摩诃婆罗多 · 章 1.54
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.54.1
तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा ।
वासुकेर्नागराजस्य वचनादिदमब्रवीत् ॥ १.५४.१ ॥
于是,jaratkāru 唤来自己的儿子,依蛇王婆苏吉之言说道:
1.54.2
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः ।
कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम् ॥ १.५४.२ ॥
孩子,我因一个缘由被兄长交给你的父亲;那个时刻now已到来,你就依此行事吧。
1.54.3
किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे ।
तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्ताऽस्मि तत्तथा ॥ १.५४.३ ॥
舅舅出于什么缘由把你给了我的父亲?请如实告诉我,我听后便照此行事。
1.54.4
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी ।
भगिनी नागराजस्य जरत्कारुरविक्लबा ॥ १.५४.४ ॥
于是,蛇王之妹 jaratkāru 为亲族的福祉着想,毫不畏惧地对他说道。
1.54.5
पन्नगानामशेषाणां माता कद्रूरिति श्रुता ।
तया शप्ता रुषितया सुता यस्मान्निबोध तत् ॥ १.५४.५ ॥
迦德卢被称为所有蛇的母亲;她愤怒之下诅咒了他们,请听其中缘由。
1.54.6
उच्चैः श्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम ।
विनतार्थाय पणिते दासभावाय पुत्रकाः ॥ १.५४.६ ॥
那匹马王乌刹室罗婆,我并未使其成为虚妄;为了毗娜塔,它被作为奴役的赌注押上了,诸子啊。
1.54.7
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ।
तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ॥ १.५४.७ ॥
在阇那密阇耶的祭祀中,以风为御者的火将焚烧你们;在那里,你们将遭遇死亡,前往亡者之界。
1.54.8
तां च शप्तवतीं देवः साक्षाल्लोकपितामहः ।
एवमस्त्विति तद्वाक्यं प्रोवाचानु मुमोद च ॥ १.५४.८ ॥
对那位降下诅咒的女子,世界之祖神亲自说道:「就这样吧」,认可了她的话语并感到欢喜。
1.54.9
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा ।
अमृते मथिते तात देवाञ्छरणमीयिवान् ॥ १.५४.९ ॥
孩子啊,婆苏吉也在听到祖神的那些话后,在搅动甘露时,投靠了诸神。
1.54.10
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् ।
भ्रातरं मे पुरस्कृत्य पितामहमुपागमन् ॥ १.५४.१० ॥
诸神皆已成就所愿,获得了无上甘露,便带着我的兄弟走到祖神面前。
1.54.11
ते तं प्रसादयामासुः सुराः सर्वेऽब्जसंभवम् ।
राज्ञा वासुकिना सार्धं शापोऽसौन भवेदिति ॥ १.५४.११ ॥
诸神皆向出生于莲花者(梵天)求情,并与国王婆苏吉一同说道:「愿此诅咒不成。」
1.54.12
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् ।
अभिशापः स मातुस्तु भगवन्न भवेत्कथम् ॥ १.५४.१२ ॥
这位龙王婆苏吉因族人之事而忧伤。尊者啊,母亲的那个诅咒怎么能不成真呢?
1.54.13
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति ।
तत्र जातो द्विजः शापान्मोक्षयिष्यति पन्नगान् ॥ १.५४.१३ ॥
仙人Jaratkāru将获得名为Jaratkārū的妻子;由她所生的再生者将使诸蛇脱离诅咒。
1.54.14
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगोत्तमः ।
प्रादान्माममरप्रख्य तव पित्रे महात्मने ॥ १.५४.१४ ॥
婆苏吉——诸蛇之王——听闻此言,将我赠予你那心胸宽广的父亲,啊,你与不死者相似者。
1.54.15
प्रागेवानागते काले तस्मात्त्व मय्यजायथाः ।
अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि ॥ १.५४.१५ ॥
在时机未到之前,你已在我之中诞生。那个时机now已经来临;你应当使我们脱离恐惧。
1.54.16
भ्रातरं चापि मे तस्मात्त्रातुमर्हसि पावकात् ।
न मोघं तु कृतं तत्स्याद्यदहं तव धीमते।
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ॥ १.५४.१६ ॥
因此,你也应当使我的兄弟脱离火难。愿我为使你那智慧的父亲获得解脱而被给予的那件事不致白费。孩子,你以为如何?
