Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 10.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.8.1

तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे ।
कच्चित्कृपश्च भोजश्च भयार्तौ न व्यवर्तताम् ॥ १०.८.१ ॥

当大车将、德罗纳之子如此前往营地时,被恐惧所困的克里帕和跋阇是否没有返回?

10.8.2

कच्चिन्न वारितौ क्षुद्रौ रक्षिभिर्नोपलक्षितौ ।
असह्यमिति मन्वानौ न निवृत्तौ महारथौ ॥ १०.८.२ ॥

那两个卑劣的大车将难道没有被守卫阻拦、也没有被发现吗?他们难道不是认为“这无法忍受”而返回了吗?

10.8.3

कच्चिदुन्मथ्य शिबिरं हत्वा सोमकपाण्डवान् ।
कृता प्रतिज्ञा सफला कच्चित्सञ्जय सा निशि ॥ १०.८.३ ॥

桑闍耶啊,他在夜里搅乱营地、杀死索摩迦和般度之子后,他所立的誓言是否实现了?

10.8.4

दुर्योधनस्य पदवीं कच्चित्परमिकां रणे ।
गत्वातिष्ठदसौ द्रौणिः कृत्वा कर्म सुदुष्करम् ॥ १०.८.४ ॥

那德罗纳之子在战场上达到了难陀那的至高地位,完成了极其艰难的事业后,是否仍屹立不动?

10.8.5

धृष्टद्युम्नशिखण्डिभ्यां द्रौपद्याश्च सुतैः किल ।
सञ्छन्ना मेदिनी सुप्तैर्निहतैः पाण्डुसैनिकैः ॥ १०.८.५ ॥

大地是否已被德律什塔俱摩那、湿乾底以及德罗波蒂之子所杀的、熟睡的般度军士所覆盖?

10.8.6

पाञ्चालैर्वा विनिहतैः शयानै रुधिरोक्षितैः ।
कच्चिन्महीतलं छन्नं तन्ममाचक्ष्व सञ्जय ॥ १०.८.६ ॥

或者大地表面已被般遮罗人杀死、浸染鲜血而躺卧的尸体所覆盖?桑闍耶啊,请告诉我。

10.8.7

पाञ्चालैर्निहतौ वीरौ कच्चित्तु स्वपतां क्षितौ ।
कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय ॥ १०.८.७ ॥

桑闍耶啊,被般遮罗人杀死的那两位英雄,是否躺卧在地上?请告诉我他们所做的事迹。

10.8.8

तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि ।
कृपश्च कृतवर्मा च द्रौणिमेवाभ्यवर्तताम् ॥ १०.८.८ ॥

当大德的德罗纳之子前往营地时,克鲁帕与克里达瓦尔曼便紧随德罗纳之子而行。

10.8.9

अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ ।
प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् ॥ १०.८.९ ॥

阿奢婆陀摩见那两位奋勇的大车士,心中欢喜,王啊,便缓缓说出这些话。

10.8.10

यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने ।
किम्पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः ॥ १०.८.१० ॥

你二人足以毁灭一切刹帝利;何况是其余熟睡的士兵,尤其容易。

10.8.11

अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत् ।
यथा न कश्चिदपि वां जीवन्मुच्येत मानवः।
तथा भवद्ध्यां कार्यं स्यादिति मे निश्चिता मतिः ॥ १०.८.११ ॥

我将进入营地,如死神一般行动,使没有一个活人能够逃脱;你们二人也应当如此行事。这是我坚定的决定。

10.8.12

इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत् ।
अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः ॥ १०.८.१२ ॥

德罗纳之子说完这些话,便进入了般度五子的大营;不是从门而入,而是冲杀进去,抛弃了自己的恐惧。

10.8.13

स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह ।
द्रौणिः परमसङ्क्रुद्धस्तेजसा प्रज्वलन्निव।
ततः पर्यचरत्सर्वं सम्प्रसुप्तं जनं निशि ॥ १०.८.१३ ॥

