Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.37.1

मातुः सकाशात्तं शापं श्रुत्वा वै पन्नगोत्तमः ।
वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ॥ १.३७.१ ॥

蛇中之王伐苏吉听了母亲的诅咒后,思考这诅咒如何能不应验。

1.37.2

ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः ।
ऐरावतप्रभृतिभिः सर्वैर्धर्मपरायणैः ॥ १.३७.२ ॥

于是他与以爱罗婆多为首的众兄弟,即所有奉行法的兄弟,充分商议。

1.37.3

अयं शापो यथोद्दिष्टो विदितं वस्तथाऽनघाः ।
तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ॥ १.३७.३ ॥

诸位无罪者,你们知道此诅咒已如此宣告。让我们商议,努力从这诅咒中解脱。

1.37.4

सर्वेषामेव शापानां प्रतिघातो हि विद्यते ।
न तु मात्राऽभिशप्तानां मोक्षः क्वचन विद्यते ॥ १.३७.४ ॥

所有诅咒确实都有化解之法,但被母亲诅咒的人,无处可得解脱。

1.37.5

अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः ।
शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ॥ १.३७.५ ॥

在不朽、无量、真实的面前,听到'被诅咒'这话,我的心中便生起颤抖。

1.37.6

नूनं सर्वविनाशोऽयमस्माकं समुपागतः ।
शापः सृष्टो महाघोरो मात्रा खल्वविनीतया।
न ह्येतां सोऽव्ययो देवः शपत्नीं प्रत्यषेधयत् ॥ १.३७.६ ॥

我们必定遭遇了全面的毁灭。无礼的母亲发出了这可怕的诅咒,而不朽的神并没有阻止那位对手。

1.37.7

तस्मात्संमन्त्रयामोऽद्य भुजङ्गानामनामयम् ।
यथा भवेद्धि सर्वेषां मा नः कालोऽत्यगादयम् ॥ १.३७.७ ॥

因此,让我们现在共同商议,使所有蛇族都得安康;不要让这时机从我们身边溜走。

1.37.8

सर्व एव हि नस्तावद्बुद्धिमन्तो विचक्षणाः ।
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे ॥ १.३७.८ ॥

我们都聪明而有见识;共同商议,必能找到解脱的办法。

1.37.9

यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ।
यथा स यज्ञो न भवेद्यथा वाऽपि पराभवः।
जनमेजयस्य सर्पाणां विनाशकरणाय वै ॥ १.३७.९ ॥

正如往昔诸神失去了藏于洞穴中的火,正如那场祭祀未能举行,或如遭受了失败,愿为消灭诸蛇而举行的遮那梅阇耶祭祀也不得举行。

1.37.10

तथेत्युक्त्वा ततः सर्वे काद्रवेयाः समागताः ।
समयं चकिरे तत्र मन्त्रबुद्धिविशारदाः ॥ १.३७.१० ॥

说“就这样吧”之后,迦德卢的众子便聚集起来,他们精通谋略与智慧,在那里订立了一项约定。

1.37.11

एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः ।
जनमेजयं तु भिक्षामो यज्ञस्ते न भवेदिति ॥ १.३७.११ ॥

那里有些蛇说:“我们化作最优秀的婆罗门,向遮那梅阇耶乞求布施,使你的祭祀不能举行。”

1.37.12

अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः ।
मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः ॥ १.३७.१२ ॥

而其他自以为有学问的蛇说:“我们都将成为他受信任的谋臣。”

1.37.13

स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् ।
तत्र बुद्धिं प्रदास्यामो यथा यज्ञो निवर्त्स्यति ॥ १.३७.१३ ॥

他将在一切事务上向我们询问义理的决断;我们在那里献上如此的见解,使祭祀停止。

1.37.14

स नो बहुमतान्राजा बुद्ध्या बुद्धिमतां वरः ।
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् ॥ १.३७.१४ ॥

那位在智者中最为杰出的国王,极为敬重我们,必会明确地为祭祀而问我们;那时我们便说:「不」。

1.37.15

दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् ।
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ॥ १.३७.१५ ॥

我们指出此世与彼世的许多可怕过失,以理由与论据,使那场祭祀不能举行。

1.37.16

अथवा य उपाध्यायः क्रतोस्तस्य भविष्यति ।
सर्पसत्रविधानज्ञो राजकार्यहिते रतः ॥ १.३७.१६ ॥

或者,那场祭祀的主祭官,他通晓蛇祭之仪轨,并致力于王事之利益。

1.37.17

तं गत्वा दशतां कश्चिद्भुजङ्गः स मरिष्यति ।
तस्मिन्मृते यज्ञकारे क्रतुः स न भविष्यति ॥ १.३७.१७ ॥

