Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.38

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.38.1

सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च ।
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥ १.३८.१ ॥

聽了眾蛇的話,聽到大家都這樣說,又聽了婆蘇吉的話之後,埃拉帕特拉說了這番話。

1.38.2

प्रागेव दर्शिता बुद्धिर्मयैषा भुजगोत्तमाः ।
हेयेति यदि वो बुद्धिस्तवापि च तथा प्रभो ॥ १.३८.२ ॥

我先前已經表明了這番見解,諸位最優秀的蛇啊。若你們的見解認為應當捨棄,那麼主上您的見解也是如此。

1.38.3

अस्तु कामं मभाद्यापि बुद्धिः स्मरणमागता ।
तां शृणुध्वं प्रवक्ष्यामि याथातथ्येन पन्नगाः ॥ १.३८.३ ॥

好吧,依你們所願。如今那番見解也已重回我的記憶。諸蛇啊,請聽,我將如實地說出。

1.38.4

न स यज्ञो न भविता न स राजा तथाविधः ।
जनमेजयः पाण्डवेयो यतोऽस्माकं महद्भयम् ॥ १.३८.४ ॥

那場祭祀不會舉行,也不會有那樣的國王——般度後裔的遮那梅惹耶,我們因他而有極大的恐懼。

1.38.5

दैवेनोपहतो राजन्यो भवेदिह पूरुषः ।
स दैवमेवाश्रयेत नान्यत्तत्र परायणम् ॥ १.३८.५ ॥

若人在此遭受命運的打擊,他應當只投靠命運;此外別無所依。

1.38.6

तदिदं चैवमस्माकं भयं पन्नगसत्तमाः ।
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ॥ १.३८.६ ॥

因此,諸位最優秀的蛇啊,我們的恐懼便是如此;此時我們只投靠命運。請聽我的話。

1.38.7

अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा ।
मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः।
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्ण इति प्रभो ॥ १.३८.७ ॥

诅咒宣布时,我因恐惧爬上母亲的膝上听到了那些话。诸位蛇中之最,主啊,所说是:「猛烈,猛烈」。

1.38.8

शापदुःखाग्नितप्तानां पन्नगानामनामयम् ।
कृपया परयाऽऽविष्टाः प्रार्थयन्तो दिवौकसः ॥ १.३८.८ ॥

天界的居民满怀至高的悲悯,为被诅咒之苦火所灼烧的诸蛇祈求平安。

1.38.9

का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह ।
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥ १.३८.९ ॥

祖父啊,除了形貌凶猛的迦德鲁,哪位得到心爱之子的女子会这样诅咒?诸神之神啊,就在您面前。

1.38.10

तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह ।
इच्छाम एतद्विज्ञातुं कारणं यन्न वारिता ॥ १.३८.१० ॥

祖父啊,您也对她的话说了「就这样吧」。我们想知道您为何没有阻止她。

1.38.11

बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः ।
प्रजानां हितकामोऽहं न च वारितवांस्तदा ॥ १.३८.११ ॥

许多蛇猛烈、形貌可怖且剧毒。我愿众生安好,故当时没有阻止她。

1.38.12

ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः ।
तेषां विनाशो भविता न तु ये धर्मचारिणः ॥ १.३८.१२ ॥

唯有那些咬人的、卑劣的、行为邪恶且毒性猛烈的蛇才会灭亡;而行法的诸蛇则不会。

1.38.13

यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् ।
पन्नगानां निबोधध्वं तस्मिन्काले समागते ॥ १.३८.१३ ॥

因为他,他们将从大恐惧中获得解脱。诸蛇啊,当那时到来时,你们应当知道。

1.38.14

यायावरकुले धीमान्भविष्यति महानृषिः ।
जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः ॥ १.३८.१४ ॥

在药药婆罗(Yāyāvara)家族中,将出现一位聪慧的大仙人,名为Jaratkāru,是一位克制感官的苦行者。

1.38.15

तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः ।
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा।
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥ १.३८.१५ ॥

他的儿子,即Jaratkāru之子,苦行富足者,名为Āstīka;那时他将阻止那场祭祀。在那里,成为正义者的诸蛇将获得解脱。

1.38.16

स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः ।
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥ १.३८.१६ ॥

梵天啊,那位最优秀的仙人、大苦行者Jaratkāru,将在谁身上生育一位高尚而有力的儿子呢?

1.38.17

वासुकेर्भगिनी कन्या समुत्पन्ना सुशोभना ।
तस्मै दास्यति तां कन्यां वासुकिर्भुजगोत्तमः ॥ १.३८.१७ ॥

Vāsuki的妹妹,一位生而极其美丽的少女;蛇中之最Vāsuki将把她嫁给他。

1.38.18

तस्यां जनयिता पुत्रं वेदवेदाङ्गपारगम् ।
सनामायां सनामा स कन्यायां द्विजसत्तमः ॥ १.३८.१८ ॥

那位最优秀的再生者,将通过一位同名的少女,在她身上生下一个精通吠陀及吠陀支分的儿子。

1.38.19

एवमस्त्विति तं देवाः पितामहमथाब्रुवन् ।
उत्क्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ ॥ १.३८.१९ ॥

诸神对祖父说:「就这样吧。」毗梨婆齐对诸神说完这些话后,便升往天界。

1.38.20

सोऽहमेवं प्रपश्यामि वासुके भगिनी तव ।
जरत्कारुरिति ख्याता तां तस्मै प्रतिपादय ॥ १.३८.२० ॥

我如此看到,婆苏枳啊:把你那名为旃罗特迦卢的妹妹嫁给他吧。

1.38.21

भैक्षवद्भिक्षमाणाय नागानां भयशान्तये ।
ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया ॥ १.३८.२१ ॥

把她给那位持守坚固誓愿、乞求布施的仙人,以平息诸蛇的恐惧;我听说,这正是解脱之道。