阿闼婆吠陀 · 颂诗(Sūkta) 7.73
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.73.1
यत्किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुषा ।
तन् मृत्युना निर्ऋतिः संविदाना पुरा सत्यादाहुतिं हन्त्वस्य ॥ ७.७३.१ ॥
凡他以意、以言、以祭祀、以供物、以夜柔(祭文)所献,愿与死亡结合的涅利提在真实之前击毁他的供物。
7.73.2
यातुधाना निर्ऋतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम् ।
इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥ ७.७३.२ ॥
愿邪术者、涅利提与罗刹以虚妄击打他的真实。愿因陀罗所遣的诸神搅动他的酥油;他所献之物,愿不与我相合。
7.73.3
अजिराधिराजौ श्येनौ संपातिनाविव ।
आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति ॥ ७.७३.३ ॥
如两只迅捷之王的鹰隼同时俯冲,愿敌军之酥油被击中——凡谋害我们者。
7.73.4
अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् ।
अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥ ७.७३.४ ॥
我缚住你两只弯曲的手臂,也缚住你的口。以天神阿耆尼的愤怒,正以此愤怒,我击毁了你的供物。
7.73.5
अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् ।
अग्नेर्घोरस्य मन्युना तेनऽवधिषं हविः ॥ ७.७३.५ ॥
我也缚住你的两臂,也缚住你的口。以可怖的阿耆尼之怒,正以此怒,我击毁了你的供物。