Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.207

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.207.1

धृष्टद्युमनस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ ।
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशने ॥ १.२०७.१ ॥

般遮罗王子德里斯塔德尤姆纳当时跟在去往婆利古之子住处的两位俱卢族王子身后。

1.207.2

सोज्ञायमानः पुरुषानवधाय समन्ततः ।
स्वयमारान्निलीनोऽभूद्भार्गवस्य निवेशने ॥ १.२०७.२ ॥

他不为人所识,四面仔细留意,自己在婆利古之子住处附近的远处隐藏起来。

1.207.3

सायं च भीमस्तु रिपुप्रमाथी ।
जिष्णुर्यमौ चापि महानुभावौ।
भैक्षं चरित्वा तु युधिष्ठिराय ।
निवेदयांचक्रुरदीनसत्वाः ॥ १.२०७.३ ॥

傍晚,摧毁敌人的怖军、阿周那,以及两位大力的孪生兄弟,乞食归来,以无畏之心将所得献给坚战。

1.207.4

ततस्तु कुन्ती द्रुपदात्मजां ता-
मुवाच काले वचनं वदान्या।
ततोऽग्रमादाय कुरुष्व भद्रे ।
बलिं च विप्राय च देहि भिक्षाम् ॥ १.२०७.४ ॥

于是慷慨的贡蒂适时对德鲁帕达之女说道:'吉祥的人啊,先取出第一份来烹煮;把供品和施舍给婆罗门。'

1.207.5

ये चान्नमिच्छन्ति ददस्व तेभ्यः ।
परिश्रिता ये परितो मनुष्याः।
ततश्च शेषं प्रविभज्य शीघ्र-
मर्धं चतुर्णां मम चात्मनश्च ॥ १.२०७.५ ॥

把食物给那些想要的人,也给周围聚集的人;然后迅速分配剩余的食物,一半给四人,一半留给我和你自己。

1.207.6

अर्धं तु भीमाय च देहि भद्रे ।
य एष नागर्षभतुल्यरूपः।
गौरो युवा संहननोपपन्न ।
एषो हि वीरो बहुभुक् सदैव ॥ १.२०७.६ ॥

也把一半给比玛吧,善良的女子。这位相貌如象中之牛王,肤色白皙,年轻,体格强健——这位英雄总是食量很大。

1.207.7

सा हृष्टरूपैव तु राजपुत्री ।
तस्या वचः साध्वविशङ्कमाना।
यथावदुक्तं प्रचकार साध्वी ।
ते चापि सर्वे बुभुजुस्तदन्नम् ॥ १.२०७.७ ॥

这位公主面带喜色,毫无疑虑地正确接受了他的话,那位贤德的女子便照所说的去做了。他们众人都吃了那食物。

1.207.8

कुशैस्तु भूमौ शयनं चकार ।
माद्रीपुत्रः सहदेवस्तपस्वी।
अथात्मकीयान्यजिनानि सर्वे ।
संस्तीर्य वीराः सुषुपुर्धरण्याम् ॥ १.२०७.८ ॥

随后用吉祥草在地上铺了床;苦行者、玛德丽之子萨哈德瓦铺开了他们所有的鹿皮,那些英雄便在大地上酣然入睡。

1.207.9

अगस्त्यकान्तामभितो दिशं तु ।
शिरांसि तेषां कुरुसत्तमानाम्।
कुन्ती पुरस्तात्तु बभूव तेषां ।
पादान्तरे चाथ बभूव कृष्णा ॥ १.२०७.९ ॥

朝向阿伽斯提星的方向,是那些库鲁最杰出者的头颅;贡蒂在他们的前方,而黑天女在他们的脚边。

1.207.10

अशेत भूमौ सह पाण्डुपुत्रैः ।
पादोपधानीव कृता कुशेषु।
न तत्र दुःखं मनसापि तस्या ।
न चावमेने कुरुपुङ्गवांस्तान् ॥ १.२०७.१० ॥

