
मुञ्चेमान् अमून् एनसः स्वाहा ॥ ६.८४.२ ॥

ブーティよ、供物に富む者となれ。これは汝の分であり、我らの中にある。これらとあれらを罪から解き放て。スヴァーハー。

6.84.3

एवो ष्वस्मन् निर्ऋतेऽनेहा त्वमयस्मयान् वि चृता बन्धपाशान् ।
यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥ ६.८४.३ ॥

ニルリティよ、まさに今、我らから遠ざかれ。鉄の縛り索を解け。ヤマは汝を再び私に与える。そのヤマと死に礼拝あれ。

6.84.4

अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् ।
यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥ ६.८४.४ ॥

鉄と木の枷に、汝はここで縛られている。千の死に捕らえられた者たち。ヤマと祖霊たちと同意して、この者を最高の天へと昇らせよ。