Mahābhārata · Adhyāya 1.68
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.68.1
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
सिंहव्याघ्रमृगाणां च पन्नगानां पतत्त्रिणाम् ॥ १.६८.१ ॥
Of the gods, the Dānavas, the Gandharvas, the Uragas and the Rākṣasas, of lions, tigers and deer, of serpents and of birds.
1.68.2
अन्येषां चैव भूतानां संभवं भगवन्नहम् ।
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्।
जन्म कर्म च भूतानामेतेषामनुपूर्वशः ॥ १.६८.२ ॥
O revered one, I wish to hear, truly, the origin of other beings, and especially of the great souls born among men. I wish to hear the births and deeds of these beings in due order.
1.68.3
मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः ।
प्रथमं दानवाश्चैव तांस्ते वक्ष्यामि सर्वशः ॥ १.६८.३ ॥
O lord of men, among those dwellers of heaven who were born among humans, the Dānavas came first. I shall tell you the account of all of them fully.
1.68.4
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः ।
जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः ॥ १.६८.४ ॥
He who was renowned as Vipracitti, the bull among the Dānavas, was renowned as Jarāsandha, the bull among men.
1.68.5
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः ।
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥ १.६८.५ ॥
O king, he who is remembered as the son of Diti, Hiraṇyakaśipu, was born in the human world as Śiśupāla, the bull among men.
1.68.6
संह्लाद इति विख्यातः प्रह्लादस्यानुजस्तु यः ।
स शल्य इति विख्यातो जज्ञे वाहीकपुङ्गवः ॥ १.६८.६ ॥
He who was renowned as Saṃhlāda, the younger brother of Prahlāda, was born as Śalya, the best of the Vāhīkas.
1.68.7
अनुह्लादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः ।
धृष्टकेतुरिति ख्यातः स बभूव नरेश्वरः ॥ १.६८.७ ॥
The radiant Anuhlāda, famed as the youngest, became a king known as Dhṛṣṭaketu.
1.68.8
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः ।
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥ १.६८.८ ॥
O king, the Daitya named Śibi was declared; he became a ruler on earth renowned as Druma.
1.68.9
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः ।
भगदत्त इति ख्यातः सं जज्ञे पुरुषर्षभः ॥ १.६८.९ ॥
Among them was the best of asuras named Bāṣkala; he was born as Bhagadatta, the bull among men.
1.68.10
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् ।
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥ १.६८.१० ॥
Ayaśiras, Aśvaśiras, Ayaśaṅku the powerful, likewise Gaganamūrdhā, and the fifth, the swift one.
1.68.11
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः ।
केकयेषु महात्मानः पार्थिवर्षभसत्तमाः।
केतुमानिति विख्यातो यस्ततोऽन्यःप्रतापवान् ॥ १.६८.११ ॥
O king, these five powerful great asuras were born among the Kekayas as great-souled best of kings; another of them, the mighty one renowned as Ketumān, was born.
1.68.12
अमितौजा इति ख्यातः सोग्रकर्मा नराधिपः ।
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः ॥ १.६८.१२ ॥
He, known as Amitaujas, was a king fierce in deed; and the glorious great asura became renowned as Svarbhānu.
1.68.13
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ।
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः ॥ १.६८.१३ ॥
That king, known as Ugrasena, fierce in his deeds, who was famed as Aśva, was the glorious great asura.
1.68.14
अशोको नाम राजाऽभून्महावीर्योऽपराजितः ।
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः ॥ १.६८.१४ ॥
There was a king named Aśoka, of great valor and unconquered; O king, his younger brother was remembered as Aśvapati.
1.68.15
दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ।
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः ॥ १.६८.१५ ॥
He became the king Hārdikya, a Daiteya, the bull among men; the glorious great asura was famed as Vṛṣaparvan.
1.68.16
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ।
अजकस्त्ववरो राजन्य आसीद्वृषपर्वणः ॥ १.६८.१६ ॥
He, known as Dīrghaprajña, became king upon the earth; O king, Ajaka, the younger brother of Vṛṣaparvan, was a kshatriya prince.
1.68.17
स शाल्व इति विख्यातः पृथिव्यामभवन्नृपः ।
अश्वग्रीव इति ख्यातः सत्ववान्यो महासुरः ॥ १.६८.१७ ॥
He, famed as Śālva, became king on the earth; he who was known as Aśvagrīva, the strong great asura.
1.68.18
रोचमान इति ख्यातः पृथिव्यां कोऽभवन्नृपः ।
सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः ॥ १.६८.१८ ॥
He, known as Rocamāna, became a king upon the earth; O king, he who was subtle and wise was celebrated as renowned.
1.68.19
बृहद्रथ इति ख्यातः क्षितावासीत्स पार्थिवः ।
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः ॥ १.६८.१९ ॥
The king renowned as Bṛhadratha was on the earth; he who was famed as Tuhuṇḍa was the best of the asuras.
1.68.20
सेनाबिन्दुरिति ख्यातः स बूभव नराधिपः ।
इषुमान्नाम यस्तेषामसुराणां बलाधिकः ॥ १.६८.२० ॥
The lord of men renowned as Senābindu came to be; and he who was named Iṣumān was the mightiest among those asuras.
1.68.21
नग्नजिन्नाम राजासीद्भुवि विख्यातविक्रमः ।
एकचक्र इति ख्यात आसीद्यस्तु महासुरः ॥ १.६८.२१ ॥
On the earth there was a king named Nagnajit, famed for valor; and he who was renowned as Ekacakra was a great asura.
1.68.22
प्रतिविन्घ्य इति ख्यातो बभूव प्रथितः क्षितौ ।
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः ॥ १.६८.२२ ॥
Renowned as Prativiṃdhya, he became famous on the earth; and Virūpākṣa, the son of Diti, was a great asura, a warrior of varied skill.
