摩诃婆罗多 · 章 1.89
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.89.1
भगवन्विस्तरेणेह भरतस्य महात्मनः ।
जन्म कर्म च सुश्रूषोस्तन्मे शंसितुमर्हसि ॥ १.८९.१ ॥
尊者啊,请在此详细讲述伟大的婆罗多的出生与事迹,我渴望聆听。
1.89.2
पौरवाणां वंशकरो दुष्यन्तो नाम वीर्यवान् ।
पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ॥ १.८९.२ ॥
补卢族的始祖、英勇的讖延多(Duṣyanta)王,是被四海环绕之大地的守护者,婆罗多中的最优者。
1.89.3
चतुर्भागं भुवः कृत्स्नं यो भुङ्क्ते मनुजेश्वरः ।
समुद्रावरणांश्चापि देशान्स समितिंजयः ॥ १.८९.३ ॥
那位人主统治着大地的整个四分之一,也治理着被海洋环绕的诸国,是战阵中的胜利者。
1.89.4
आम्लेच्छावधिकान्सर्वान्स भुङ्क्ते रिपुमर्दनः ।
रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ॥ १.८९.४ ॥
这位摧敌者统治着直至蛮夷之地的一切国土,直至宝藏之海,那里居住着四种种姓的人民。
1.89.5
न वर्णसङ्करकरो न कृष्याकरकृज्जनः ।
न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति ॥ १.८९.५ ॥
那位国王在位之时,无人制造种姓混杂,无人从事农耕或采矿,也无一人作恶。
1.89.6
धर्मे रतिं सेवमाना धर्मार्थावभिपेदिरे ।
तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे ॥ १.८९.६ ॥
那时的人们热爱法、奉行法,于是同时获得了法与利。人中猛虎啊,在那位地方之主的时代,人们便是如此。
1.89.7
नासीच्चोरभयं तात न क्षुधाभयमण्वपि ।
नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ॥ १.८९.७ ॥
在那位国王的统治下,没有盗贼之惧,孩子,连一丝饥饿之惧也没有,也没有疾病之惧。
1.89.8
स्वधर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः ।
तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः ॥ १.८९.८ ॥
各种姓各自安于本分之法,于神圣之事无所贪求,依靠那位大地的护持者,无论从何方都无所畏惧。
1.89.9
कालवर्षी च पर्जन्यः सस्यानि रसवन्ति च ।
सर्वरत्नसमृद्धा च मही पशुमती तथा ॥ १.८९.९ ॥
雨云按时降雨,庄稼滋味丰美,大地富饶于各种珍宝,牲畜众多。
1.89.10
स्वकर्मनिरता विप्रा नानृतं तेषु विद्यते ।
स चाद्भुतमहावीर्यो वज्रसंहननो युवा ॥ १.८९.१० ॥
专心于本分之业的婆罗门中找不到虚妄;而他是一位有奇异大力的青年,身体坚硬如金刚雷杵。
1.89.11
उद्यम्य मन्दरं दोर्भ्यां वहेत्सवनकाननम् ।
चतुष्पथगदायुद्धे सर्वप्रहरणेषु च ॥ १.८९.११ ॥
他用双臂能举起曼陀罗山,连同其林苑一起搬运;在十字路口的棍棒决斗和一切兵器中,他都很精通。
1.89.12
नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठतः ।
बले विष्णुसमश्चासीत्तेजसा भास्करोपमः ॥ १.८९.१२ ॥
他在象背和马背上都造诣精深;在力量上与毗湿奴相等,在光辉上如同太阳。
1.89.13
अक्षोभ्यत्वेऽर्णवसमः सहिष्णुत्वे धरासमः ।
संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् ॥ १.८९.१३ ॥
他不动摇如大海,忍耐如大地,是受人尊敬的大地守护者;他的城市与国家都安乐祥和。
1.89.14
भूयो धर्मपरैर्भावैर्मुदितं जनमादिशत् ॥ १.८९.१४ ॥
他又向因奉行正法之心而欢喜的百姓下达命令。