Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.57

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.57.1

ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने ।
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ॥ १.५७.१ ॥

在此蛇祭中落入火中的所有蛇,我愿听闻它们的名字,苏多之子啊。

1.57.2

सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च ।
न शक्यं परिसंख्यातुं बहुत्वाद्द्विजसत्तम ॥ १.५७.२ ॥

它们有成千上万、许多、数十万乃至数千万之多;因其数量众多,无法full计数,婆罗门中最优秀者啊。

1.57.3

यथास्मृति तु नामानि पन्नगानां निबोध मे ।
उच्यमानानि मुख्यानां हुतानां जातवेदसि ॥ १.५७.३ ॥

请依我记忆听我诵说蛇的名字;那些被投入火中的主要者,其名字now正被诵出。

1.57.4

वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे ।
नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् ॥ १.५७.४ ॥

请先听我说那些出自婆苏吉家族者:青、赤、白色,可怖,身形巨大,剧毒无比。

1.57.5

अवशान्मातृवाग्दण्डपीडितान्कृपणान्हूतान् ।
कोटिशो मानसः पूर्णः शलः पालो हलीमकः ॥ १.५७.५ ॥

无助的、受母亲言语之杖所苦的、可怜的,以千万计被召唤的——曼那萨、普尔那、舍罗、帕罗、哈里摩迦。

1.57.6

पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः ।
हिरण्यबाहुः शरणः कक्षकः कालदन्तकः ॥ १.५७.६ ॥

皮恰拉、考那波、遮克罗、迦罗韦伽、普罗迦罗那、金臂、舍罗那、迦叉迦、迦罗檀多迦。

1.57.7

एते वासुकिजा नागाः प्रविष्टा हव्यवाहने ।
अन्ये च बहवो विप्र तथा वै कुलसंभवाः।
प्रदीप्ताग्नौ हुताःसर्वे घोररूपा महाबलाः ॥ १.५७.७ ॥

这些生于婆苏吉的蛇,以及许多其他的蛇,婆罗门啊,同样出生于各族的,皆形貌可怖、大力无穷,被投入熊熊烈火之中,进入了火中。

1.57.8

तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् ।
पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः ॥ १.५७.८ ॥

我将讲述生于德叉迦族中的诸蛇,请听:普恰扬达迦、曼达拉迦、平达塞克塔、腊贝那迦。

1.57.9

उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः ।
शिली शलकरो मूकः सुकुमारः प्रवेपनः ॥ १.५७.९ ॥

乌奇迦、沙罗婆、班伽、毗尔瓦德查、毗罗诃那、尸利、沙拉迦罗、牟迦、苏库马罗与普拉韦波那。

1.57.10

मुद्गरः शिशुरोमा च सुरोमा च महाहनुः ।
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥ १.५७.१० ॥

木德伽罗、尸舒罗摩、苏罗摩与摩诃衍努;这些生于德叉迦的蛇进入了火中。

1.57.11

पारावतः पारियात्रः पाण्डरो हरिणः कृशः ।
विहङ्गः शरभो मोदः प्रमोदः संहतापनः ॥ १.५७.११ ॥

波罗婆多、般里耶特罗、般达罗、诃里那、克利莎、毗呵迦、沙罗婆、莫达、普拉摩达与桑诃陀波那。

1.57.12

ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ।
कौरव्यकुलजान्नागाञ्शृणु मे त्वं द्विजोत्तम ॥ १.५७.१२ ॥

这些生于爱拉瓦多族的蛇进入了火中。现在请听我讲,婆罗门中最优者,关于生于俱卢族的诸蛇。

1.57.13

एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः ।
बाहुकः शृङ्गबेरश्च धूर्तकः प्रातरातकौ ॥ १.५७.१३ ॥

埃拉卡、昆达拉、韦尼、韦尼斯坎陀、古玛拉卡、巴胡卡、室利恭伯罗、达尔塔卡、普拉塔尔与阿塔卡。

1.57.14

कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम् ।
धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् ॥ १.५७.१४ ॥

这些出生于俱卢族的(蛇)进入了献祭之火(哈夫亚瓦哈那)。现在请如实听我讲述在持国家族中出生的诸蛇。

1.57.15

कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् ।
शङ्कुकर्णः पिठरकः कुठारमुखसेचकौ ॥ १.५७.१५ ॥

婆罗门啊,在我所述的诸蛇中,有疾如风、毒性猛烈者:商库耳那、皮陀罗迦、枯陀罗穆卡与塞遮迦。

1.57.16

पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः ।
अमाहठः कामठकः सुषेणो मानसोऽव्ययः ॥ १.५७.१६ ॥

普尔纳盎伽达、普尔纳穆卡、普拉哈萨、沙古尼、达里、阿马哈陀、伽马陀迦、苏舍那、摩那萨与阿维耶。

1.57.17

अष्टावक्रः कोमलकः श्वसनो मौनवेपगः ।
भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोदपारकः।
ऋषभो वेगवान्नागः पिण्डारकमहाहनू ॥ १.५७.१७ ॥

八曲、柔和者、呼吸、默然战栗、可怖、颅骨之肢、黄斑及水渠者;公牛、疾速之蛇、团陀罗迦与大颌。

1.57.18

रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ ।
वराहको वीरणकः सुचित्रश्चित्रवेगिकः ॥ १.५७.१८ ॥

赤肢、一切斑鹿、繁盛与帕塔瓦萨卡;猪、维拉那卡、苏奇特拉与奇特拉韦吉卡。

1.57.19

पराशरस्तरुणको मणिः स्कन्धस्तथाऽऽरुणिः ।
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः ॥ १.५७.१९ ॥

波罗奢罗、多卢那迦、摩尼、斯建陀与阿鲁尼——婆罗门啊,我如此列举了这些增益名声的蛇王。

1.57.20

प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ।
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः ॥ १.५७.२० ॥

大体而言,因数量众多,并未一一列举全部;它们的后代,以及这些后代的世系,也未曾尽述。

1.57.21

न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः ।
द्विशीर्षाः पञ्चशीर्षाश्च सप्तशीर्षास्तथाऽपरे।
दशशीर्षाः शतशीर्षास्तथान्ये बहुशीर्षकाः ॥ १.५७.२१ ॥

那些投入熊熊烈火的蛇,无法一一数尽:有两头的,有五头的,有七头的,还有十头的、百头的,以及众多头的。

1.57.22

कालानलविषा घोरा हुताः शतसहस्रशः ।
महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः ॥ १.५७.२२ ॥

毒如劫末之火,可怖,成千上万地被献入火中;身躯庞大,速度迅猛,高如山峰。

1.57.23

योजनायामविस्तारा द्वियोजनसमायताः ।
कामरूपाः कामबला दीप्तानलविषोल्बणाः ॥ १.५७.२३ ॥

长宽各一由旬,延展达二由旬;能随意变化形体,力量随心所欲,毒如熊熊烈火,令人畏惧。

1.57.24

दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपाडिताः ॥ १.५७.२४ ॥

在那场大祭祀中,他们被婆罗门的梵杖击倒,于是被焚烧。