1.68.23
चित्रधर्मेति विख्यातः क्षितावासीत्स पार्थिवः ।
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः ॥ १.६८.२३ ॥
The king famed as Citradharmā was on the earth; Hara, the hero Ariharа, was the best of the danavas.
1.68.24
सुबाहुरिति विख्यातः श्रीमानासीत्स पार्थिवः ।
अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः ॥ १.६८.२४ ॥
The glorious king renowned as Subāhu was there; and Ahara, of great splendor, was the destroyer of the enemy's side.
1.68.25
बाह्लिको नाम राजा स बभूव प्रथितः क्षितौ ।
निचन्द्रश्चन्द्रवक्त्रस्तु य आसीदसुरोत्तमः ॥ १.६८.२५ ॥
A king named Bāhlika became renowned on earth; Nicandra, moon-faced, was that best of asuras.
1.68.26
मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ।
निकुम्भस्त्वजितः संख्ये महामतिरजायत ॥ १.६८.२६ ॥
That glorious king was known as Muñjakeśa; Nikumbha, unconquered in battle and of great wisdom, was born.
1.68.27
भूमौ भूमिपतिश्रेष्ठो देवाधिप इति स्मृतः ।
शरभो नाम यस्तेषां दैतेयानां महासुरः ॥ १.६८.२७ ॥
On earth, the best of rulers, remembered as lord of gods — Śarabha by name, the great asura among those Daityas.
1.68.28
पौरवो नाम राजर्षिः स बभूव नरोत्तमः ।
कुपटस्तु महावीर्यः श्रीमान्राजन्महासुरः ॥ १.६८.२८ ॥
That royal sage named Paurava became best of men; and Kupaṭa of great valor, O king, was a great asura.
1.68.29
सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः ।
कपटस्तु राजन्राजर्षिः क्षितौ जज्ञे महासुरः ॥ १.६८.२९ ॥
The lord of the earth renowned as Supārśva was born on earth; and Kapaṭa, O king, the royal sage, was born on earth as a great asura.
1.68.30
पार्वतेय इति ख्यातः काञ्चनाचलसन्निभः ।
द्वितीयः शलभस्तेषामसुराणां बभूव ह ॥ १.६८.३० ॥
Known as Pārvateya, like a golden mountain; the second among those asuras was Śalabha.
1.68.31
प्रह्लादो नाम बाह्लीकः स बभूव नराधिपः ।
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः ॥ १.६८.३१ ॥
Prahlāda, named Bāhlīka, became that king; and Candra, best of Diti's sons, was in the world like the lord of the stars.
1.68.32
चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः ।
अर्क इत्यभिविख्यातो यस्तु दानवपुङ्गवः ॥ १.६८.३२ ॥
The king of the Kāmbojas was renowned as Candravarman; and he who was the bull among Dānavas was famed as Arka.
1.68.33
ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ।
मृतपा इति विख्यातो य आसीदसुरोत्तमः ॥ १.६८.३३ ॥
A royal sage named Ṛṣika became the best of kings; and the foremost of the asuras, renowned as Mṛtapā, was he.
1.68.34
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ।
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः ॥ १.६८.३४ ॥
Know, O best of kings, that king to be of the Western Ānūpaka; and Gaviṣṭha of great splendour, renowned as a great asura.
1.68.35
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ।
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः ॥ १.६८.३५ ॥
He who became king on earth, renowned as Drumasena; and the glorious great asura renowned as Mayūra.
1.68.36
स विश्व इति विख्यातो बभूव पृथिवीपतिः ।
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः ॥ १.६८.३६ ॥
He became the lord of the earth, renowned as Viśva; and the younger brother of him, who was renowned as Suparṇa.
1.68.37
कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ।
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः ॥ १.६८.३७ ॥
Renowned on earth as Kālakīrti, he became king; the foremost asura among them was named Candrahantā.
1.68.38
शुनको नाम राजर्षिः स बभूव नराधिपः ।
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः ॥ १.६८.३८ ॥
The royal sage named Śunaka became lord of men; the great asura described as the destroyer of the moon was Vināśana.
1.68.39
जानकिर्नाम विख्यातः सोऽभवन्मनुजाधिपः ।
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः ॥ १.६८.३९ ॥
The one famed as Jānaki became lord of men; O Kaurava, the bull among Dānavas described is Dīrghajihva.
1.68.40
काशिराजः स विख्यातः पृथिव्यां पृथिवीपते ।
ग्रहं तु सुषुवे यं तु सिंहिकार्केन्दुमर्दनम्।
स क्राथ इति विख्यातो बभूव मनुजाधिपः ॥ १.६८.४० ॥
O lord of the earth, the king of Kāśi renowned on earth was he whom Siṃhikā bore as the graha, the crusher of sun and moon; he became the lord of men famed as Krātha.
1.68.41
दनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः ।
विक्षरो नाम तेजस्वी वसुमित्रो नृपः स्मृतः ॥ १.६८.४१ ॥
Among the four sons of Danāyu, the foremost asura was the radiant one named Vikṣara; the king Vasumitra is also recorded.
1.68.42
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः ।
पाण्ड्यराष्ट्राधिप इति विख्यातः सोऽभवन्नृपः ॥ १.६८.४२ ॥
O lord of men, the second great asura after Vikṣara became the king renowned as lord of the Pāṇḍya realm.
1.68.43
बली वीर इति ख्यातो यस्त्वासीदसुरोत्तमः ।
पौण्ड्रमात्स्यक इत्येवं बभूव स नराधिपः ॥ १.६८.४३ ॥
He who was renowned as Balī and Vīra, the best of the asuras, became thus the lord of men named Pauṇḍra-Mātsyaka.
