阿闼婆吠陀 · 颂诗(Sūkta) 8.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.14.26
सोदक्रामत्सा देवान् आगच्छत्तां देवा उपाह्वयन्तोर्ज एहीति ।
तस्या इन्द्रो वत्स आसीच्चमसः पात्रम् ।
तां देवः सविताधोक्तामूर्जामेवाधोक् ।
तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥ ८.१४.२६ ॥
她离去,来到诸神那里;诸神呼唤她:“乌尔吉,来吧!”她的犊是因陀罗,她的容器是杯子camasa。神萨维特里挤了她的奶——实际上挤出的只是乌尔吉。诸神依靠这乌尔吉而生存;如此知晓的人便成为生计的依凭。
8.14.27
सोदक्रामत्सा गन्धर्वाप्सरस आगच्छत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ।
तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम् ।
तां वसुरुचिः सौर्यवर्चसोऽधोक्तां पुण्यमेव गन्धमधोक् ।
तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ॥ ८.१४.२७ ॥
她离去,来到乾达婆与阿普萨拉斯那里;乾达婆与阿普萨拉斯呼唤她:“功德香,来吧!”她的犊是光辉如日的citraratha,她的容器是莲叶。光辉如日的婆苏如奇挤了她的奶——实际上挤出的只是那美妙的香气。乾达婆与阿普萨拉斯依靠这美妙的香气而生存;如此知晓的人便成为生计的依凭。
8.14.28
सोदक्रामत्सेतरजनान् आगच्छत्तामितरजना उपाह्वयन्त तिरोध एहीति ।
तस्याः कुबेरो वैश्रवणो वत्स आसीदामपात्रं पात्रम् ।
तां रजतनाभिः कबेरकोऽधोक्तां तिरोधामेवाधोक् ।
तां तिरोधामतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद ॥ ८.१४.२८ ॥
她离开而来到其他人那里;其他人呼唤她:「啊,提罗陀,来吧!」她的牛犊是毗舍罗婆·俱毗罗,器皿是生器。罗阇那婆那·迦贝罗迦挤了她的奶,实际挤的是提罗陀本身。靠这位提罗陀,其他人与祖先得以生存;她驱除一切罪恶;如此知晓者便成为生命的依靠。
8.14.29
सोदक्रामत्सा सर्पान् आगच्छत्तां सर्पा उपाह्वयन्त विषवत्येहीति ।
तस्यास्तक्षको वैशालेयो वत्स आसीदलाबुपात्रं पात्रम् ।
तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक् ।
तद्विषं सर्पा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥ ८.१४.२९ ॥
她离开而来到蛇那里;蛇呼唤她:「啊,毗沙婆提,来吧!」她的牛犊是毗舍利耶·德叉迦,器皿是葫芦器。德拉施特拉·爱罗婆多挤了她的奶,实际挤的是毒本身。靠这毒,蛇得以生存;如此知晓者便成为生命的依靠。