那大臂者知晓其处,便进入其中。德罗纳之子极为愤怒,犹如以自身光焰燃烧,夜里在所有沉睡的人之间四处走动。

10.8.14

धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ॥ १०.८.१४ ॥

他缓缓走近了德里斯塔敦摩的住处。

10.8.15

ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे ।
प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः ॥ १०.८.१५ ॥

他们建立了伟大功绩,又在激烈的战斗中疲惫不堪,被自己的军队所环绕,完全放心地沉沉睡去。

10.8.16

अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत ।
पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् ॥ १०.८.१६ ॥

随后,婆罗多啊,德罗纳之子进入德里斯塔敦摩的住所,看见般遮罗王子在床上熟睡,就在近旁。

10.8.17

क्षौमावदाते महति स्पर्द्व्यास्तरणसंवृते ।
माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते ॥ १०.८.१७ ॥

在一张大床上,洁白的麻布覆盖其上,铺着华丽的毯子,饰以上等花环,并以焚香和香粉熏染。

10.8.18

तं शयानं महात्मानं विस्रब्धमकुतोभयम् ।
अपोथयत पादेन शयनस्थं महीपते ॥ १०.८.१८ ॥

那位大人物安然躺卧,毫无恐惧,他竟用脚踢了他,啊,大地之主,就在他躺在床上的时候。

10.8.19

सम्बुध्य चरणस्पर्शादुत्थाय रणदुर्मदः ।
अभ्यजानादमेयात्मा द्रोणपुत्रं महारथम् ॥ १०.८.१९ ॥

被脚的触碰惊醒,沉醉于战斗的无量心者认出了大车将德罗纳之子。

10.8.20

तमुत्पतन्तं शयनादश्वत्थामा महाबलः ।
केशेष्वालभ्य पाणिभ्यां निष्पिपेष महीतले ॥ १०.८.२० ॥

当他从床上跃起时,大力的马嘶之子用双手抓住他的头发,将他压倒在地。

10.8.21

स बलात्तेन निष्पिष्टः साध्वसेन च भारत ।
अभ्याक्रान्तश्च निद्रान्धो नाशकच्चेष्टितुं तदा ॥ १०.८.२१ ॥

婆罗多之子啊,他被对方的力量压住,又因恐惧和睡意而目盲,那时竟无法动弹。

10.8.22

निष्पिष्य तु ततो भूमौ पाञ्चाल्यं द्रौणिरञ्जसा ।
धनुषो ज्यां विमुच्याशु क्रूरबुद्धिरमर्षणः ॥ १०.८.२२ ॥

随后,他迅速将般遮罗王子压倒在地,德罗纳之子心怀残忍、不能容忍侮辱,立即解开了弓弦。

10.8.23

तस्य कण्ठेऽथ बद्ध्वा तां त्वरितः क्रोधमूर्च्छितः ।
द्रौणिः क्रूरं मनः कृत्वा पाञ्चाल्यमवधीत्तदा ॥ १०.८.२३ ॥

随后他把绳子缠在对方颈上,德罗纳之子因愤怒而昏乱,遂硬起残忍之心,迅速杀死了般遮罗王子。

10.8.24

तमाक्रम्य पदा राजन्कण्ठे चोरसि पादयोः ।
तदन्तं विस्फुरन्तं च पशुमारममारयत् ॥ १०.८.२४ ॥

大王啊,他以脚踩住对方,踏上其喉、胸与双足,将那垂死挣扎者像屠宰牲畜一样杀死了。

10.8.25

स वार्यमाणस्तरसा बलाद्बलवता बली ।
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत् ॥ १०.८.२५ ॥

他虽被强者强力制住,以指甲抓撕,却未能向德罗纳之子清楚地说话。

10.8.26

आचार्यपुत्र शस्त्रेण जहि मां मा चिरं कृथाः ।
त्वत्कृते सुकृतां लोकान्गच्छेयं द्विपदांवर ॥ १०.८.२६ ॥

