Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.48

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.48.1

गतमात्रं तु भर्तारं जरत्कारुरवेदयत् ।
भ्रातुः सकाशमागत्य यथातथ्यं तपोधन ॥ १.४८.१ ॥

丈夫刚离去,阇罗特卡茹便来到兄长处,如实相告,苦行的宝藏啊。

1.48.2

ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् ।
उवाच भगिनीं दीनां तदा दीनतरः स्वयम् ॥ १.४८.२ ॥

那位蛇中之首听到极其不幸的消息,自己也更加悲伤,便对悲苦的妹妹说道。

1.48.3

जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् ।
पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि ॥ १.४८.३ ॥

善良的女子啊,你知道这份赠予的目的和缘由。若你为了蛇族的福祉生下一子……

1.48.4

स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् ।
एवं पितामहः पूर्वमुक्तवांस्तु सुरैः सह ॥ १.४८.४ ॥

那位有力者必将使我们从蛇祭中解脱。往昔祖父曾与诸神如此说过。

1.48.5

अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् ।
न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः ॥ १.४८.५ ॥

好命的女子啊,你是否已从那位最好的圣人身上怀上了孩子?我不愿那位智者的婚姻落空。

1.48.6

कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् ।
किंतु कार्यगरीयस्त्वात्ततस्त्वाऽहमचूचुदम् ॥ १.४८.६ ॥

诚然,我这样问你并不合宜,但因事情重大,我还是催促了你。

1.48.7

दुर्वार्यतां विदित्वा च भर्तुस्तेऽतितपस्विनः ।
नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् ॥ १.४८.७ ॥

知道你丈夫不可抗拒的性情,以及那位极度苦修者的性情,我绝不会跟随他,因为他可能会诅咒我。

1.48.8

आचक्ष्व भद्रे भर्तुः स्वं सर्वमेव विचेष्टितम् ।
उद्धरस्व च शल्यं मे घोरं हृदि चिरस्थितम् ॥ १.४८.८ ॥

善良的女子啊,把你丈夫的全部行为告诉我,并拔出这根长久扎在我心中的可怕的刺吧。

1.48.9

जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत ।
आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम् ॥ १.४८.९ ॥

被如此询问后,耆羅迦茹答道,并安慰痛苦的蛇王婆修基。

1.48.10

पृष्टो मयाऽपत्यहेतोः स महात्मा महातपाः ।
अस्तीत्युत्तरमुद्दिश्य ममेदं गतवांश्च सः ॥ १.४८.१० ॥

我为求子嗣而问他;那位大德、大苦行者答道「有」,并就此对我作了指示,然后离去了。

1.48.11

स्वैरेष्वपि न तेनाहं स्मरामि वितथं वचः ।
उक्तपूर्वं कुतो राजन्सांपराये स वक्ष्यति ॥ १.४८.११ ॥

即使是在玩笑中,我也不记得他曾说过假话;大王啊,他先前所说的话,他在来世怎么会不说呢?

1.48.12

न संतापस्त्वया कार्यः कार्यं प्रति भुजंगमे ।
उत्पत्स्यति च ते पुत्रो ज्वलनार्कसमप्रभः ॥ १.४८.१२ ॥

蛇啊,你不必为此事忧愁;你将生下一个儿子,光辉如火与太阳。

1.48.13

इत्युक्त्वा स हि मां भ्रातर्गतो भर्ता तपोधनः ।
तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् ॥ १.४८.१३ ॥

他说完这些话,富有苦行的我的丈夫便离我而去。因此,兄长,愿你心中所存的这份巨大忧愁消散。

1.48.14

एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा ।
एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत ॥ १.४८.१४ ॥

蛇王婆苏吉听后,满心欢喜,说道:“就这样吧。”于是接受了妹妹的这番话。

1.48.15

सान्त्वमानार्थदानैश्च पूजया चारुरूपया ।
सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः ॥ १.४८.१५ ॥

蛇中最尊贵者以安慰、敬意、财物之赠与恭敬,尊崇他那容貌美丽的亲妹妹。

1.48.16

ततः प्रववृधे गर्भो महातेजा महाप्रभः ।
यथा मोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि ॥ १.४८.१६ ॥

婆罗门中最优秀者啊,那具有大光辉、大威光的胎儿便开始成长,正如白半月时升起于天空的月亮渐渐增长。

1.48.17

अथ काले तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा ।
कुमारं देवगर्भाभं पितृमातृभयापहम् ॥ १.४८.१७ ॥

梵者啊,待到时候,那蛇王的妹妹生下一子,宛如天神的胎儿,能消除父母的恐惧。

1.48.18

ववृधे स तु तत्रैव नागराजनिवेशने ।
वेदांश्चाधिजगे साङ्गान्भार्गवच्यवनात्मजात् ॥ १.४८.१८ ॥

他就在蛇王的宫殿中成长,并从婆利古族的车耶那之子那里学习了吠陀及其支分。

1.48.19

चीर्णव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः ।
नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत ॥ १.४८.१९ ॥

他虽然年幼,却持守誓愿,具备智慧与善性;在诸世界中,他以阿斯提卡之名闻名。

1.48.20

अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् ।
वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् ॥ १.४८.२० ॥

因为他的父亲说了一句「他在」便离去,留下他仍在胎中,因此这片森林以他的名字阿斯提卡而闻名。

1.48.21

स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् ।
गृहे पन्नगराजस्य प्रयत्नात्परिरक्षितः ॥ १.४८.२१ ॥

他仍是孩童,留居那里,智慧无量,在蛇王的家中被小心地守护着。

1.48.22

भगवानिव देवेशः शूलपाणिर्हिरण्मयः ।
विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् ॥ १.४८.२२ ॥

他如同神圣的诸神之主,手持三叉戟,身披金色光辉,渐渐长大,使所有那些蛇都欢喜。