让某条蛇前去咬他,他便会死去;主持祭祀的人一死,那场祭祀便不能举行。

1.37.18

ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य चर्त्विजः ।
तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ॥ १.३७.१८ ॥

凡是通晓蛇祭、将为他担任祭司的其他人,我们也都要咬死;如此,事情便能办成。

1.37.19

अपरे त्वब्रुवन्नागा धर्मात्मानो दयालवः ।
अबुद्धिरेषा भवतां ब्रह्महत्या न शोभनम् ॥ १.३७.१९ ॥

然而另有一些心怀正法、慈悲为怀的蛇说:你们这想法愚蠢;杀害婆罗门是不合宜的。

1.37.20

सम्यक्सद्धर्ममूला वै व्यसने शान्तिरुत्तमा ।
अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ॥ १.३७.२० ॥

植根于真正正法的平静,在灾难中确为至上;非法之盛行将毁灭整个世界。

1.37.21

अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् ।
वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ॥ १.३७.२१ ॥

另有一些蛇说:我们化为带闪电的云,用暴雨熄灭熊熊燃烧的火。

1.37.22

स्रुग्भाण्डं निशि गत्वा च अपरे भुजगोत्तमाः ।
प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ॥ १.३७.२२ ॥

夜间,另有一些最优秀的蛇前往,迅速夺走疏忽者的祭勺器皿;如此便会造成阻碍。

1.37.23

यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः ।
जनान्दशन्तु वै सर्वे नैवं त्रासो भविष्यति ॥ १.३७.२३ ॥

或者在那场祭祀中,成百上千的蛇都咬人;如此便不会有恐惧。

1.37.24

अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः ।
स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ॥ १.३७.२४ ॥

或者让蛇用自己的尿和粪便污染已备好的食物,这会毁坏一切食物。

1.37.25

अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे ।
यज्ञविघ्नं करिष्यामो दक्षिणा दीयतामिति ॥ १.३७.२५ ॥

其他人在那里说:“我们将成为他的祭司,并阻碍祭祀;应当给予布施。”

1.37.26

वश्यतां च गतोऽसौ नः करिष्यति यथेप्सितम् ।
अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् ॥ १.३७.२६ ॥

“他归顺我们之后,会照我们的心意去做。”而其他人在那里谈到了在水中嬉戏的国王……

1.37.27

गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ।
अपरे त्वब्रुवंस्तत्र नागाः पण्डितमानिनः ॥ १.३७.२७ ॥

“把他带回家捆起来;这样祭祀会完成,而他则不会。”而那些自认为聪明的蛇中的其他人说……

1.37.28

दशामस्तं प्रगृह्याशु कृतपेवं भविष्यति ।
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ॥ १.३७.२८ ॥

“迅速抓住他的处境,事情就这样完成。他一死,灾祸的根源就断绝了。”

1.37.29

एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः ।
अथ यन्मन्यसे राजन्द्रुतं तत्संविधीयताम् ॥ १.३७.२९ ॥

“这是我们坚定的决定,大家都已看见听见。现在,大王,你认为正确的,请迅速安排。”

1.37.30

इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगोत्तमम् ।
वासुकिश्चापि संचिन्त्य तानुवाच भुजङ्गमान् ॥ १.३७.३० ॥

说完这些,他们望向蛇中最优秀的婆苏吉。婆苏吉也思量之后,对那些蛇说道。

1.37.31

नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः ।
सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ॥ १.३७.३१ ॥

诸蛇啊,你们的这个决定不能被视为最终而正确的。所有蛇的主张也都不合我意。

1.37.32

किं तत्र संविधातव्यं भवतां स्याद्धितं तु यत् ।
श्रेयः प्रसादनं मन्ये कश्यपश्य महात्मनः ॥ १.३७.३२ ॥

在那里应当安排对你们有利的事。我认为最好是安抚伟大的迦叶波。

1.37.33

ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजङ्गमाः ।
न च जानाति मे बुद्धिः किंचित्कर्तुं वचो हिवः ॥ १.३७.३३ ॥

诸蛇啊,无论出于对族人的情谊,还是出于我自身的利益,我的智慧都不知道该为你们履行哪一句承诺。

1.37.34

मया हीदं विधातव्यं भवतां यद्धितं भवेत् ।
अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ॥ १.३७.३४ ॥

我应当做对你们有益的事。因此我深感痛苦,因为功与过都系于我身。