摩诃婆罗多 · 章 1.178
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.178.1
ततः स भग्नपार्श्वाङ्गो नदित्वा भैरवं रवम् ।
शैलराजप्रतीकाशो गतासुरभवद्बकः ॥ १.१७८.१ ॥
于是他肋骨与肢体皆断,发出可怖的吼声,如同山王一般,成为了没有生命的怪物巴卡。
1.178.2
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः ।
निष्पपात गृहाद्राजन्सहैव परिचारिभिः ॥ १.१७८.२ ॥
众人被那声音惊吓,国王啊,那罗刹的随从们一同从屋中冲了出来。
1.178.3
बकानुजस्तदा राजन्भीमं शरणमेयिवान् ।
ततस्तु निहतं दृष्ट्वा राक्षसेन्द्रं महाबलम्।
राक्षसाः परमत्रस्ता भीमं शऱणमाययुः ॥ १.१७८.३ ॥
那时,国王啊,巴卡的弟弟向毗摩寻求庇护。众罗刹见那威猛的罗刹王被杀,极度恐惧,前来向毗摩寻求庇护。
1.178.4
तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः ।
सांत्वयामास बलवान्समये च न्यवेशयत् ॥ १.१७८.४ ॥
毗摩是最勇猛的战士,他安慰那些惊恐失神的罗刹,并使他们立下了盟约。
1.178.5
न हिंस्या मानुषा भूयो युष्माभिरिति कर्हिचित् ।
हिंसतां हि वधः शीघ्रमेवमेव भवेदिति ॥ १.१७८.५ ॥
"你们今后再也不可伤害人类。伤害人类者,死亡将迅速以同样的方式降临。"
1.178.6
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत ।
एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् ॥ १.१७८.६ ॥
婆罗多之子啊,罗刹们听了他的话,说:“就这样吧。”并接受了那个盟约。
1.178.7
सगणस्तु बकभ्राता प्राणमत्पाण्डवं तदा ।
ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत।
नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः ॥ १.१७८.७ ॥
巴卡的兄弟与其随从便向般度之子俯首致敬。自那时起,婆罗多啊,那里的罗刹变得温和,城中的居民得以看见他们。
1.178.8
ततो भीमस्तमादाय गतासुं पुरुषादकम् ।
निष्कर्णनेत्रं निर्जिह्वं निःसंज्ञं कण्ठपीडनात्।
कुर्वन्बहुविधां चेष्टां पुरद्वारमकर्षत ॥ १.१७८.८ ॥
于是,怖军抓起那具已死的食人者,他的耳朵、眼睛和舌头都已失去,因被扼住喉咙而昏迷,怖军以种种姿态拖着他,直到城门。
1.178.9
द्वारदेशे विनिक्षिप्य पुरमागात्स मारुतिः ।
स एव राक्षसो नूनं पुनरायाति नः पुरीम् ॥ १.१७८.९ ॥
把他丢在门口后,那位风神之子回到了城中。那个罗刹必定会再来我们的城中。
1.178.10
सबालवृद्धाः पुरुषा इति भीताः प्रदुद्रुवुः ।
ततो भीमो बकं हत्वा गत्वा ब्राह्मणवेश्म तत् ॥ १.१७८.१० ॥
人们想着“那罗刹还会再来”,连同孩童与老人都惊恐逃散。于是怖军杀了巴卡,前往那位婆罗门的家中。
1.178.11
बलीवर्दौ च शकटं ब्राह्मणाय न्यवेदयत् ।
तूष्णीमन्तर्गृहं गच्छेत्यभिधाय द्विजोत्तमम् ॥ १.१७८.११ ॥
他把两头公牛与车交给婆罗门,并对这位最优秀的再生者说:“请静静地进屋去吧。”
1.178.12
मातृभ्रातृसमक्षं च गत्वा शयनमेव च ।
आचचक्षेऽथ तत्सर्वं रात्रौ युद्धमभूद्यथा ॥ १.१७८.१२ ॥
他走到母亲与兄弟面前,坐到床上,把夜间战斗是如何进行的,一一讲述。
1.178.13
ततो नरा विनिष्क्रान्ता नगरात्कल्यमेव तु ।
ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ॥ १.१७८.१३ ॥
随后,天亮时众人走出城外,看见罗刹被杀倒在地上,满身是血。
1.178.14
तमद्रिकूटसदृशं विनिकीर्णं भयानकम् ।
दृष्ट्वा संहृष्टरोमाणो बभूवुस्तत्र नागराः ॥ १.१७८.१४ ॥
看见那可怖之躯横陈如山峰,城中百姓无不毛发竖立。
1.178.15
एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः पुरे ।
ततः सहस्रशो राजन्नरा नगरवासिनः ॥ १.१७८.१५ ॥
随后他们前往一轮城,将消息传遍城中。大王啊,于是成千上万的城中百姓都来到了那里。