1.68.44
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः ।
मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥ १.६८.४४ ॥
O king, the great asura renowned as Vṛtra became the royal sage named Maṇimat, lord of men.
1.68.45
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः ।
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥ १.६८.४५ ॥
The asura who was the younger brother of the one called Krodhahantā, renowned as Daṇḍa, became king upon the earth.
1.68.46
क्रोधवर्धन इत्येवं यस्त्वन्यः परिकीर्तितः ।
दण्डधार इति ख्यातः सोऽभवन्मनुजर्षभः ॥ १.६८.४६ ॥
Another, named Krodhavardhana, became the king known as Daṇḍadhāra, the bull among men.
1.68.47
कालेयानां तु ये पुत्रास्तेषामष्टौ नराधिपाः ।
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥ १.६८.४७ ॥
Among the sons of the Kāleyas, eight kings were born, O tiger among kings, equal to tigers in valor.
1.68.48
मगधेषु जयत्सेनस्तेषामासीत्स पार्थिवः ।
अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥ १.६८.४८ ॥
In Magadha, among them, was that king named Jayatsena; he was the foremost of those eight great asuras, the Kāleyas.
1.68.49
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः ।
अपराजित इत्येवं स बभूव नराधिपः ॥ १.६८.४९ ॥
The second of them, the glorious one like Indra, became a king renowned as Aparājita, the Unconquered.
1.68.50
तृतीयस्तु महातेजा महामायो महासुरः ।
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥ १.६८.५० ॥
The third, a great asura of immense splendor and great illusion, was born on earth as lord of the Niṣādas, of terrible prowess.
1.68.51
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः ।
श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ १.६८.५१ ॥
The fourth of them is named, renowned on earth as Śreṇimān, the best of royal sages.
1.68.52
पञ्चमस्त्वभवत्तेषां प्रवरो यो महासुरः ।
महौजा इति विख्यातो बभूवेह परन्दपः ॥ १.६८.५२ ॥
The fifth, the foremost of them, a great asura known as Mahaujas, became here a scorcher of enemies.
1.68.53
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः ।
अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ १.६८.५३ ॥
The sixth of them, the wise great asura, renowned on earth as Abhīru, was the best of royal sages.
1.68.54
समुद्रसेनस्तु नृपस्तेषामेवाभवद्गणात् ।
विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥ १.६८.५४ ॥
From their group arose the king Samudrasena, renowned on earth to the ocean's edge, a knower of the truths of dharma and artha.
1.68.55
बृहन्नामाष्टमस्तेषां कालेयानां नराधिप ।
बभूव राजा धर्मात्मा सर्वभूतहिते रतः ॥ १.६८.५५ ॥
O lord of men, among them the eighth, Bṛhannāman, became king of the Kāleyas; a righteous soul, he was devoted to the welfare of all beings.
1.68.56
कुक्षिस्तु राजन्विख्यातो दानवानां महाबलः ।
पार्वतीय इति ख्यातः काञ्चनाचलसन्निभः ॥ १.६८.५६ ॥
O king, among the Dānavas Kukṣi, of great might, was renowned; known as 'the mountain-born', he resembled a mountain of gold.
1.68.57
क्रथनश्च महावीर्यः श्रीमान्राजा महासुरः ।
सूर्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः ॥ १.६८.५७ ॥
Krathana, of great valor, a glorious king and a mighty asura, was born on earth renowned as Sūryākṣa.
1.68.58
असुराणां तु यः सकूर्यः श्रीमांश्चैव महासुरः ।
दरदो नाम बाह्लीको वरः सर्वमहीक्षिताम् ॥ १.६८.५८ ॥
Among the asuras, the glorious great asura named Darada, who was with Sakūrya, was Bāhlīka, the best of all earth-rulers.
1.68.59
गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः ।
ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः ॥ १.६८.५९ ॥
O king, from the host named Krodhavaśa, which was declared to you, heroic lords of men were then born here on earth.
1.68.60
मद्रकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा ।
सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ॥ १.६८.६० ॥
Madraka, Karṇaveṣṭa, Siddhārtha, Kīṭaka likewise, Suvīra and Subāhu, and the great hero Bāhlika.
1.68.61
क्रथो विचित्रः सुरथः श्रीमान्नीलश्च भूमिपः ।
चीरवासाश्च कौरव्य भूमिपालश्च नामतः ॥ १.६८.६१ ॥
Kratha, Vicitra, Suratha, the glorious Nīla, the lord of the earth, and, O Kauravya, the earth-protector clad in bark garments, known by name.
1.68.62
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव दानवः ।
रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥ १.६८.६२ ॥
There was one named Dantavaktra, and the demon Durjaya; also Rukmī, tiger among kings, and King Janamejaya.
1.68.63
आषाढो वायुवेगश्च भूरितेजास्तथैव च ।
एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ॥ १.६८.६३ ॥
Āṣāḍha, Vāyuvega, likewise Bhūritejas of great splendor; Ekalavya, Sumitra, Vāṭadhāna, and then Gomukha.
1.68.64
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च ।
श्रुतायुरुद्वहश्चैव बृहत्सेनस्तथैव च ॥ १.६८.६४ ॥
The kings of the Kāruṣakas, likewise Kṣemadhūrti; Śrutāyus, Udvaha, and likewise Bṛhatsena.
1.68.65
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः ।
मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥ १.६८.६५ ॥
Among the Kaliṅgas, Kṣemogratīrtha, Kuhara, the lord of men; the wise lord of men and Īśvara, thus they are renowned.
1.68.66
गणात्क्रोधवशादेष राजपूगोऽभवत्क्षितौ ।
जातः पुरा महाभागो महाकीर्तिर्महाबलः ॥ १.६८.६६ ॥
From a clan, through the power of anger, this throng of kings came to be upon the earth; formerly born, this one of great fortune, of great fame, of great might.