她与般度之子们一同躺在地上,仿佛用吉祥草做了脚枕;她心中也没有任何悲伤,也没有轻视那些库鲁中的雄牛。

1.207.11

ते तत्र शूराः कथयांबभूवुः ।
कथा विचित्राः पृतनाधिकाराः।
अस्त्राणि दिव्यानि रथांश्च नागान् ।
खड्गान्गदाश्चापि परश्वधांश्च ॥ १.२०७.११ ॥

那些英雄在那里开始讲述关于统率军队的奇异故事:神圣的兵器、战车与象军,以及刀剑、战锤和战斧。

1.207.12

तेषां कथास्ताः परिकीर्त्यमानाः ।
पाञ्चालराजस्य सुतस्तदानीम्।
सुश्राव कृष्णां च तदा निषण्णां ।
ते चापि सर्वे ददृशुर्मनुष्याः ॥ १.२०७.१२ ॥

在他们的那些故事被讲述时,般遮罗王之子也听说了坐在那里的黑公主,而那些人都望着她。

1.207.13

धृष्टद्युम्नो राजपुत्रस्तु सर्वं ।
वृत्तं तेषां कथितं चैव रात्रौ।
सर्वं राज्ञे द्रुपदायाखिलेन ।
निवेदयिष्यंस्त्वरितो जगाम ॥ १.२०७.१३ ॥

王子德里史吒衍无夜间听完了他们的全部经过,便急忙前往,要将一切完整地禀告给国王德鲁帕达。

1.207.14

पाञ्चालराजस्तु विषण्णरूप-
स्तान्पाण्डवानप्रतिविन्दमानः।
धृष्टद्युम्नं पर्यपृच्छन्महात्मा ।
क्व सा गता केन नीता च कृष्णा ॥ १.२०७.१४ ॥

般遮罗王面带忧色,找不到那些般度之子,便问那位大德的德里史吒衍无:“她去了哪里?黑公主被谁带走了?”

1.207.15

कच्चिन्न शूद्रेण न हीनजेन ।
वैश्येन वा करदेनोपपन्ना।
कच्चित्पदं मूर्ध्नि न पङ्कदिग्धं ।
कच्चिन्न माला पतिता श्मशाने ॥ १.२०७.१५ ॥

她莫非是与首陀罗、或某个出身低贱的人、或是纳税的吠舍结合了吧?莫非有沾满泥污的脚落在她的头上?莫非她的花环在火葬场上掉落了?

1.207.16

कच्चित्स वर्णप्रवरो मनुष्य ।
उद्रिक्तवर्णोऽप्युत एव कच्चित्।
कच्चिन्न वामो मम मूर्ध्नि पादः ।
कृष्णाभिमर्शेन कृतोऽद्य पुत्र ॥ १.२०७.१६ ॥

他是诸种姓中最优秀的人吗,还是更高肤色的人?今天,我左脚被放在我头上,经克里希那之手触碰,难道不是吗,儿子?

1.207.17

कच्चिन्न तप्स्ये परमप्रतीतः ।
संयुज्य पार्थेन नरर्षभेण।
वदस्व तत्त्वेन महानुभाव ।
कोऽसौ विजेता दुहितुर्ममाद्य ॥ १.२०७.१७ ॥

我虽极为欢喜,与人中之牛般的普利塔之子结合,岂能不悲伤?伟大者啊,请如实告诉我:今日赢得我女儿的人是谁?

1.207.18

विचित्रवीर्यस्य सुतस्य कच्चि-
त्कुरुप्रवीरस्य ध्रियन्ति पुत्राः।
कच्चित्तु पार्थेन यवीयसाऽध्य ।
धनुर्गृहीतं निहतं च लक्ष्यम् ॥ १.२०७.१८ ॥

毗其特罗跋耶之子、俱卢英雄的儿子们还活着吗?今天,那位年幼的普利塔之子是否拿起弓,击中了目标?