Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.52

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.52.1

ततः कर्म प्रववृते सर्पसत्रविधानतः ।
पर्यक्रामंश्च विदिवत्स्वे स्वे कर्मणि याजकाः ॥ १.५२.१ ॥

于是依照蛇祭的仪轨开始了仪式,各自执掌其职的祭司依礼来回走动。

1.52.2

प्रावृत्य कृष्णवासांसि धूम्रसंरक्तलोचनाः ।
जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ॥ १.५२.२ ॥

身披黑衣,被烟熏红了眼睛,他们诵念咒语,向熊熊燃烧的生身火(Jātavedas)中倾注祭品。

1.52.3

कम्पयन्तश्च सर्वेषामुरगाणां मनांसि च ।
सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ॥ १.५२.३ ॥

使所有蛇的心神为之战栗,他们便在那里把所有的蛇召入火口,以供祭献。

1.52.4

ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने ।
विचेष्टमानाः कृपणमाह्वयन्तः परस्परम् ॥ १.५२.४ ॥

于是众蛇聚集到燃烧的承载祭品的火前,痛苦地扭动着身体,彼此呼喊。

1.52.5

विस्फुरन्तः श्वसन्तश्च वेष्टयन्तः परस्परम् ।
पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ॥ १.५२.५ ॥

它们颤抖、嘶嘶作响,彼此缠绕,用尾巴和头部猛烈地扑向那光焰明亮的火(Citrabhānu)。

1.52.6

श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा ।
नदन्तो विविधान्नादान्पेतुर्दीप्ते विभावसौ ॥ १.५२.६ ॥

白色、黑色和蓝色的蛇,年老的和年幼的,发出各种叫声,纷纷坠入熊熊烈火之中。

1.52.7

क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः ।
पतन्त्यजस्रं वेगेन वह्नावग्निमतां वर ॥ १.५२.७ ॥

在哥卡尔纳的范围内,长一克罗沙和一由旬,它们不停地急速坠入火中,那火是持火者中最优秀的。

1.52.8

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च ।
अवशानि विनष्टानि पन्नगानां तु तत्र वै ॥ १.५२.८ ॥

就这样,剩余的数以十万、百万、千万计的蛇在那里被毁灭。

1.52.9

तुरगा इव तत्रान्ये हस्तिहस्ता इवापरे ।
मत्ता इव च मातङ्गा महाकाया महाबलाः ॥ १.५२.९ ॥

其中一些像马,另一些像象鼻,还有一些像发狂的大象,身躯庞大,力量强大。

1.52.10

उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः ।
घोराश्च परिघप्रख्या दन्दशूका महाबलाः।
प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ॥ १.५२.१० ॥

许多高低不一、颜色各异、充满剧毒、可怕、如铁棒般的大力噬咬蛇,被母亲之言的杖所折磨,纷纷坠入火中。