1.54.17
एवमुक्तस्तथेत्युक्त्वा सास्तीको मातरं तदा ।
अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव ॥ १.५४.१७ ॥
听罢此言,阿斯提迦说:“就这样吧。”随即对因悲痛而煎熬的母亲婆苏吉说话,仿佛要使她重获生命。
1.54.18
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम ।
तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते ॥ १.५४.१८ ॥
婆苏吉啊,诸蛇之王,大力者啊,我将使你脱离那诅咒;这是我对你说的真话。
1.54.19
भव स्वस्थमना नाग न हि ते विद्यते भयम् ।
प्रयतिष्ये तथा राजन्यथा श्रेयो भविष्यति ॥ १.५४.१९ ॥
蛇啊,心要安定,你并无恐惧。大王啊,我会尽力使吉祥降临。
1.54.20
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ।
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् ॥ १.५४.२० ॥
我的言语即使在戏笑中也从未说过谎话,何况会说别的?去见那位最好的国王、正在受戒的遮那弥阇耶……
1.54.21
वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ।
यथा स यज्ञो नृपतेर्निवत्रिष्यति सत्तम ॥ १.५४.२१ ॥
舅舅啊,我将以吉祥之言今日取悦他,使国王的那场祭祀停止,善人中的最好者啊。
1.54.22
स संभावय नागेन्द्र मयि सर्वं महामते ।
न ते मयि मनो जातु मिथ्या भवितुमर्हति ॥ १.५४.२२ ॥
蛇王啊,大智者啊,请对我全然信任;你的心对我绝不应有虚假。
1.54.23
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते ।
दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः ॥ १.५४.२३ ॥
阿斯蒂迦啊,我眩晕摇晃,心如撕裂;为婆罗门咒杖所压,我已分不清方向。
1.54.24
न सन्तापस्त्वया कार्यः कथंचित्पन्नगोत्तम ।
प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ॥ १.५४.२४ ॥
蛇中之最啊,你切不可以任何方式忧伤;我将消除由炽燃之火在你心中生起的恐惧。
1.54.25
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् ।
नाशयिष्यामि माऽत्र त्वं भयंकार्षीः कथंचन ॥ १.५४.२५ ॥
我将摧毁那可怕的婆罗门杖,其光辉如同时间之火。你在此绝不可有任何恐惧。
1.54.26
ततः स वासुकेर्घोरमपनीय मनोज्वरम् ।
आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ॥ १.५४.२६ ॥
于是他除去了婆苏吉可怕的心火,将其置于自己的肢体之中,然后迅速离去。
1.54.27
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः ।
मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ॥ १.५४.२७ ॥
为了蛇王们的解脱,二生者中最优秀的阿斯提迦来到了遮那耶阇耶那那场具备一切美德的祭祀。
1.54.28
स गत्वाऽपश्यदास्तीको यज्ञायतनमुत्तमम् ।
वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ॥ १.५४.२८ ॥
阿斯提迦到达那里,看见那殊胜的祭祀场所,周围是许多光辉如日如火的祭司。
1.54.29
स तत्र वारितो द्वास्थैः प्रविशन्द्विजसत्तमः ।
अभितुष्टाव तं यज्ञं प्रवेशार्थी परंतपः ॥ १.५४.२९ ॥
在那里,他被守门人阻拦;这位想要入内、令敌人痛苦的二生者中最优者,便赞颂了那场祭祀。
1.54.30
स प्राप्य यज्ञायतनं वरिष्ठं ।
द्विजोत्तमः पुण्यकृतां वरिष्ठः।
तुष्टाव राजानमनन्तकीर्ति-
मृत्विक्सदस्यांश्च तथैव चाग्निम् ॥ १.५४.३० ॥
这位二生者中最优秀、有福德者中最殊胜的人,到达殊胜的祭祀场所后,赞颂了名声无尽的国王、祭司与参列者,同样也赞颂了火神。