阿闼婆吠陀 · 颂诗(Sūkta) 7.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.5.1
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ ७.५.१ ॥
诸神以祭祀行祭祀;那些是最初的法则。那些光荣者确实到达了那天界,那里有往昔的萨提耶神。
7.5.2
यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः ।
स देवानामधिपतिर्बभूव सो अस्मासु द्रविणमा दधातु ॥ ७.५.२ ॥
祭祀生成;它完全显现,诞生,再次增长。它成为诸神之主;愿它赐予我们财富。
7.5.3
यद्देवा देवान् हविषाऽयजन्तामर्त्यान् मनसा मर्त्येन ।
मदेम तत्र परमे व्योमन् पश्येम तदुदितौ सूर्यस्य ॥ ७.५.३ ॥
当诸神以祭品祭祀诸神,以心祭祀不死者,以凡人祭祀——那时愿我们在那至高的天空中欢喜,并在太阳升起时见到它。
7.5.4
यत्पुरुषेण हविषा यज्ञं देवा अतन्वत ।
अस्ति नु तस्मादोजीयो यद्विहव्येनेजिरे ॥ ७.५.४ ॥
诸神以原人的祭品展开了祭祀;难道有比那以特殊献祭而受崇敬者更强大的吗?
7.5.5
मुग्धा देवा उत शुनाऽयजन्तोत गोरङ्गैः पुरुधाऽयजन्त ।
य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥ ७.५.५ ॥
迷惑的诸神以狗和牛的部分以多种方式祭祀。谁以心知道这场祭祀,请告诉我们;就让他在此处说出来。