摩诃婆罗多 · 章 1.105
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.105.1
संवत्सरानृतून्मासान्बुबुधे न बहून्गतान् ।
रममाणस्तया सार्धं यथाकामं नरेश्वरः ॥ १.१०५.१ ॥
与她欢乐相处、随心所欲的国王,竟没有察觉已经过去的许多年、季节与月份。
1.105.2
दिविष्ठान्मानुषांश्चैव भोगान्भुङ्क्ते स वै नृपः ।
आसाद्य शान्तनुः श्रीमान्मुमुदे योषितां वराम् ॥ १.१०५.२ ॥
那位国王光辉的月护(Śāntanu)享受天上与人间的一切欢乐;得到女子中最优秀的她后,他欢喜不已。
1.105.3
ऋतुकाले तु सा देवी दिव्यं गर्भमधारयत् ।
अष्टावजनयत्पुत्रांस्तस्मादमरसन्निभान् ॥ १.१०५.३ ॥
在适当的时节,那位女神怀上了神圣的胎儿,并生下了八个如同不死者的儿子。
1.105.4
जातं जातं च सा पुत्रं क्षिपत्यम्यसि भारत ।
सूतके कण्ठमाक्रम्य तान्निनाय यमक्षयम् ॥ १.१०५.४ ॥
婆罗多之子啊,她每生下一个儿子就投入火中;在产房里扼住他们的喉咙,把他们送往阎摩之国。
1.105.5
प्रीणाम्यहं त्वामित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ।
तस्य तन्न प्रियं राज्ञः शान्तनोरभवत्तदा ॥ १.१०५.५ ॥
她说:“我是在取悦你。”便把他沉入恒河的水流之中;这在当时并不令国王月护(Śāntanu)高兴。
1.105.6
न च तां किंचनोवाच त्यागाद्भीतो महीपतिः ।
अमीमांस्या कर्मयोनिरागमश्चेति शान्तनुः ॥ १.१०५.६ ॥
国王因畏惧她的离弃,便什么也没对她说;月护(Śāntanu)想:“作为行为之源的传统,不容质疑。”
1.105.7
स्मरन्पितृवचश्चैव नापृच्छत्पुत्रकिल्बिषम् ।
जाताञ्जातांश्च वै हन्ति सा स्त्री सप्त वरान्सुतान् ॥ १.१०५.७ ॥
他想起父亲的话,没有询问关于儿子的罪过。那女子杀死每一个新生的孩子;她杀死了七个优秀的儿子。
1.105.8
शान्तनुर्धर्मभङ्गाच्च नापृच्छत्तां कथंचन ।
अष्टमं तु जिघांसन्त्यां चुक्षुभे शान्तनोर्धृतिः ॥ १.१०५.८ ॥
叔伽努因惧怕破坏法,始终没有问她。但当她要杀第八个孩子时,叔伽努的镇定动摇了。
1.105.9
अथैनामष्टमे पुत्रे जाते प्रहसतीमिव ।
उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ॥ १.१०५.९ ॥
随后第八个儿子出生,那女子仿佛在笑,国王因悲痛而煎熬,想保护自己的儿子,便对她说。
1.105.10
आलभन्तीं तदा दृष्ट्वा तां स कौरवनन्दनः ।
अब्रवीद्भरतश्रेष्ठो वाक्यं परमदुःखितः ॥ १.१०५.१० ॥
他看见她抱起孩子,便是那库鲁族的欢喜、婆罗多族中最优秀的人,深感悲痛,对她说了这些话。
1.105.11
मावधीः कस्य काऽसीति किं हिनत्सि सुतानिति ।
पुत्रघ्नि सुमहत्पापं संप्राप्तं ते सुगर्हितम् ॥ १.१०५.११ ॥
“不要杀!你是谁家的人,你是谁?为何要杀害儿子?”“杀子之女啊,一桩极大、极可耻的罪孽已降临在你身上。”
1.105.12
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर ।
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥ १.१०५.१२ ॥
“求子之人啊!我不会杀你的儿子,有子者中最优秀的人啊!我这件衣服已经旧了,正如当初所约定的那样。”
1.105.13
अहं गङ्गा जह्नुसुता महर्षिगणसेविता ।
देवकार्यार्थसिद्ध्यर्थमुषिताऽहं त्वया सह ॥ १.१०५.१३ ॥
我是遮诃奴之女恒河,为众大仙所侍奉。为成就诸神之事,我与你共同居住。
1.105.14
इमेऽष्टौ वसवो देवा महाभागा महौजसः ।
वसिष्ठशापदोषेण मानुषत्वमुपागताः ॥ १.१०५.१४ ॥
这八位婆薮天神,极为福德、大有威力,因婆私吒咒诅之过而降生为人。
1.105.15
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते ।
मद्विधा मानुषी धात्री लोके नास्तीह काचन ॥ १.१०५.१५ ॥
他们在大地上的生父除你之外别无他人,而在此世间也没有像我这样的人间乳母。
1.105.16
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता ।
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः ॥ १.१०५.१६ ॥
因此为了他们的降生,我降为人身。你生育八位婆薮,已赢得了不坏的诸界。
1.105.17
देवानां समयस्त्वेष वसूनां संश्रुतो मया ।
जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ॥ १.१०५.१७ ॥
这是我与诸神及婆薮所立的约定:每一位降生者,我都将使其脱离生与人身。
1.105.18
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः ।
स्वस्ति तेस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥ १.१०५.१८ ॥
因此他们已从大德者阿波婆的咒诅中解脱。愿你平安;我要走了。请护佑这位大誓之子。