摩诃婆罗多 · 章 1.17
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.17.1
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन ।
अपश्यतां समायान्तमुच्चैः श्रवसमन्तिकात् ॥ १.१७.१ ॥
苦行的宝藏啊,就在那时,你的两位姐妹看见乌乞耶室罗婆斯正向这边走来。
1.17.2
यं तु देवगणाः सर्वे हृष्टरूपमपूजयन् ।
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ॥ १.१७.२ ॥
那匹无与伦比的骏马宝物,在搅动甘露时诞生,所有天神众都面带喜色地敬奉它。
1.17.3
अमोघबलमश्वानामुत्तमं जविनां वरम् ।
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम् ॥ १.१७.३ ॥
力量永不落空,是骏马中的至上者,快跑者中的翘楚,光辉、不老、神圣,因其一切吉祥之相而受敬重。
1.17.4
कथं तदमृतं देवैर्मथितं क्व च शंस मे ।
कारणं चात्र मथने संजातममृतात्परम्
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ॥ १.१७.४ ॥
请告诉我诸神如何搅动那甘露,搅动时除甘露之外还生出了什么,其缘由为何,以及那位大力、大光明的马王是在何处诞生的。
1.17.5
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् ।
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ॥ १.१७.५ ॥
光芒耀眼、不动如山的须弥山,是无与伦比的光明聚合,以其金色闪耀的山峰压过了太阳的光辉。
1.17.6
कनकाभरणं चित्रं देवगन्धर्वसेवितम् ।
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ॥ १.१७.६ ॥
饰以黄金,奇妙绝伦,为天神与乾闼婆所侍奉,不可测量,充满不法的世人无法侵犯。
1.17.7
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम् ।
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ॥ १.१७.७ ॥
那座大山被可怖的毒蛇环绕,被神奇的草药照亮,高耸入云,遮蔽了天空。
1.17.8
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् ।
नानापतगसङ्घैश्च नादितं सुमनोहरैः ॥ १.१७.८ ॥
即使以心意也无法为他人所至,有河流与树木,回荡着众多鸟群最动听的鸣叫。
1.17.9
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम् ।
अनन्तकल्पमद्वन्द्वं सुराः सर्वे महौजसः ॥ १.१७.९ ॥
登上那座山峰——它布满众多宝石,吉祥,形态无穷,超越二元对立——所有大力的天神。
1.17.10
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः ।
अमृताय समागम्य तपोनियमसंयुताः ॥ १.१७.१० ॥
那些天界居民坐在那里,怀着苦行与戒律,为求甘露而聚集,开始商议。
1.17.11
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् ।
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ॥ १.१७.११ ॥
那时,天神那罗延对梵天说了这些话,此时众天神正如此思索,四面商议。
1.17.12
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः ।
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ॥ १.१७.१२ ॥
愿诸天神与阿修罗众一起搅动乳海;当那大海被搅动时,甘露便会在那里产生。
1.17.13
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह ।
मन्थध्वयुदधिं देवा वेत्स्यध्वममृतं ततः ॥ १.१७.१३ ॥
汇集一切草药与一切珍宝,诸天啊,搅动大海吧;然后你们将获得不死的甘露。