1.68.67
कालनेमिरिति ख्यातो दानवानां महाबलः ।
स कंस इति विख्यात उग्रसेनसुतो बली ॥ १.६८.६७ ॥
Known as Kālanemi, the greatly mighty one among the Dānavas, he became famous as Kaṃsa, the powerful son of Ugrasena.
1.68.68
यस्त्वासीद्देवको नाम देवराजसमद्युतिः ।
स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥ १.६८.६८ ॥
He who was named Devaka, radiant like the king of gods, the foremost lord of the Gandharvas, was born on earth as a king of men.
1.68.69
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत ।
अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥ १.६८.६९ ॥
Know, O Bhārata, that Droṇa was born from a portion of Bṛhaspati and of the far-famed divine sage; he was the son of Bhāradvāja, not born from a womb.
1.68.71
धन्विनां नृपशार्दूल यः सर्वास्त्रविदुत्तमः ।
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः।
वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥ १.६८.७१ ॥
O tiger among kings, the foremost of archers, the best knower of all weapons, whom the knowers of the Veda know in the science of the bow and in the Veda — Droṇa, the wondrous in deed, the increaser of his own lineage.
1.68.72
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत ।
एकत्वमुपसंपद्य जज्ञे शूरः परन्तपः ॥ १.६८.७२ ॥
O Bhārata, having attained oneness with Mahādeva and with Antaka (Yama), through desire and through anger, the hero, scorcher of foes, was born.
1.68.73
अश्वत्थामा महावीर्यः शत्रुपक्षभयावहः ।
वीरः कमलपत्राक्षः क्षितावासीन्नराधिपः ॥ १.६८.७३ ॥
Aśvatthāman of great valour, bringer of fear to the enemy's side, the hero with lotus-petal eyes, was a king of men on earth.
1.68.74
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः ।
वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥ १.६८.७४ ॥
By the curse of Vasiṣṭha and at the command of Vāsava (Indra), the eight Vasus were born as sons of Śantanu through Gaṅgā.
1.68.75
तेषामवरजो भीष्मः कुरूणामभयङ्करः ।
मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ॥ १.६८.७५ ॥
Youngest among them was Bhīṣma, fearless protector of the Kurus, wise, learned in the Vedas, eloquent, and destroyer of the enemy's side.
1.68.76
जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः ।
योऽप्युध्यत महातेजा भार्गवेण महात्मना ॥ १.६८.७६ ॥
He fought even with Rāma, son of Jamadagni, best of all who know the weapons, the great-souled descendant of Bhṛgu.
1.68.77
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ ।
रुद्राणां तु गणाद्विद्धि संभूतमतिपौरुषम् ॥ १.६८.७७ ॥
O king, know that Kṛpa, who became a brahmin sage on earth, was born from the host of the Rudras, of extraordinary valour.
1.68.78
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः ।
द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम् ॥ १.६८.७८ ॥
Know, O king, that the great charioteer king named Śakuni in the world was born of Dvāpara, a crusher of enemies.
1.68.79
सात्यकिः सत्यसन्धश्च योऽसौ वृष्णिकुलोद्वहः ।
पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥ १.६८.७९ ॥
Sātyaki, true to his vows, bearer of the Vṛṣṇi line, was born from a portion of the Maruts, the gods, crusher of enemies.
1.68.80
द्रुपदश्चैव राजर्षिस्तत एवाभवद्गणात् ।
मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ॥ १.६८.८० ॥
Drupada too was born from that host as a royal sage. O king, in this human world he became the best of all weapon-bearers.
1.68.81
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् ।
तमप्रतिमकर्माणं क्षत्रियर्षभसत्तमम् ॥ १.६८.८१ ॥
Then, O king, know Kṛtavarman to be a lord of people. Of incomparable deeds, he was the best of Kṣatriyas, a bull among them.
1.68.82
मरुतां तु गणाद्विद्धि संजातमरिमर्दनम् ।
विराटं नाम राजानं परराष्ट्रप्रतापनम् ॥ १.६८.८२ ॥
Know that from the host of the Maruts was born the crusher of foes, a king named Virāṭa, scorcher of other kingdoms.
1.68.83
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः ।
स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥ १.६८.८३ ॥
The son of Ariṣṭā who was renowned as Haṃsa was born lord of the Gandharvas, the increaser of the Kuru lineage.
1.68.84
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनात्मजः ।
दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः
मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ॥ १.६८.८४ ॥
Known as Dhṛtarāṣṭra, son of Kṛṣṇa Dvaipāyana, long-armed, of great splendour, a king with the eye of wisdom, he was born blind through his mother's fault and the sage's anger.
1.68.85
मरुतां तु गणाद्वीरः सर्वशस्त्रभृतां वरः ।
पाण्डुर्जज्ञे महाबाहुस्तव पूर्वपितामहः।
तस्यैवावरजो भ्राता महासत्वो महाबलः ॥ १.६८.८५ ॥
From the host of the Maruts was born the hero Pāṇḍu, great-armed, best of all weapon-bearers, your forefather. His younger brother too was of great spirit and great might.
1.68.86
धर्मात्तु सुमहाभागं पुत्रं पुत्रवतां वरम् ।
विदुरं विद्धि तं लोके जातं बुद्धिमतां वरम् ॥ १.६८.८६ ॥
From Dharma was born a supremely fortunate son, the best of those who have sons. Know him to be Vidura, born in the world as the best of the wise.
1.68.87
कलेरंशस्तु संजज्ञे भुवि दुर्योधनो नृपः ।
दुर्बद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥ १.६८.८७ ॥
A portion of Kali was born on earth as the king named Duryodhana, ill-minded and wicked-thinking, a bringer of disgrace to the Kurus.