1.178.16
तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ।
ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वाऽतिमानुषम्।
दैवतान्यर्चयाञ्चक्रुः प्रार्थितानि पुरा भयात् ॥ १.१७८.१६ ॥
人们带着妇女、老人和孩子前来观看巴卡。众人见此超凡之举,无不惊奇,因为恐惧,便祭拜先前祈求过的诸神。
1.178.17
ततः प्रगणयामासुः कस्य वारोऽद्य भोजने ।
ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव ते ॥ १.१७८.१७ ॥
随后他们算计今日轮到谁供应饭食。得知之后,他们走到那位婆罗门面前,众人都向他询问。
1.178.18
एवं पृष्टः स बहुशो रक्षमाणश्च पाण्डवान् ।
उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ॥ १.१७८.१८ ॥
被多次如此询问后,那位守护般度诸子的婆罗门中的俊杰,便对所有城中百姓说了这番话。
1.178.19
आज्ञापितं मामशने रुदन्तं सह बन्धुभिः ।
ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महामनाः ॥ १.१७८.१९ ॥
我被命令去吃饭,与亲族一起哭泣,一位精通咒语、心胸广大的婆罗门看见了我。
1.178.20
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च ।
अब्रवीद्ब्राह्मणश्रेष्ठो विश्वास्य प्रहसन्निव ॥ १.१७८.२० ॥
先询问我城中的苦难之后,婆罗门中最优秀者使我安心,仿佛微笑着说道。
1.178.21
प्रापयिष्याम्यहं तस्मा अन्नमेतद्दुरात्मने ।
मन्निमित्तं भयं चापि न कार्यमिति चाब्रवीत् ॥ १.१७८.२१ ॥
“我会把这食物送给那恶人;不要因我而恐惧。”他这样说道。
1.178.22
स तदन्नमुपादाय गतो बकवनं प्रति ।
तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् ॥ १.१७८.२२ ॥
他拿着那食物,走向巴卡森林。无疑,他这样做是为了世界的福祉。
1.178.23
ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः ।
वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥ १.१७८.२३ ॥
于是所有婆罗门与刹帝利都大为惊异;吠舍与首陀罗也欢喜,于是歌颂梵的威德。
1.178.24
ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति ।
तमद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ॥ १.१७८.२४ ॥
于是乡野百姓都来到城中,要看那最为奇妙之事;而般度之子们仍留在那里。
1.178.25
वेत्रकीयगृहे सर्वे परिवार्य वृकोदरम् ।
विस्मयादभ्यगच्छन्त भीमं भीमपराक्रमम् ॥ १.१७८.२५ ॥
在藤器匠的屋中,众人围住了狼腹(毗摩),因惊叹而走近这位威力可怖的毗摩。
1.178.26
न वै न संभवेत्सर्वं ब्राह्मणेषु महात्मसु ।
इति सत्कृत्य तं पौराः परिवव्रुः समन्ततः ॥ १.१७८.२६ ॥
“在伟大的婆罗门之中,万事皆有可能。”如此说后,城中人敬重他,并从四面将他围住。
1.178.27
अयं त्राता हि खेदानां पितेव परमार्थतः ।
अस्य शुश्रूषवः पादौ परिचर्य उपास्महे ॥ १.१७८.२७ ॥
此人确是免于苦难的庇护者,实则如父亲一般。我们愿侍奉他的双足,因此敬奉他。
1.178.28
पशुमद्दधिमनच्चास्य वारं भक्तमुपाहरन् ।
तस्मिन्हते ते पुरुषा भीताः समनुबोधनाः ॥ १.१७८.२८ ॥
他们轮流给他送来加了肉与酸奶的食物。当他被杀死后,那些人惊恐地醒悟过来。
1.178.29
ततः संप्राद्रवन्पार्थाः सह मात्रा परन्तपाः ।
आगच्छन्नेकचक्रां ते गाण्डवाः संशितव्रताः ॥ १.१७८.२९ ॥
于是普利塔之子——敌人的焚烧者——与母亲一同逃走。持甘提婆弓、誓愿坚定的他们,来到了一轮城。
1.178.30
वैदिकाध्ययने युक्ता जटिला ब्रह्मचारिणः ।
अवसंस्ते च तत्रापि ब्राह्मणस्य निवेशने।
मात्रर सहैकचक्रायां दीर्घकालं सहोषिताः ॥ १.१७८.३० ॥
他们专心研习吠陀,作为发髻蓬松的梵行学徒住在那里。在一轮城的一位婆罗门家中,他们与母亲一同长久地生活。