老师之子啊,用武器杀了我,不要迟疑。愿因你之故,我得往善人之界,人中最尊者啊。

10.8.27

एवमुक्त्वा तु वचनं विरराम परन्तपः ।
सुतः पाञ्चालराजस्य आक्रान्तो बलिना भृशम् ॥ १०.८.२७ ॥

说完这些话,般遮罗王之子,灼敌者,沉默了,被强者深深压制。

10.8.28

तस्याव्यक्तां तु तां वचं संश्रुत्य द्रौणिरब्रवीत् ।
आचार्यघातिनां लोका न सन्ति कुलपांसन।
तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते ॥ १०.८.२८ ॥

德罗纳之子听闻他那含混的话语,说道:'杀害师长的人没有善界。辱没家族的人啊,因此你不配死于兵器,恶意之人啊。'

10.8.29

नृशंसेनातिवृत्तेन त्वया मे निहतः पिता ।
तस्मात्त्वमपि वध्यश्च नृशंसेन नृशंसकृत् ॥ १०.८.२९ ॥

'你这残暴而越界的人杀了我的父亲。所以你也该被杀,行残暴之人,由残暴者杀之。'

10.8.30

एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम् ।
मर्मस्वभ्यवधीत्क्रुद्धः पादघातैः सुदारुणैः ॥ १०.८.३० ॥

这位英雄正如此说话时,那愤怒的狮子般的人以极其可怕的脚击打他的要害,如狮子击打发狂的象。

10.8.31

तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि ।
अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः ॥ १०.८.३१ ॥

大王啊,那位英雄在屋中被杀的声音惊动了,他的妇女和守卫们都醒了过来。

10.8.32

ते दृष्ट्वा धर्षयन्तं तमतिमानुषविक्रमम् ।
भूतमित्यध्यवस्यन्तो न स्म प्रव्याहरन्भयात् ॥ १०.८.३२ ॥

他们看见他以超凡的勇力冲击,便以为是鬼魅,因恐惧而连呼喊都不敢出声。

10.8.33

तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम् ।
अध्यतिष्ठत तेजस्वी रथं प्राप्य सुदर्शनम् ॥ १०.८.३३ ॥

他以这一计谋将他们送往阎摩之地后,这位光辉的人登上了名为苏达尔沙那的战车。

10.8.34

स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः ।
रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली ॥ १०.८.३४ ॥

大王啊,那位强者从屋中走出,以喧声充满四方,乘车前往营地,想要杀死他的敌人。

10.8.35

अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे ।
सहितैः रक्षिभिः सर्वैः प्राणेदुर्योषितस्तदा ॥ १०.८.३५ ॥

那时,德罗纳之子这位大车士离去后,妇女们与所有守卫一起悲声痛哭。

10.8.36

राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः ।
व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत ॥ १०.८.३६ ॥

婆罗多啊,见国王被杀,所有刹帝利陷入极度悲痛,高声向德里什塔德尤姆纳呼喊。

10.8.37

तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः ।
सम्भ्रान्ताः समनह्यन्त किमेतदिति चाब्रुवन् ॥ १०.८.३७ ॥

闻其哭声,附近的刹帝利勇士们惊惶不安,披甲而起,说道:“这是什么?”

10.8.38

स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य ताः ।
अब्रुन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै ॥ १०.८.३८ ॥

大王!那些女人惊恐地望着婆罗堕遮之子,以哀凄的声音说:“快逃吧!”

