Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.184

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.184.1

वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु ।
आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ॥ १.१८४.१ ॥

当那些伟大的般度之子隐姓埋名居住时,萨蒂亚瓦蒂之子毗耶娑前来看望他们。

1.184.2

तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः ।
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा ॥ १.१८४.२ ॥

他们看见他走来,那些焚烧敌人的般度之子迎上前去,俯身行礼致敬,然后合掌站立。

1.184.3

समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् ।
प्रच्छन्नं पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ॥ १.१८४.३ ॥

他让众人都坐下之后,这位在伪装中受到普利塔之子们敬奉的仙人,满怀慈爱地说出了这番话。

1.184.4

अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः ।
अपि विप्रेषु पूजा वः पूजार्हेषु न हीयते ॥ १.१८४.४ ॥

焚烧敌人的诸位啊,你们是否依照法与经典而行?对婆罗门和值得尊敬之人的敬奉,有没有减少?

1.184.5

अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः ।
विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ॥ १.१८४.५ ॥

这位圣者说完充满法与利的话语后,又讲述了许多奇妙的故事,并这样说道。

1.184.6

आसीत्तपोवने काचिदृषेः कन्या महात्मनः ।
विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ॥ १.१८४.६ ॥

在一处林中苦修之地,有一位伟大仙人的女儿,腰肢纤细,臀部匀称,眉目姣好,具备一切美德。

1.184.7

कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत ।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥ १.१८४.७ ॥

由于她自己所作的业,她成为不幸之人;这位美丽而贞洁的少女未能得到丈夫。

1.184.8

तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः ।
तोषयामास तपसा सा किलोग्रेण शङ्करम् ॥ १.१८४.८ ॥

于是,她为了丈夫而忧伤,开始修苦行,以严苛的苦行使湿婆(Śaṅkara)欢喜。

1.184.9

तस्याः स भगवांस्तुष्टस्तामुवाच यशस्विनीम् ।
वरं वरय भद्रं ते वरदोऽस्मीति शङ्करः ॥ १.१८४.९ ॥

湿婆对她十分满意,对这位荣耀的女子说:“愿你吉祥;请选择一个恩赐,因为我是赐予恩赐的人。”

1.184.10

अथेश्वरमुवाचेदमात्मनः सा वचो हितम् ।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः ॥ १.१८४.१० ॥

于是她对主神说出对自己有益的话:“我想要一位具备一切德行的丈夫。”她一再重复这句话。

1.184.11

तामथ प्रत्युवाचेदमीशानो वदतां वरः ।
पञ्च ते पतयो भद्रे भविष्यन्तीति भारताः ॥ १.१८४.११ ॥

于是,言辞中最优秀的伊奢那回答她:“吉祥的女子啊,你将有五位丈夫,婆罗多的后裔们。”

1.184.12

एवमुक्ता ततः कन्या देवं वरदमब्रवीत् ।
एकमिच्छाम्यहं देव त्वत्प्रसादात्पतिं प्रभो ॥ १.१८४.१२ ॥

她听后对赐予恩赐的神说:“神啊,主啊,蒙您恩典,我只愿有一位丈夫。”

1.184.13

पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् ।
पञ्चकृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः ॥ १.१८४.१३ ॥

神又说了这句至善之言:“你已对我说过五次:‘请给我一个丈夫’,所以我再说一遍。”

1.184.14

देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ।
द्रुपदस्य कुले जज्ञे सा कन्या देवरूपिणी ॥ १.१८४.१४ ॥

“你得到另一个身体时,所说的话就会实现。”那位具有神性之形的少女降生于德鲁帕达的家族。

1.184.15

निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ।
पाञ्चालनगरे तस्मान्निवसध्वं महाबलाः।
सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ॥ १.१८४.१५ ॥

“注定成为你们妻子的是克里希娜,即毕利沙塔无瑕的女儿。因此,诸位大力者,请住在般遮罗城;得到她之后,你们必定幸福,毫无疑问。”

1.184.16

एवमुक्त्वा महाभागः पाण्डवान्स पितामहः ।
पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ॥ १.१८४.१६ ॥

说完这些话,那位大福德、大苦行的祖父向般度五子和贡蒂告别,然后动身离去。