1.68.88
जगतो यस्तु सर्वस्य विद्विष्टः कलिपूरुषः ।
यः सर्वां घातयामास पृथिवीं पृथिवीपते ॥ १.६८.८८ ॥
Kali-puruṣa, hated by all the world, who, O lord of the earth, caused the whole earth to be destroyed.
1.68.89
उद्दीपितं येन वैरं भूतान्तकरणं महत् ।
पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्विह ॥ १.६८.८९ ॥
Through whom this great enmity, the cause of the destruction of beings, was kindled; and his brothers, the sons of Pulastya, were born among men here.
1.68.90
शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ।
दुर्मुखो दुःसहश्चैव ये चान्ये नानुकीर्तिताः ॥ १.६८.९० ॥
The hundred headed by Duḥśāsana, all of them cruel in deed; Durmukha and Duḥsaha, and the others who have not been named.
1.68.91
दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ।
वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः ॥ १.६८.९१ ॥
They were the Pulastya-born allies of Duryodhana, O bull of the Bharatas; and Yuyutsu, the son of a Vaiśya woman, and one of Dhṛtarāṣṭra's sons, more than a hundred in number.
1.68.92
ज्येष्ठानुज्येष्ठतामेषां नामधेयानि वा विभो ।
धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥ १.६८.९२ ॥
O mighty one, recite in due order the names of these sons of Dhṛtarāṣṭra, by eldest and youngest.
1.68.93
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा ।
दुःसहो दुःशलश्चैव दुर्मुखश्च तथापरः ॥ १.६८.९३ ॥
Duryodhana, Yuyutsu, O king, Duḥśāsana, likewise Duḥsaha and Duḥśala, Durmukha too, and another.
1.68.94
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः ।
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः ॥ १.६८.९४ ॥
Vivinśati, Vikarṇa, Jalasandha, Sulocana, Vinda and Anuvinda, Durdharṣa, Subāhu and Duṣpradharṣaṇa.
1.68.95
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ।
चत्रोपचित्रौ चित्राक्षश्चारुचित्राङ्गदश्च ह ॥ १.६८.९५ ॥
Durmarṣaṇa, Durmukha and Duṣkarṇa, Karṇa too, Citra and Upacitra, Citrākṣa and Cārucitrāṅgada indeed.
1.68.96
दुर्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः ।
ऊर्णनाभः पद्मनाभस्तथा नन्दोपनन्दकौ ॥ १.६८.९६ ॥
Durmada, Duṣprahar ṣa, Vivitsu, Vikaṭa and Sama, Ūrṇanābha, Padmanābha, likewise Nanda and Upananda.
1.68.97
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ ।
चित्रबाहुश्चित्रवर्मा सुवर्मा दुर्विरोचनः ॥ १.६८.९७ ॥
Senāpati and Suṣeṇa, Kuṇḍodara and Mahodara, Citrabāhu, Citravarmā, Suvarmā and Durvirocana.
1.68.98
अयोबाहुर्महाबाहुश्चित्रचापसुकुण्डलौ ।
भीमवेगो भीमबलो बलाकी भीमविक्रमः ॥ १.६८.९८ ॥
Ayobāhu, Mahābāhu, Citracāpa and Sukuṇḍala, Bhīmavega, Bhīmabala, Balākin, and Bhīmavikrama.
1.68.99
उग्रायुधो भीमशरः कनकायुर्दृढायुधः ।
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥ १.६८.९९ ॥
Ugrāyudha, Bhīmaśara, Kanakāyu, Dṛḍhāyudha, Dṛḍhavarman, Dṛḍhakṣatra, Somakīrti, and Anūdara.
1.68.100
जरासन्धो दृढसन्धः सत्यसन्धः सहस्रवाक् ।
उग्रश्रवा उग्रसेनः क्षेममूर्तिस्तथैव च ॥ १.६८.१०० ॥
Jarāsandha, Dṛḍhasandha, Satyasandha, Sahasravāk, Ugraśravas, Ugrasena, and likewise Kṣemamūrti.
1.68.101
अपराजितः पण्डितको विशालाक्षो दुराधनः ॥ १.६८.१०१ ॥
Aparājita, Paṇḍitaka, Viśālākṣa, and Durādhana.
1.68.102
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ।
आदित्यकेतुर्बह्वाशी नागदत्तानुयायिनौ ॥ १.६८.१०२ ॥
Dṛḍhahasta and Suhasta, Vātavega and Suvarcas, Ādityaketu, Bahvāśin, the two followers of Nāgadatta.
1.68.103
कवाची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः ।
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः ॥ १.६८.१०३ ॥
Kavācin, Niṣaṅgin, Daṇḍin, Daṇḍadhāra, Dhanurgraha, Ugra, Bhīmaratha, Vīra, Vīrabāhu, and Alolupa.
1.68.104
अभयो रौद्रकर्मा च तथा दृढरथश्च यः ।
अनाधृष्यः कुम्डभेदी विरावी दीर्घलोचनः ॥ १.६८.१०४ ॥
Abhaya, Raudrakarmā, likewise Dṛḍharatha, Anādhṛṣya, Kuṇḍabhedī, Virāvī, and Dīrghalocana.
1.68.105
दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकाङ्गदः ।
कुण्डजश्चित्रकश्चैव दुःशला च शताधिका ॥ १.६८.१०५ ॥
Dīrghabāhu, Mahābāhu, Vyūḍhoru, Kanakāṅgada, Kuṇḍaja, and Citraka, and Duḥśalā—and more than a hundred.
1.68.106
वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः ।
एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ॥ १.६८.१०६ ॥
Yuyutsu, son of a Vaiśya woman, and the sons of Dhṛtarāṣṭra—more than a hundred. These, O king, are one hundred and one, and one daughter is also named.
