摩诃婆罗多 · 章 1.59
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.59.1
भृगुवंशात्प्रभृत्येव त्वया मे कीर्तितं महत् ।
आख्यानमखिलं तात सौते प्रीतोऽस्मितेन ते ॥ १.५९.१ ॥
啊,苏提,从婆利古的世系开始,你为我讲述了这部伟大而完整的故事;我因你而感到欣慰。
1.59.2
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन ।
याः कथा व्याससंपन्नास्ताश्च भूयो विचक्ष्व मे ॥ १.५९.२ ॥
啊,苏多之子,我将再次恰当地问你;请再为我解说毗耶娑所作的那些故事。
1.59.3
तस्मिन्परमदुष्पारे सर्पसत्रे महात्मनाम् ।
कर्मान्तरेषु यज्ञस्य सदस्यानां तथाऽध्वरे ॥ १.५९.३ ॥
在那极其浩大的蛇祭中,在诸大德行者的祭仪间隙,也在祭会的诸位与会者之间。
1.59.4
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् ।
त्वत्त इच्छामहे श्रोतुं सौते त्वं वै प्रचक्ष्व नः ॥ १.५९.४ ॥
我们希望从你这里听到那些种种故事,以及它们在各件事中究竟如何;啊,苏提,请为我们讲述。
1.59.5
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः ।
व्यासस्त्वकथयच्चित्रमाख्यानं भारतं महत् ॥ १.५९.५ ॥
在祭仪的间隙,再生者们讲述了依托吠陀的故事;然而毗耶娑讲述了伟大而奇妙的婆罗多故事。
1.59.6
महाभारतमाख्यानं पाण्डवानां यशस्करम् ।
जनमेजयेन पृष्टः सन्कृष्णद्वैपायनस्तदा ॥ १.५९.६ ॥
那部名为《摩诃婆罗多》、为般度诸子增添荣耀的故事,当时受到遮阁耶王的询问,由黑天·二岛(毗耶娑)所讲述。
1.59.7
श्रावयामास विधिवत्तदा कर्मान्तरे तु सः ।
तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ॥ १.५९.७ ॥
当时,他在仪式的间隙依礼让人宣读了此事。我愿依礼聆听这段神圣的故事。
1.59.8
मनःसागरसंभूतां महर्षेर्भावितात्मनः ।
कथयस्व सतां श्रेष्ठ सर्वरत्नमयीमिमाम् ॥ १.५९.८ ॥
请讲述此事,它生于心意之海,出自清净自我的大仙人,由一切宝石构成,善人中的至上者啊。
1.59.9
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् ।
कृष्णद्वैपायनमतं महाभारतमादितः ॥ १.५९.९ ॥
好吧,我将为你们讲述那部伟大而至上的叙事,即黑仙(克利须那·德瓦伊帕揚那)所构想的《摩诃婆罗多》,从头讲起。
1.59.10
शृणु सर्वमशेषेण कथ्यमानं मया द्विज ।
शंसितुं तन्महान्हर्षो ममापीह प्रवर्तते ॥ १.५९.१० ॥
再生者啊,请听我完整讲述的这一切,毫无遗漏。讲述此事时,我心中也生起了巨大的喜悦。