Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.195

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.195.1

नाहं गृह्णामि वस्ताता दृष्टीर्नास्मि रुषान्विता ।
अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥ १.१९५.१ ॥

孩子们,我并没有夺取你们的眼睛,我也并不充满愤怒。然而,这位婆利古后裔乌鲁惹确实今日对你们怒气冲天。

1.195.2

तेन चक्षूंषि वस्ताता व्यक्तं कोपान्महात्मना ।
स्मरता निहतान्बन्धूनादत्तानि न संशयः ॥ १.१९५.२ ॥

孩子们,那位大德者因愤怒,念及被杀的亲族,显然已夺去了你们的眼睛,毫无疑问。

1.195.3

गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः ।
तदायमूरुणा गर्भो मया वर्षशतं धृतः ॥ १.१९५.३ ॥

孩子们,当你们连婆利古族的胎儿也杀害时,那时这个胎儿被我在大腿中承载了一百年。

1.195.4

षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव ह ।
विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया ॥ १.१९५.४ ॥

具六支的整部吠陀进入了这个在胎中的孩子,为了再次施恩于婆利古族而愿行善。

1.195.5

सोऽयं पितृवधाद्व्यक्तं क्रोधाद्वो हन्तुमिच्छति ।
तेजसा तस्य दिव्येन चक्षूंषि मुषितानि वः ॥ १.१९५.५ ॥

他因父亲被杀,显然出于愤怒想要杀你们;以他神圣的威力,你们的眼睛已被夺去。

1.195.6

तमेव यूयं याचध्वमौर्वं मम सुतोत्तमम् ।
अयं वः प्रणिपातेन तुष्टो दृष्टीः प्रदास्यति ॥ १.१९५.६ ॥

你们应向我那最好的儿子奥尔瓦祈求。你们向他顶礼,他会高兴地把视力还给你们。

1.195.7

एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् ।
ऊचुः प्रसीदेति तदा प्रसादं च चकार सः ॥ १.१९५.७ ॥

众王如此对那生于大腿的仙人说道:“请息怒。”于是他便施恩了。

1.195.8

अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः ।
स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत ॥ १.१९५.८ ॥

正因如此,那位以“和婆”之名闻名于世、最为善良的婆罗门仙人,劈开大腿而降生。

1.195.9

चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः ।
भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् ॥ १.१९५.९ ॥

于是众王恢复视力后各自返回。然而那位婆利古后裔的仙人却认为应当使一切世界遭受败亡。

1.195.10

स चक्रे तात लोकानां विनाशाय मतिं तदा ।
सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः ॥ १.१९५.१० ॥

孩子啊,那时他决意毁灭诸世界;他的心完全偏向于一切。

1.195.11

इच्छन्नपचितिं कर्तुं भृगूणां भृगुनन्दनः ।
सर्वलोकविनाशाय तपसा सहतैधितः ॥ १.१९५.११ ॥

婆利古之子想要报复婆利古族,便与苦行一同燃起怒火,意欲毁灭一切世界。

1.195.12

तापयामास ताँल्लोकान्सदेवासुरमानुषान् ।
तपसोग्रेण महता नन्दयिष्यन्पितामहान् ॥ १.१९५.१२ ॥

他以猛烈而巨大的苦行炙烤那些世界,连同诸神、阿修罗和人类,想要使祖先们欢喜。

1.195.13

ततस्तं पितरस्तात विज्ञाय कुलनन्दनम् ।
पितृलोकादुपागम्य सर्व ऊचुरिदं वचः ॥ १.१९५.१३ ॥

于是祖先们认出了他——亲爱的孩子,家族的喜悦——从祖先之界前来,众人说出了这番话。

1.195.14

और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक ।
प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः ॥ १.१९५.१४ ॥

奥尔瓦,你因严苛苦行而显现的威力已被看见。孩子,请对世界施以恩惠,抑制你自己的愤怒。

1.195.15

नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः ।
वधो ह्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् ॥ १.१९५.१५ ॥

亲爱的孩子,当时自律的婆利古族无力阻止;所有人都对那些作恶的刹帝利之被杀视而不见。

1.195.16

आयुषा विप्रकृष्टेन यदा नः खेद आविशत् ।
तदाऽस्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् ॥ १.१९५.१६ ॥

亲爱的孩子,虽然我们的寿命尚长,忧愁却侵入了我们,于是我们自己渴望刹帝利的被杀。

1.195.17

निखातं यच्च वै वित्तं केनचिद्गृगुवेश्मनि ।
वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः ॥ १.१९५.१७ ॥

有人埋藏在婆利古家中的财物,当时是由那些想激怒刹帝利的人为了仇恨而放置的。

1.195.18

किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजोत्तम ।
यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत् ॥ १.१९५.१८ ॥

最优秀的再生者啊,我们这些渴望天界的人,要财富何用?因为我们的财务总管已经带来了大量财富。

1.195.19

यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः ।
तदाऽस्माभिरयं दृष्ट उपायस्तात संमतः ॥ १.१९५.१९ ॥

当死亡无论如何也无法抓住我们时,亲爱的孩子,我们便看到了这个被认可的办法。

1.195.20

आत्महा च पुमांस्तात न लोकाँल्लभते शुभान् ।
ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा निपातितः ॥ १.१९५.२० ॥

亲爱的孩子,自杀之人不能获得吉祥的世界。因此,我们仔细思量之后,并未以自己的手毁灭自身。

1.195.21

न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि ।
नियच्छेदं मनः पापात्सर्वलोकपराभवात् ॥ १.१९५.२१ ॥

亲爱的孩子,你想做的事并不为我们所喜。让你的心远离这罪恶,远离使一切世界败坏的事。

1.195.22

मा वधीः क्षत्रियांस्तात न लोकान्सप्त पुत्रक ।
दूषयन्तं तपस्तेजः क्रोधमुत्पतितं जहि ॥ १.१९५.२२ ॥

亲爱的孩子,不要杀害刹帝利,也不要毁灭七个世界。儿子啊,抛弃那已经升起、玷污苦行光辉的愤怒。