1.68.107
नामधेयानुपूर्व्या च ज्येष्ठानुज्येष्ठतां विदुः ।
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥ १.६८.१०७ ॥
They were known by the order of their names and their seniority, eldest to youngest. All were great chariot-warriors, heroes, and skilled in battle.
1.68.108
सर्वे वेदविदश्चैव राजञ्शास्त्रे च परागाः ।
सर्वे सङ्घ्रामविद्यासु विद्याभिजनशोभिनः ॥ १.६८.१०८ ॥
All of them, O king, were knowers of the Vedas and accomplished in the sciences, all skilled in the arts of war, and adorned with learning and noble birth.
1.68.109
सर्वेषामनुरूपाश्च कृता दारा महीपते ।
दुःशलां समये राजसिन्धुराजाय कौरवः ॥ १.६८.१०९ ॥
O lord of the earth, fitting wives were arranged for all of them. In due time the Kaurava gave Duḥśalā to the king of Sindhu.
1.68.110
जयद्रथाय प्रददौ सौबलानुमते तदा ।
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् ॥ १.६८.११० ॥
With the consent of Saubala, she then gave her to Jayadratha. O king, know that King Yudhiṣṭhira is a portion of Dharma.
1.68.111
भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ।
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि ॥ १.६८.१११ ॥
Bhīmasena is a portion of the wind-god, and Arjuna of Indra, king of the gods; likewise the two portions of the Aśvins, incomparable in beauty on earth.
1.68.112
नकुलः सहदेवश्च सर्वभूतमनोहरौ ।
स्युवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् ॥ १.६८.११२ ॥
Nakula and Sahadeva, charming to all beings; and the mighty son of Soma, renowned by the name Syuvarcā.
1.68.113
सोऽभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ।
यस्यावतरणे राजन्सुरान्सोमोऽब्रवीदिदम् ॥ १.६८.११३ ॥
That Abhimanyu, of great fame, became the son of Arjuna; O king, at whose descent Soma spoke this to the gods.
1.68.114
नाहं दद्यां प्रियं पुत्रं मम प्राणैर्गरीयसम् ।
समयः क्रियतामेष न शक्यमतिवर्तितुम् ॥ १.६८.११४ ॥
I would not give a son dearer than my own life. Let this agreement be made; it cannot be transgressed.
1.68.115
सुरकार्यं हि नः कार्यमसुराणां क्षितौ वधः ।
तत्र यास्यत्ययं वर्चा न च स्थास्यति वै चिरम् ॥ १.६८.११५ ॥
The task of the gods is our task, and on earth the slaughter of the demons. This Varcā will go there and will not remain long.
1.68.116
ऐन्द्रिर्नरस्तु भविता यस्य नारायणः सखा ।
सोर्जुनेत्यभिविख्यातः पाण्डोः पुत्रः प्रतापवान् ॥ १.६८.११६ ॥
He whose friend is Nārāyaṇa will be Nara, the son of Indra. Renowned as Arjuna, he is the mighty son of Pāṇḍu.
1.68.117
तस्यायं भविता पुत्रो बालो भुवि महारथः ।
ततः षोडशवर्षाणि स्थास्यत्यमरसत्तमाः ॥ १.६८.११७ ॥
This will be his son, a young great charioteer on earth. Then, O best of the immortals, he will remain for sixteen years.
1.68.118
अस्य षोडशवर्षस्य स सङ्ग्रामो भविष्यति ।
यत्रांशा वः करिष्यन्ति कर्म वीरनिषूदनम् ॥ १.६८.११८ ॥
When he is sixteen, that battle will take place, in which your portions will perform the deed of slaying heroes.
1.68.119
नरनारायणाभ्यां तु स सङ्ग्रामो विनाकृतः ।
चक्रव्यूहं समास्थाय योधयिष्यन्ति वःसुराः ॥ १.६८.११९ ॥
That battle will not happen without Nara and Nārāyaṇa. O gods, having taken up the wheel formation, they will fight against you.
1.68.120
विमुखाञ्छात्रवान्सर्वान्कारयिष्यति मे सुतः ।
बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति ॥ १.६८.१२० ॥
My son, though a youth, will make all the enemies turn their backs. Entering the impregnable formation, he will move about.
1.68.121
महारथानां वीराणां कदनं च करिष्यति ।
सर्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति ॥ १.६८.१२१ ॥
He will make a slaughter of the great charioteers and heroes, and he will send a quarter of all the enemies to the abode of Yama.
1.68.122
दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति ।
ततो महारथैर्वीरैः समेत्य बहुशो रणे ॥ १.६८.१२२ ॥
In half a day the mighty-armed one will go toward the city of the king of the dead; then, having met great chariot-warriors in battle many times,
1.68.123
दिनक्षये महाबाहुर्मया भूयः समेष्यति ।
एकं वंशकरं पुत्रं वीरं वै जनयिष्यति ॥ १.६८.१२३ ॥
At the close of day the mighty-armed one will meet me again, and will surely beget one heroic son who will continue the line.
1.68.124
प्रनष्टं भारतं वंशं स भूयो धारयिष्यति ।
एतत्सोमवचः श्रुत्वा तथास्त्विति दिवौकसः ॥ १.६८.१२४ ॥
He will sustain the ruined Bharata lineage again. Hearing these words of Soma, the gods who dwell in heaven said, "So be it."
1.68.125
प्रत्यूचुः सहिताः सर्वे ताराधिपमपूजयन् ।
एवं ते कथितं राजंस्तव जन्म पितुः पितुः
प्रत्यूचुः सहिताः सर्वे ताराधिपमपूजयन् ।
एवं ते कथितं राजंस्तव जन्म पितुः पितुः ॥ १.६८.१२५ ॥
All of them together replied and honored the lord of the stars. Thus, O king, I have told you the birth of your forefathers.
