Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.112

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.112.1

ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी ।
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ॥ १.११२.१ ॥

于是悲伤、可怜、渴望儿子的萨蒂亚瓦蒂,与两位儿媳一同为儿子料理了后事,婆罗多啊。

1.112.2

समाश्वास्य स्नुषे ते च भर्तृशोकनिपीडिते ।
धर्मं च पितृवंशं च मातृवंशं च भामिनी।
प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ॥ १.११२.२ ॥

萨蒂亚瓦蒂安慰了两位因丈夫之丧而痛苦的儿媳,仔细考虑了法、父系与母系的家族之后,这位大福的光辉女子对恒河之子说了这些话。

1.112.3

दुःखार्दिता तु सा देवी मज्जन्ती शोकसागरे ।
शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः।
त्वयि पिण्डश्च कीर्तिश्च संतानश्च प्रतिष्ठितः ॥ १.११२.३ ॥

那位被悲痛折磨、沉没于忧愁之海的王后说道:恒守法的著名俱卢后裔Śantanu的供养、名声与子嗣,都确立于你身上。

1.112.4

भ्राता विचित्रवीर्यस्ते भूतानामन्तमेयिवान् ।
यथाकर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्।
यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥ १.११२.४ ॥

你的兄长毗质多罗跋耶已经走到了众生的终点。他行善积德,依其业报必定升往天界。正如你的寿命在真理中确定,你身中的法也同样确定。

1.112.5

वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च ।
विविधास्त्वं श्रुतीर्वेत्थ वेदाङ्गानि च सर्वशः ॥ १.११२.५ ॥

精通法的人啊,你既能简要地也能详尽地了解诸法。你完全了解各种天启圣典以及吠陀的一切分支。

1.112.6

व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये ।
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ॥ १.११२.६ ॥

我看到你坚守法(dharma)与家族的传统,你在困境中的行为如同苏克拉与安吉罗斯一般。

1.112.7

तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर ।
कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ॥ १.११२.७ ॥

因此,持守法(dharma)者中最优秀的人啊,你要充分安心,我将委派你一项任务;听完之后,你应当去做。

1.112.8

मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते ।
बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ॥ १.११२.८ ॥

我的儿子,你的兄弟,勇猛而又深受你喜爱,人中的公牛啊,他年幼时便无子而升天了。

1.112.9

इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे ।
रूपयौवनसंपन्ने पुत्रकामे च भारत ॥ १.११२.९ ॥

这两位是你兄弟的王后,是迦尸王的吉祥女儿,容貌美丽、青春焕发,而且,婆罗多啊,她们渴望有子嗣。

1.112.10

तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः ।
मन्नियोगान्महाबाहो धर्मं कर्तुमिहार्हसि ॥ १.११२.१० ॥

你要从她们两人那里生下后代,以延续我们家族的血脉。大臂者啊,依我之命,你应当在此履行这一职责。

1.112.11

राज्ये चैवाभिषिच्यस्व भारताननुशाधि च ।
दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ॥ १.११२.११ ॥

在王国中接受灌顶,统治婆罗多人;依法娶妻,不要让你的先祖沉沦。

1.112.12

तथोच्यमानो मात्रा स सुहृद्भिश्च परन्तपः ।
इत्युवाचाथ धर्मात्मा धर्म्यमेवोत्तरं वचः ॥ १.११२.१२ ॥

母亲与亲友如此相劝之后,那位焚敌者、法德之心者,便说出了合乎法义的回答。

1.112.13

असंशयं परो धर्मस्त्वया मातरुदाहृतः ।
त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै परां ॥ १.११२.१३ ॥

母亲啊,您无疑宣说了至上的法,您也知道我关于子嗣的至大誓言。

1.112.14

जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे ।
स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ॥ १.११२.१४ ॥

为了聘礼,您与父亲之间发生的事,您是知道的。萨蒂亚瓦蒂啊,我再次向您许下这同一个真实的誓言。

1.112.15

परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः ।
यद्वाऽप्यधिकमेताभ्यां न तु सत्यं कथंचन ॥ १.११२.१५ ॥

我可以舍弃三界,舍弃诸神之中的王国,甚至舍弃比这两者更大的东西;但无论如何,我不会舍弃真理。

1.112.16

त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः ।
ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ॥ १.११२.१६ ॥

大地可舍弃它的气味,水可舍弃它的味道,同样火可舍弃它的形色,风可舍弃它的触感。

1.112.17

प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम् ।
त्यजेच्छब्दं तथाऽऽकाशं सोमः शीतांशुतां त्यजेत् ॥ १.११२.१७ ॥

太阳可舍弃它的光辉,彗星(火)可舍弃它的热度,同样虚空可舍弃它的声音,月亮可舍弃它清凉的光芒。

1.112.18

विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् ।
न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन ॥ १.११२.१८ ॥

即使斩杀弗栗多的因陀罗舍弃勇力,法王舍弃法,我也绝不会决意舍弃真理。

1.112.19

तन्न जात्वन्यथा कुर्यां लोकानामपि संक्षये ।
अमरत्वस्य वा हेतोस्त्रैलोक्यस्य धनस्य च ॥ १.११२.१९ ॥

即使为了诸世界的毁灭,为了不死,为了三界,或为了财富,我也绝不会违背此言而行事。

1.112.20

एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा ।
माता सत्यवती भीष्ममुवाच तदनन्तरम् ॥ १.११२.२० ॥

她那财富与光辉兼备的儿子如此说后,母亲萨提亚瓦蒂随即对毗湿摩说道。

1.112.21

जानामि ते स्थितिं सत्ये परां सत्यपराक्रम ।
इच्छन्सृजेथास्त्रींल्लोकानन्यांस्त्वं स्वेन तेजसा ॥ १.११२.२१ ॥

具真实勇力的人啊,我知你在真实中的至高安立;若你愿意,凭你自身的光明,你便能创造另外三界。

1.112.22

जानामि चैवं सत्यं तन्मदर्थे यच्च भाषितम् ।
आपद्धर्मं त्वमावेक्ष्य वह पैतामहीं धुरम् ॥ १.११२.२२ ॥

我也知道为我所说之言是真实的;你应考虑困厄之法,承担祖父的重担。

1.112.23

यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् ।
सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ॥ १.११२.२३ ॥

敌人的烧灭者啊,你应如此行事,使你家族的线索与法不致败坏,使你的朋友欢喜。

1.112.24

आत्मनश्च हितं तात प्रियं च मम भारत ।
लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम्।
धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ॥ १.११२.२४ ॥

毘湿摩又对她说道——她如此哀哭,可怜而贪恋其子,言语背离法度:“婆罗多啊,对你和我都有益且可爱的……”

1.112.25

राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः ।
सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ॥ १.११२.२५ ॥

王后啊,请思量法度;不要毁灭我们所有人。背离真实在刹帝利的法度中并不受赞扬。

1.112.26

शान्तनोरपि संतानं यथा स्यादक्षयं भुवि ।
तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ॥ १.११२.२६ ॥

为使产乎之家族在大地上也能长久不衰,我将为你宣说那永恒的刹帝利法度,王后啊。