10.8.39

राक्षसो वा मनुष्यो वा नैनं जानीम कोन्वयम् ।
हत्वा पाञ्चालराजानं रथमारुह्य तिष्ठति ॥ १०.८.३९ ॥

我们不知他是罗刹还是人类,这个杀了般遮罗王、登上战车站立的人究竟是谁。

10.8.40

ततस्ते योधमुख्यास्तं सहसा पर्यवारयन् ।
स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् ॥ १०.८.४० ॥

于是那些勇士之首突然将他包围。他以楼陀罗神之箭击倒了所有向他冲来的人。

10.8.41

धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान् ।
अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके ॥ १०.८.४१ ॥

他杀死了猛光及其随从后,看见优多摩阇正在近旁的床上熟睡。

10.8.42

तमप्याक्रम्य पादेन कण्ठे चोरसि तेजसा ।
तथैव मारयामास विनर्दन्तमरिन्दमम् ॥ १०.८.४२ ॥

他以脚踏住他,以威力击打其喉与胸,同样杀死了那位吼叫着的降伏敌人者。

10.8.43

युधामन्युश्च विक्रान्तो मत्वा तं राक्षसं स्म सः ।
गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत् ॥ १०.८.४३ ॥

勇猛的游陀摩尤以为他是那罗刹,举起铁杵,猛力击打德罗尼之子的胸膛。

10.8.44

गदाप्रहाराभिहतो नाचलद्द्रौणिराहवे ।
तमभिद्रुत्य वेगेन क्षितौ चैनमपातयत् ॥ १०.८.४४ ॥

德罗尼之子虽被铁杵击中,在战中却未动摇;他迅疾扑向对方,将其摔倒在地。

10.8.45

विस्फुरन्तं च पशुवत्तथैवैनममारयत् ।
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत् ॥ १०.८.४५ ॥

如同宰杀牲畜,他在对方挣扎时将其杀死;随后这位英雄杀了他,又冲向其余的人。

10.8.46

संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् ।
पाञ्चालवीरानाक्रम्य क्रुद्धो न्यहनदन्तिके।
स्फुरतो वेपमानांश्च शमितेव पशून्मखे ॥ १०.८.४६ ॥

啊,诸王之主!他愤怒地扑向熟睡的大车勇士、般遮罗英雄,四处杀死附近的人;又如祭祀中宰杀牲畜一般,杀死那些挣扎颤抖的人。

10.8.47

ततो निस्त्रिंशमादाय जघानान्यान्पृथक्पृथक् ।
भागशो विचरन्मार्गानसियुद्वविशारदः ॥ १०.८.४७ ॥

随后他持剑,逐一击杀其余的人,分批在各条道路上游走,他精通剑术。

10.8.48

तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान् ।
श्रान्तान्व्यस्तायुधान्सर्वानसिनैव व्यपोथयत् ॥ १०.८.४८ ॥

同样,他看到营中的中军守卫疲倦地睡在地上,武器散落四处,便只用剑将他们全部击打致死。

10.8.49

योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना ।
रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः ॥ १०.८.४९ ॥

他以上好的剑砍杀了战士、马匹和象群。全身沾满鲜血,他仿佛是时间派来的死神。

10.8.50

विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च ।
अवक्षेपेण चैवासेस्त्रिधा रक्तोक्षितोऽभवत् ॥ १०.८.५० ॥

因为扭动的尸身,也因为举起和挥下的剑,德罗纳之子被血三重溅满。

10.8.51

तस्य लोहितरक्तस्य दीप्तखङ्गस्य युध्यतः ।
अमानुष इवाकारो बभौ परमभीषणः ॥ १०.८.५१ ॥

他血红的身形挥舞闪亮的剑而战,显得非人、极为可怖。

10.8.52

ये त्वजाग्रन्त कौरव्य तेऽपि शब्देन मोहिताः ।
वीक्षमाणास्तु ते तत्र द्रौणिं दृष्ट्वा प्रविव्यथुः ॥ १०.८.५२ ॥

俱卢之子啊,那些醒着的人也被那声音迷惑了。他们望去,看见德罗纳之子,便极为痛苦。

10.8.53

तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनम् ।
राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् ॥ १०.८.५३ ॥

