Vedyatra वेदयात्रा
検索

アタルヴァ・ヴェーダ · スークタ 8.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

8.13.22

सोदक्रामत्सासुरान् आगच्छत्तामसुरा उपाह्वयन्त माय एहीति ।
तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम् ।
तां द्विमूर्धार्त्व्योऽधोक्तां मायामेवाधोक् ।
तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥ ८.१३.२२ ॥

彼女は出て行き、アスラたちのもとへ来た。アスラたちは彼女を呼んだ。「マーヤーよ、来い!」彼女の子牛はプラフラーダの子ヴィローチャナであり、器は鉄の器であった。双頭のアールトヴィヤが彼女の乳を搾った。実に彼はマーヤーを搾ったのである。アスラたちはそのマーヤーによって生きる。このように知る者もまた生計の手段となる。

8.13.23

सोदक्रामत्सा पितॄन् आगच्छत्तां पितर उपाह्वयन्त स्वध एहीति ।
तस्या यमो राजा वत्स आसीद्रजतपात्रं पात्रम् ।
तामन्तको मार्त्यवोऽधोक्तां स्वधामेवाधोक् ।
तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥ ८.१३.२३ ॥

彼女は出て行き、祖霊たちのもとへ来た。祖霊たちは彼女を呼んだ。「スヴァダーよ、来い!」彼女の子牛は王ヤマであり、器は銀の器であった。マールティヤヴァのアンタカが彼女の乳を搾った。実に彼はスヴァダーを搾ったのである。祖霊たちはそのスヴァダーによって生きる。このように知る者もまた生計の手段となる。

8.13.24

सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति ।
तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम् ।
तां पृथी वैन्योऽधोक्तां कृषिं च सस्यं चाधोक् ।
ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद ॥ ८.१३.२४ ॥

彼女は飛び去って人間たちのもとに来た。人間たちは呼んだ。「アイラーヴァティーよ、来い。」その子牛はヴァイヴァスヴァタ・マヌ、器は大地であった。ヴァインヤ・プリティはそこから耕作と穀物を搾った。人間はそのスヴァダー、耕作、穀物によって生きる。このように知る者は生計の拠り所となる。

8.13.25

सोदक्रामत्सा सप्तऋषीन् आगच्छत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति ।
तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम् ।
तां बृहस्पतिराङ्गिरसोऽधोक्तां ब्रह्म च तपश्चाधोक् ।
तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥ ८.१३.२५ ॥

彼女は飛び去って七仙のもとに来た。七仙は呼んだ。「ブラフマンヴァティーよ、来い。」その子牛は王ソーマ、器は韻律であった。アンギラス族のブリハスパティはそこから梵とタパスを搾った。七仙はその梵とタパスによって生きる。このように知る者は聖なる輝きの源となる。