摩诃婆罗多 · 章 1.104
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.104.1
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च ।
यशस्विनी च साऽगच्छच्छान्तनोर्भूतये तदा ॥ १.१०४.१ ॥
这位荣耀的女神听了国王这温柔悦耳的话,面带微笑,便去到檀努身边,以成就他的福祉。
1.104.2
सा तु दृष्ट्वा नृपश्रेष्ठं चरन्तं तीरमाश्रितम् ।
वसूनां समयं स्मृत्वाऽथाभ्यगच्छदनिन्दिता ॥ १.१०४.२ ॥
这位无可指摘的女神看见那位王中之王在河岸漫步,想起诸婆薮的约定,便走近了他。
1.104.3
प्रजार्थिनी राजपुत्रं शान्तनुं पृथिवीपतिम् ।
प्रतीपवचनं चापि संस्मृत्यैव स्वयं नृपम् ॥ १.१०४.३ ॥
渴望子嗣的她,也想起了钵罗底的话语,亲自前往那位国王、王子、大地之主檀努那里……
1.104.4
कालोऽयमिति मत्वा सा वसूनां शापचोदिता ।
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा ॥ १.१०४.४ ॥
她想'这正是时候',在婆薮诅咒的驱使下,以令国王心悦的话语对他说道。
1.104.5
भविष्यामि महीपाल महिषी ते वशानुगा ।
न तु त्वं वा द्वितीयो वा ज्ञातुमिच्छेत्कथंचन ॥ १.१०४.५ ॥
哦,大地的守护者,我将成为你顺从的正妃;但你或其他任何人,都不可以以任何方式想要知道我的事情。
1.104.6
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाऽशुभम् ।
न तद्वारयितव्याऽस्मि न वक्तव्या तथाऽप्रियम् ॥ १.१०४.६ ॥
哦,国王,无论我做什么,是善是恶,都不可阻止我;也不可对我说任何不悦耳的话。
1.104.7
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव ।
वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ॥ १.१०४.७ ॥
国王啊,只要你这样行事,我便与你同住;但若我被阻止,又被说了不悦耳的话,我无疑会离你而去。
1.104.8
एष मे समयो राजन्भज मां त्वं यथेप्सितम् ।
अनुनीताऽस्मि ते पित्रा भर्ता मे त्वं भव प्रभो ॥ १.१०४.८ ॥
国王啊,这是我的条件:你愿意怎样对待我都可以。你的父亲已劝我顺从于你;主啊,请你成为我的丈夫。
1.104.9
तथेति सा यदा तूक्ता तदा भरतसत्तम ।
प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ॥ १.१०४.९ ॥
婆罗多族最优秀者啊,当她被告知“就这样吧”时,她得到了那位杰出的国王,从而获得了无比的喜悦。
1.104.10
प्रतिज्ञाय तु तत्तस्यास्तथेति मनुजाधिपः ।
रथमारोप्य तां देवीं जगाम स तया सह ॥ १.१०४.१० ॥
他以“就这样吧”应允了她的条件,人主便让那位女神登上战车,与她一同离去。
1.104.11
सा च शान्तनुमभ्यागात्साक्षाल्लक्ष्मीरिवापरा ।
आसाद्य शान्तनुस्तां च बुभुजे कामतो वशी ॥ १.१०४.११ ॥
她来到珊塔努身边,宛如另一位亲自降临的吉祥天女。珊塔努走近她,虽被欲望驱使,却克制自己,与她欢爱。
1.104.12
न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान् ।
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च ॥ १.१०४.१२ ॥
他心想“不该过问她”,便没有对她说任何话;而他因她的品性、行为、容貌和高尚的德行,(仍然对她倾心)。
1.104.13
उपचारेण च रहस्तुतोष जगतीपतिः ।
स राजा परमप्रीतः परमस्त्रीप्रलालितः ॥ १.१०४.१३ ॥
以殷勤侍奉与私下相处,大地之主感到满足;国王极为欢喜,被那至美之妻所爱抚。
1.104.14
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगामिनी ।
मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी ॥ १.१०४.१४ ॥
那位具有神圣形貌、流经三道的女神恒河,化身为人形,成为光彩照人、容色绝佳的女子。
1.104.15
भाग्योपनतकामस्य भार्या चोपनताऽभवत् ।
शन्तनोर्नृपसिंहस्य देवराजसमद्युतेः ॥ १.१०४.१५ ॥
她成为那因福运而愿望得偿者的妻子——即王中之狮、光辉堪比天王的Śantanu。
1.104.16
संभोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः ।
राजानं रमयामास यथा रज्येत स प्रभुः ॥ १.१०४.१६ ॥
她以恩爱、柔情与巧妙,以媚眼和迷人的舞姿取悦国王,使那位君主对她迷恋。