那些令敌人痛苦的刹帝利看见他的形象,以为他是罗刹,便闭上了眼睛。

10.8.54

स घोररूपो व्यचरत्कालवच्छिबिरे तदा ।
अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ॥ १०.८.५४ ॥

他以可怖的形象,如时间一般在营中游走,看见了德罗波蒂剩下的儿子和索摩迦人。

10.8.55

तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः ।
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशाम्पते।
अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् ॥ १०.८.५५ ॥

众大车勇士被那声音惊吓,手持弓箭。听闻德里斯塔笈摩已被杀,人民之主啊,德罗波蒂之子们如同无所畏惧一般,以箭雨倾注于婆罗堕遮(马嘶)身上。

10.8.56

ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः ।
शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन् ॥ १०.८.५६ ॥

于是,被那吼声彻底唤醒的普拉巴德拉卡与施康丁,以箭矢猛烈压迫德罗纳之子(马嘶)。

10.8.57

भारद्वाजः स तान्दृष्ट्वा शरवर्षाणि वर्षतः ।
ननाद बलवन्नादं जिघांसुस्तान्महारथान् ॥ १०.८.५७ ॥

婆罗堕遮(马嘶)见他们降下箭雨,便猛烈咆哮,想要杀死那些大车勇士。

10.8.58

ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन् ।
अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे ॥ १०.८.५८ ॥

于是,他极度愤怒,想起父亲被杀之事,便从车座上跳下,急速向前冲去。

10.8.59

सहस्रचन्द्रविमलं गृहीत्वा चर्म संयुगे ।
खङ्गं च विमलं दिव्यं जातरूपपरिष्कृतम्।
द्रौपदेयानभिद्रुत्य खङ्गेन व्यधमद्बली ॥ १०.८.५९ ॥

他在战场上手持如千轮明月般明亮的盾牌,以及镶嵌黄金、洁净神圣的宝剑,冲向德罗波蒂之子,以剑将他们击倒,这位强者。

10.8.60

ततः स नरशार्दूलः प्रतिविन्ध्यं महाहवे ।
कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि ॥ १०.८.६० ॥

那人中之虎在大战中击中了普拉提文迪亚的腹部,大王啊;他被杀死,倒在地上。

10.8.61

प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान् ।
पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत् ॥ १०.८.६१ ॥

勇猛的苏陀索摩以长矛刺中德罗尼之子后,再次举起剑,扑向德罗纳之子。

10.8.62

सुतसोमस्य सासिं तं बाहुं छित्त्वा नरर्षभ ।
पुनरप्याहनत्पार्श्वे स भिन्नहृदयोऽपतत् ॥ १०.८.६२ ॥

人中之牛啊!德罗尼之子斩断了苏陀索摩连同宝剑的那只手臂,又刺中他的侧身;心口被刺穿,他倒下了。

10.8.63

नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान् ।
दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत् ॥ १०.८.६३ ॥

那枢之子沙陀尼迦勇猛,以战车轮双手将他举起,猛力击在他的胸口。

10.8.64

अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः ।
स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः ॥ १०.८.६४ ॥

再生者(德罗尼之子)掷出轮盘击中沙陀尼迦;他晕眩倒地,随即人头被斩下。

10.8.65

श्रुतकर्मा तु परिघं घोरं गृह्य दुरासदम् ।
अताडयत्समुद्यम्य वेगेन द्रौणिमुत्स्मयन् ॥ १०.८.६५ ॥

室鲁多羯摩持起可怕而难以抵挡的铁棍,用力高举,笑着击向德罗尼之子。

10.8.66

स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना ।
स हतो न्यपतद्भूमौ विमूर्धा विकृताननः ॥ १०.८.६६ ॥

他以上好的宝剑击中室鲁多羯摩的面部;他被杀,无头,面容扭曲,倒在地上。

10.8.67

तेन शब्देन वीरस्तु श्रुतकीर्तिरबुध्यत ।
अश्वत्थामानमासाद्य शरवर्षैरवाकिरत् ॥ १०.८.६७ ॥