1.68.126
अग्नेर्भागं तु विद्धि त्वं धृष्टद्युम्नं महारथम् ।
शिखण्डिनमथो राजंस्त्रीपूर्वं विद्धि राक्षसम् ॥ १.६८.१२६ ॥
O king, know Dhṛṣṭadyumna, the great chariot-warrior, to be a portion of Agni; and know Śikhaṇḍin to be a rākṣasa who was formerly a woman.
1.68.127
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ ।
विश्वान्देवगणान्विद्धि संजातान्भरतर्षभ ॥ १.६८.१२७ ॥
O best of the Bharatas, know that the five sons of Draupadī who were born are sprung from the groups of the Viśvas, the gods. O best of the Bharatas, know them as born of the groups of gods.
1.68.128
प्रतिविन्ध्यः सुतसोमः श्रुतकीर्तिस्तथापरः ।
नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्यवान् ॥ १.६८.१२८ ॥
Pratividhya, Sutasoma, Śrutakīrti, and the other one, Nākuli Śatānīka, and the mighty Śrutasena.
1.68.129
शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् ।
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि। ॥ १.६८.१२९ ॥
Śūra, the best of the Yadus, became the father of Vasudeva. He had a daughter named Pṛthā, peerless in beauty on earth.
1.68.130
पितुः स्वस्रीयपुत्राय सोऽनपत्याय वीर्यवान् ।
अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वै तदा ॥ १.६८.१३० ॥
The mighty Śūra, having earlier promised his own first-born child to his childless cousin, the son of his father's sister, at that time…
1.68.131
अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया ।
अददत्कुन्तिभोजाय स तां दुहितरं तदा ॥ १.६८.१३१ ॥
Saying 'she is my first-born,' Śūra, desiring favour, gave that maiden to Kuntibhoja; then he handed his daughter over to him.
1.68.132
सा नियुक्ता पितुर्गेहे ब्राह्मणातिथिपूजने ।
उग्रं पर्यचरद्धोरं ब्राह्मणं संशितव्रतम् ॥ १.६८.१३२ ॥
Appointed in her father's house to honour brahmins and guests, she attended upon a fierce and terrible brahmin of strict vows.
1.68.133
निकूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ।
समुग्रं शंसितात्मानं सर्वयत्नैरतोषयत् ॥ १.६८.१३३ ॥
She pleased with every effort that fierce man of disciplined self, the one known as Durvāsas, whose resolve in dharma was hidden.
1.68.134
तुष्टोऽभिचारसंयुक्तमाचचक्षे यथाविधि ।
उवाच चैनां भगवान्प्रीतोऽस्मि सुभगे तव ॥ १.६८.१३४ ॥
Pleased, he taught her the invocation spell according to rule, and said to her, "O fortunate one, I am pleased with you."
1.68.135
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
तस्य तस्य प्रसादात्त्वं देवि पुत्राञ्जनिष्यसि ॥ १.६८.१३५ ॥
"Whichever god you summon with this mantra, O goddess, by that god's grace you will bear sons."
1.68.136
एवमुक्ता च सा बाला तदा कौतूहलान्विता ।
कन्या सती देवमर्कमाजुहाव यशस्विनी ॥ १.६८.१३६ ॥
Thus told, the young girl, filled with curiosity, the chaste and glorious maiden, then summoned the god Arka, the sun.
1.68.137
प्रकाशकर्ता भगवांस्तस्यां गर्भं दधौ तदा ।
अजीजनत्सुतं चास्यां सर्वशस्त्रभृतांवरम् ॥ १.६८.१३७ ॥
The venerable bringer of light then placed a womb in her, and from her was born a son, the best of all those who bear weapons.
1.68.138
सकुण्डलं सकवचं देवगर्भं श्रियान्वितम् ।
दिवाकरसमं दीप्त्या चारुसर्वाङ्गभूषितम् ॥ १.६८.१३८ ॥
Wearing earrings and armour, a divine child endowed with splendour, equal to the sun in brilliance, adorned in every fair limb.
1.68.139
निगूहमाना जातं वै बन्धुपक्षभयात्तदा ।
उत्ससर्ज जले कुन्ती तं कुमारं यशस्विनम् ॥ १.६८.१३९ ॥
Concealing the child she had borne, out of fear of her kinsmen, Kuntī then cast that glorious boy into the water.
1.68.140
तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः ।
राधायाः कल्पयामास पुत्रं सोऽधिरथस्तदा ॥ १.६८.१४० ॥
Adhiratha, the great-famed husband of Rādhā, then took that embryo cast into the water and made it his son by Rādhā.
1.68.141
चक्रतुर्नामधेयं च तस्य बालस्य तावुभौ ।
दंपती वसुषेणेति दिक्षु सर्वासु विश्रुतम् ॥ १.६८.१४१ ॥
The couple both gave the boy the name Vasuṣeṇa, which became renowned in all directions.
1.68.142
संवर्धमानो बलवान्सर्वास्त्रेषूत्तमोऽभवत् ।
वेदाङ्गानि च सर्वाणि जजाप जपतां वरः ॥ १.६८.१४२ ॥
Growing strong, he became foremost in all weapons, and, the best of reciters, he recited all the limbs of the Vedas.
1.68.143
यस्मिन्काले जपन्नास्ते धीमान्सत्यपराक्रमः ।
नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ॥ १.६८.१४३ ॥
At the time when that wise, truly valorous great-souled one was dwelling in recitation, there was nothing he would not give to brahmins.
1.68.144
तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः ।
ययाचे कुण्डले वीरं कवचं च सहाङ्गजम् ॥ १.६८.१४४ ॥
Indra, the sustainer of beings, took the form of a brahmin and begged that hero for the earrings and the armor born with his body, for the sake of his son.
