摩诃婆罗多 · 章 1.117
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.117.1
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् ।
दोषतः कं गमिष्यामि न हि मेऽन्योपराध्यति ॥ १.११७.१ ॥
那位圣人中的猛虎对以苦行为财富的众仙人说道。
1.117.2
तं दृष्ट्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि ।
न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप ॥ १.११७.२ ॥
守卫们见到他在那里,于许多日子之后,将事情原委如实禀告了国王,人主啊。
1.117.3
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः ।
प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥ १.११७.३ ॥
国王听闻那位仙人之事,便与大臣们一同出去,安抚了站在木桩上的那位最优秀的仙人。
1.117.4
यन्मयाऽपकृतं मोहादज्ञानादृषिसत्तम ।
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥ १.११७.४ ॥
圣人中最优秀者啊,我因迷惑与无知所犯下的过错,我来向您致歉;您不应对我生气。
1.117.5
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः ।
कृतप्रसादं राजा तं ततः समवतारयत् ॥ १.११७.५ ॥
国王如此相求,仙人便施以恩惠;蒙受恩惠的国王于是将他放下。
1.117.6
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह ।
अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥ १.११७.६ ॥
将他从木桩顶端放下后,他拔那根木桩;无法完全拔出,便在根部将其砍断。
1.117.7
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः ।
कण्ठपार्श्वान्तरस्थेन शङ्कुना मुनिराचत्।
पुष्पभाजनधारी स्यादिति चिन्तापरोऽभवत् ॥ १.११७.७ ॥
如此,那尖桩嵌在体内,智者四处游走;咽喉与肋侧之间的尖刺令他痛苦,他忧心自己看起来像是捧着花篮的人。
1.117.8
स चातितपसा लोकान्विजिग्ये दुर्लभान्परैः ॥ १.११७.८ ॥
他以极端的苦行征服了他人难以到达的诸世界。
1.117.9
अणीमाण्डव्य इति च ततो लोकेषु गीयते ।
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् ॥ १.११७.९ ॥
从此他在诸世界中被称为阿尼曼达维亚。那位通晓法之至高义的婆罗门,前往法神的居所。
1.117.10
आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुम् ।
किं नु तद्दुष्कृतं कर्म मया कृतमजानता ॥ १.११७.१० ॥
于是他看见法神坐在宝座上,便责备主神:“我在不知情中做了什么恶行?”
1.117.11
यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ।
शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥ १.११७.११ ॥
“请速告诉我,这样的果报是因谁而降临于我?请看我苦行的力量。”
1.117.12
पतङ्गिकानां पुच्छेषु त्वयेषीका प्रवेशिता ।
कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ॥ १.११७.१२ ॥
“修苦行的宝藏啊!你曾把芦苇刺入飞蛾的尾巴。你所得的这果报,正是那一行为的结果。”
1.117.13
स्वल्पमेव यथा दत्तं दानं बहुगुणं भवेत् ।
अधर्म एवं विप्रर्षे बहुदुःखफलप्रदः ॥ १.११७.१३ ॥
如同少量的布施也能成就大功德,婆罗门中的圣仙啊,非法同样会带来极大苦果。
1.117.14
कस्मिन्काले मया तत्तु कृतं ब्रूहि यथातथम् ।
तेनोक्तं धर्मराजेन बालभावे त्वया कृतम् ॥ १.११७.१४ ॥
"我是在何时做的?请如实告诉我。"法王说道:"你在童年时做的。"
1.117.15
बालो हि द्वादशाद्वर्षाज्जन्मतो यत्करिष्यति ।
न भविष्यत्यधर्मोऽत्र न प्रज्ञास्यति वै दिशः ॥ १.११७.१५ ॥
孩童从出生至十二岁所做之事,在此并不构成非法,因为他连方向都不知道。
1.117.16
अल्पेऽपराधेऽपि महान्मम दण्डस्त्वया धृतः ।
गरीयान्ब्राह्मणवधः सर्वभूतवधादपि ॥ १.११७.१६ ॥
你因一点小过错便加我以重罚。杀害婆罗门比杀害一切众生更为严重。
1.117.17
शूद्रयोनावतो धर्म मानुषः संभविष्यसि ।
मर्यादां स्थापयाम्यद्य लोके कर्मफलोदयाम् ॥ १.११७.१७ ॥
因此,法啊,你将投生为人,降生于首陀罗之胎。今日我在世间确立业果显现的界限。
1.117.18
आ चतुर्दशकाद्वर्षान्न भविष्यति पातकम् ।
परतः कुर्वतामेव दोष एव भविष्यति ॥ १.११७.१८ ॥
十四岁以前不会有罪过。此后,过错只会落在那些作为之人身上。
1.117.19
एतेन त्वपराधेन शापात्तस्य महात्मनः ।
धर्मो विदुररूपेण शूद्रयोनावजायत ॥ १.११७.१९ ॥
因这一过错,并由于那位大德者的诅咒,法以毗杜罗之形降生于首陀罗之胎。
1.117.20
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः ।
दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥ १.११७.२० ॥
精通法与利,远离贪与嗔,有远见,专心于寂静,喜于护持俱卢之利益。