摩诃婆罗多 · 章 1.80
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.80.1
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् ।
राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥ १.८०.१ ॥
于是那罗睺沙之子国王耶夜提,将所愿的儿子立为王位,欢喜地成为林居的苦行仙人。
1.80.2
उषित्वा च वने वासं ब्राह्मणैः संशितव्रतः ।
फलमूलाशनो दान्तस्ततः स्वर्गमितो गतः ॥ १.८०.२ ॥
他与婆罗门们在林中居住,坚守誓言,以果实和根为食,克制自我,之后从此处升往天界。
1.80.3
स गतः स्वर्निवासं तं निवसन्मुदितः सुखी ।
कालेन नातिमहता पुनः शक्रेण पातितः ॥ १.८०.३ ॥
他到达那天界居所,欢喜快乐地居住;然而不久之后,因陀罗又将他打落下来。
1.80.4
साधुभिः संगतिं लब्ध्वा पुनः स्वर्गमुपेयिवान् ।
स्वर्गतश्च पुनर्ब्रह्मन्निवसन्देववेश्मनि।
कालेन नातिमहता कथं शक्रेण पातितः ॥ १.८०.४ ॥
他得到善人的陪伴,再次到达天界;婆罗门啊,他居住在诸神的住处,为何不久之后就被因陀罗打落?
1.80.5
निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् ।
स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ॥ १.८०.५ ॥
从天界坠落,尚未到达大地表面,他便停留在空中——我听说是这样的。
1.80.6
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतम् ।
राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् ॥ १.८०.६ ॥
之后,据闻他又与国王婆苏摩特和勇猛的阿湿吒迦一同升上了天界。
1.80.7
प्रतर्दनेन शिविना समेत्य किल संसदि ।
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः ॥ १.८०.७ ॥
在集会中与普罗达那和尸毗相遇后,那位君王因何行为再次得以升天?
1.80.8
सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः ।
कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥ १.८०.८ ॥
啊,婆罗门,我希望在众梵仙面前,完整而如实地听你讲述这一切。
1.80.9
देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः ।
वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥ १.८०.९ ॥
耶耶提是大地之主,与众神之王相等,是俱卢族的光大者,光辉如火神。
1.80.10
तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः ।
चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ॥ १.८०.१० ॥
我希望完整地听闻那位大德者的事迹——他名声远扬、真实不虚,无论在天上还是在此间。
1.80.11
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् ।
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥ १.८०.११ ॥
好吧,我将为你讲述耶耶提后来的故事,此事在天上与人间皆能带来功德,并能消除一切罪业。
1.80.12
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् ।
राज्येऽभिषिच्य मुदितः प्रावव्राज वनं तदा ॥ १.८०.१२ ॥
那huṣa之子耶耶提王,将幼子普鲁立为王位继承人,欣然随即走入森林。
1.80.13
अन्त्युषे स विनिक्षिप्य पुत्रान्यदुपुरोगमान् ।
फलमूलाशनो राजा वने संन्यवसच्चिरम् ॥ १.८०.१३ ॥
国王将诸子(以雅度为首)托付之后,以果实和根茎为食,在林中居住了很长时间。
1.80.14
शंसितात्मा जितक्रोधस्तर्पयन्पितृदेवताः ।
अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ॥ १.८०.१४ ॥
他心灵纯净,战胜了愤怒,使祖先与诸神欢喜,依照林居者的规矩,依仪轨向诸火献祭。
1.80.15
अथितीन्पूजयामास वन्येन हविषा विभुः ।
शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ॥ १.८०.१५ ॥
这位威严的国王以林中的供品款待客人,过着拾穗的生活,吃用剩余谷物做成的食物。
1.80.16
पूर्णं वर्षसहस्रं च एवंवृत्तिरभून्नृपः ।
अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः ॥ १.८०.१६ ॥
国王如此生活,度过了整整一千年;此后三十个秋季只饮水,约束言语与心念。
1.80.17
ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः ।
तथा पञ्चाग्निमध्ये च तपस्तेपे स वत्सरम् ॥ १.८०.१७ ॥
此后,他不知疲倦地一年只以风为食;同样地,在五火之中修苦行一年。
1.80.18
एकपादः स्तितश्चासीत्षण्मासाननिलाशनः ।
पुण्यकीर्तिस्ततः स्वर्गे जगामावृत्य रोदसी ॥ १.८०.१८ ॥
他单足站立,六个月只以风为食;随后这位名声圣洁的人升往天界,充满了天与地。