1.68.145
उत्कृत्य कर्णो ह्यददत्कवचं कुण्डले तथा ।
शक्तिं शक्रो ददौ तस्मै विस्मितश्चेदमब्रवीत् ॥ १.६८.१४५ ॥
Karṇa cut off the armor and gave it, and likewise the earrings; astonished, Śakra gave him a spear and said this.
1.68.146
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।
यस्मिन्क्षेप्स्यसि दुर्धर्ष स एको न भविष्यति ॥ १.६८.१४६ ॥
O unassailable one, upon whichever of gods, asuras, men, gandharvas, serpents and rākṣasas you hurl it, he shall not remain alone.
1.68.147
पुरा नाम च तस्यासीद्वसुषेण इति क्षितौ ।
ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ॥ १.६८.१४७ ॥
Formerly on earth his name was Vasuṣeṇa; then, by that deed, he became Karṇa, son of Vikartana.
1.68.148
आमुक्तकवचो वीरो यस्तु जज्ञे महायशाः ।
स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः ॥ १.६८.१४८ ॥
That hero, of great renown, who was born wearing armour, became famous as Karṇa, Pṛthā's first son.
1.68.149
स तु सूतकुले वीरो ववृधे राजसत्तम ।
कर्णं नरवरश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥ १.६८.१४९ ॥
O best of kings, that hero grew up in a charioteer's family: Karṇa, best of excellent men, foremost of all weapon-bearers.
1.68.150
दुर्योधनस्य सचिवं मित्रं शत्रुविनाशनम् ।
दिवाकरस्य तं विद्धि राजन्नंशमनुत्तमम् ॥ १.६८.१५० ॥
He is Duryodhana's counsellor and friend, the destroyer of foes. O king, know him to be the supreme portion of the sun, Divākara.
1.68.151
यस्तु नारायणो नाम देवदेवः सनातनः ।
तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ॥ १.६८.१५१ ॥
He who is called Nārāyaṇa, the eternal god of gods, had as his portion among men the mighty Vāsudeva.
1.68.152
शेषस्यांशश्च नागस्य बलदेवो महाबलः ।
सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥ १.६८.१५२ ॥
A portion of Śeṣa, the serpent, became Balarāma, the very mighty. Know, O king, that Sanatkumāra was Pradyumna of great splendour.
1.68.153
एवमन्ये मनुष्येन्द्रा बहवोंशा दिवौकसाम् ।
जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥ १.६८.१५३ ॥
In this way many other portions of the gods were born in the family of Vasudeva as lords of men, who enlarged that family.
1.68.154
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः ।
तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य ह ॥ १.६८.१५४ ॥
O king, the portion of the host of apsarases that I have described was born on earth by the command of Indra.
1.68.155
तानि षोडशदेवीनां सहस्राणि नराधिप ।
बभूवुर्मानुषे लोके वासुदेवपरिग्रहः ॥ १.६८.१५५ ॥
O lord of men, those sixteen thousand goddesses came to be the wives of Vāsudeva in the human world.
1.68.156
श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले ।
भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः ॥ १.६८.१५६ ॥
A portion of Śrī was born on the surface of the earth for the sake of Rati: the virtuous one named Rukmiṇī, in the family of Bhīṣmaka.
1.68.157
द्रौपदी त्वथ संजज्ञे शची भागादनिन्दिता ।
द्रुपदस्य कुले जाता वेदिमध्यादनिन्दिता ॥ १.६८.१५७ ॥
Then Draupadī, the blameless, was born from a portion of Śacī; in the family of Drupada, she who was born from the middle of the altar, the blameless one.
1.68.158
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी ।
पद्मायताक्षी सुश्रोणी स्वसिताञ्चितमूर्धजा ॥ १.६८.१५८ ॥
She was neither too short nor too tall, fragrant as a blue lotus, lotus-eyed, fair-hipped, with beautiful dark curling hair.
1.68.159
सर्वलक्षणसंपन्ना वैदूर्यमणिसंनिभा ।
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथनी रहः ॥ १.६८.१५९ ॥
Endowed with all auspicious marks, gleaming like a vaidūrya gem, she stirred the hearts of the five lords of men in secret.
1.68.160
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते ।
कुन्ती माद्री च जज्ञाते मतिस्तु कुबलात्मजा ॥ १.६८.१६० ॥
The two goddesses Siddhi and Dhṛti were the mothers of the five: Kuntī and Mādrī were born, and Mati, daughter of Kubala.
1.68.161
इति देवासुराणां ते गन्धर्वाप्सरसां तथा ।
अंशावतरणं राजन्राक्षसानां च कीर्तितम् ॥ १.६८.१६१ ॥
Thus, O king, the descent of portions of the gods and asuras, and likewise of the gandharvas and apsarases, and also of the rākṣasas, has been recounted.
1.68.162
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः ।
महात्मानो यदूनां च ये जाता विपुले कुले ॥ १.६८.१६२ ॥
The kings born upon the earth, maddened in battle, and the great-souled ones of the Yadus who were born in the vast lineage.
1.68.163
ब्राह्मणाः क्षत्रिया वैश्या मया ते परिकीर्तिताः ।
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् ॥ १.६८.१६३ ॥
Brahmins, kṣatriyas and vaiśyas — I have recounted them. This is auspicious, bringing fame, sons, long life and victory.
1.68.164
इदमंशावतरणं श्रोतव्यमनसूयता ।
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् ॥ १.६८.१६४ ॥
This descent of portions should be heard by one free from envy. Having heard the descent of portions of gods, gandharvas and rākṣasas…
1.68.165
प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ॥ १.६८.१६५ ॥
The wise one who knows origin and dissolution does not sink in difficulties.