摩诃婆罗多 · 章 1.196
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.196.1
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा ।
सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥ १.१९६.१ ॥
诸位祖先啊,我当时出于愤怒所发的誓愿,为毁灭一切世界,愿它不会落空。
1.196.2
वृथारोषप्रतिज्ञो वै नाहं जीवितुमुत्सहे ।
अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ॥ १.१९६.२ ॥
我的愤怒誓愿若落空,我实在不敢活下去。因为未尽的怒火会烧毁我,正如火焚烧木钻。
1.196.3
यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति ।
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम् ॥ १.१९६.३ ॥
对于因有缘由而生的愤怒,不值得宽恕的人,不能很好地守护三大人生目标。
1.196.4
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता ।
स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः ॥ १.१९६.४ ॥
因为他是不守规矩者的制伏者,也是守善者的护持者。渴望征服一切的君王,应当在恰当之处施发愤怒。
1.196.5
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा ।
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे ॥ १.१९६.५ ॥
那时我在母胎中,身在腿中,听到刹帝利屠杀婆利古族时,母亲一族女人的哭嚎声。
1.196.6
सामरैर्हि यदा लोके भृगूणां क्षत्रियाधमैः ।
आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविशत् ॥ १.१९६.६ ॥
当世间连同诸神,婆利古族被卑劣的刹帝利连胎中之子也灭绝,而人们竟忍受了,那时愤怒便进入了我心。
1.196.7
प्रकीर्णकेशाः किल मे मातरः पितरस्तथा ।
भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् ॥ १.१९६.७ ॥
我的母亲和父亲也披头散发;因恐惧,他们在所有世界中都找不到庇护。
1.196.8
तान्भृगूणां यदा दारान्कश्चिन्नाभ्युपपद्यत ।
माता तदा दधारेयमूरुणैकेन मां शुभा ॥ १.१९६.८ ॥
当无人接近婆利古们的妻子时,我那吉祥的母亲将我怀在一条大腿之中。
1.196.9
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते ।
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ॥ १.१९६.९ ॥
当世间有制止罪恶者时,在所有世界中便不会有作恶之人出现。
1.196.10
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् ।
तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु ॥ १.१९६.१० ॥
然而当恶人在任何地方都找不到制止者时,许多世界便陷入恶行之中。
1.196.11
जानन्नपि च यः पापं शक्तिमान्न नियच्छति ।
ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते ॥ १.१९६.११ ॥
明知恶行而有能力却不加制止者,即便身为君主,也会与那同一行为相牵连。
1.196.12
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम ।
शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम् ॥ १.१९६.१२ ॥
若我的祖先虽有有力的国王和统治者,却未能得到保护,那么在此,即便珍视生命的人也无法得救。
1.196.13
अत एषामहं क्रुद्धो लोकानामीश्वरो ह्यहम् ।
भवतां च वचो नालमहं समभिवर्तितुम् ॥ १.१९६.१३ ॥
因此我对他们愤怒,因为我是诸世界的主宰;我也不能违背你们的话。
1.196.14
ममापि चेद्भवेदेवमीश्वरस्य सतो महत् ।
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् ॥ १.१९६.१४ ॥
若我身为主宰,也如此轻忽重大过失,那么世界将再次因罪恶而恐惧。
1.196.15
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति ।
दहेदेष च मामेव निगृहीतः स्वतेजसा ॥ १.१९६.१५ ॥
这由我的愤怒所生的火,想要吞噬诸世界;若不以其自身的威力加以制止,它便会焚烧我自己。
1.196.16
भवतां च विजानामि सर्वलोकहितेप्सुताम् ।
तस्माद्विधद्ध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥ १.१९६.१६ ॥
我知道你们渴望一切世界的福祉;因此,诸主啊,请安排对世界与我都有益之事。
1.196.17
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति ।
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ॥ १.१९६.१७ ॥
这由你的愤怒所生的火,想要吞噬诸世界;请将它放入水中。愿你吉祥,因为诸世界都安立于水中。
1.196.18
आपोमयाः सर्वरसाः सर्वमापोमयं जगत् ।
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥ १.१९६.१८ ॥
一切味道皆由水所成,整个世界也由水所成;因此,二生者中最优秀的人啊,请将这愤怒之火放入水中。
1.196.19
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ ।
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥ १.१९६.१९ ॥
婆罗门啊,若你愿意,就让这由愤怒所生的火留在大海中吧;因为诸世界被认为是由水构成的。
1.196.20
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति ।
न चैवं सामरा लोका गमिष्यन्ति पराभवम् ॥ १.१९६.२० ॥
无罪者啊,你的誓言就这样实现吧;如此,诸世界连同诸神便不会走向毁灭。
1.196.21
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये ।
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥ १.१९६.२१ ॥
于是,亲爱的,奥尔瓦将那由愤怒所生的火投入伐楼那的住所;它在大海中吞食着水。
1.196.22
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः ।
तमग्निमुद्हिरद्वक्त्रात्पिबत्यापो महोदधौ ॥ १.१९६.२२ ॥
它化为一个巨大的马头,正如通晓吠陀者所知,那火从口中饮尽大海之水。
1.196.23
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि ।
पराशरं पराँल्लोकाञ्जानञ्ज्ञानवतां वर ॥ १.१९६.२३ ॥
因此愿你吉祥;你也不应毁灭诸世界。智者中最优秀的波罗奢罗啊,你既知晓其他世界,就不要这样做。