герой Шрутакирти被那声音惊醒,走近阿濕婆薩曼,以箭雨将他覆盖。

10.8.68

शरैराच्छादितस्तेन द्रोणपुत्रो महारथः ।
अदृश्यत महाराज श्वाविच्छललतो यथा ॥ १०.८.६८ ॥

大王啊,被他的箭覆盖的大车将、德罗纳之子,看上去就像被刺覆盖的豪猪。

10.8.69

तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः ।
सकुण्डलं शिरः कायाद्वाजमानमपाहरत् ॥ १०.८.६९ ॥

他也用盾牌挡住了箭雨,从身上砍下了带着耳环、闪闪发光的头颅。

10.8.70

ततो भीष्मनिहन्तारं सह सर्वैः प्रभद्रकैः ।
आहनत्सर्वतो वीरं नानाप्रहरणैर्बलात् ॥ १०.८.७० ॥

于是,与所有普罗巴德拉卡一起,他们从四面以各种武器猛烈攻击那位杀死毗湿摩的英雄。

10.8.71

शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्पयत् ॥ १०.८.७१ ॥

他又用一支箭射中了他的两眉之间。

10.8.72

स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः ।
शिखण्डिनं समासाद्य द्विधा चिच्छेद सोसिना ॥ १०.८.७२ ॥

于是,怒火中烧的大力德罗纳之子走近室建陀,用剑将他劈成两半。

10.8.73

शिखण्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः ।
प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् ॥ १०.८.७३ ॥

随后他杀死了Śikhaṇḍin,这位使敌人痛苦的勇士被愤怒所充满,迅猛地冲向所有普罗巴德拉卡的军队。

10.8.74

यच्च शिष्टं विराटस्य बलं तु भृशमाद्रवत् ।
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि।
चकार कदनं घोरं दृष्ट्वा तत्र महाबलः ॥ १०.८.७४ ॥

他看到毗罗吒残余的军队以及德鲁帕达的儿子、孙子和盟友的军队都在大量逃散,这位大力者便在那里造成了可怕的屠杀。

10.8.75

अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च ।
न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः ॥ १०.८.७५ ॥

德罗纳之子精通剑术,一次次走近其他人,用剑将他们砍倒。

10.8.76

कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम् ।
रक्ताम्बरधरां घोरां पाशहस्तां कुटुम्बिनीम् ॥ १०.८.७६ ॥

赤面赤目、戴红花环、涂红色香膏、身穿红衣、手持绳索、可怖的家母Kālī。

10.8.77

ददृशुः कालरात्रिं ते स्मयमानामिव स्थिताम् ।
नराश्वकुञ्जरान्पाशैर्बद्धा घोरैः प्रतस्थुषीम् ॥ १०.८.७७ ॥

他们看见死亡之夜仿佛微笑地站着,用可怖的绳索捆缚人、马和象,正要离去。

10.8.78

वहन्तीं विविधान्प्रेतान्पाशबद्वान्विमूर्धजान् ।
तथैव च सदा राजन्न्यस्तशस्त्रान्महारथान् ॥ १०.८.७८ ॥

她背负着被绳索捆缚、披头散发的各种鬼魂;大王啊,她也同样背负着放下武器的大车战士。

10.8.79

स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष ।
ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा ॥ १०.८.७९ ॥

主君啊,梦中诸位上将看见她带走熟睡之人,而在其他夜晚,他们总见德罗纳之子在击杀。

10.8.80

यतः प्रभृति सङ्ग्रामः कुरुपाण्डवसेनयोः ।
ततः प्रभृति तां कन्यामपश्यन्द्रौणिमेव च ॥ १०.८.८० ॥

自库鲁与般度两军交战以来,他们便看见那位少女,也看见了德罗纳之子。

10.8.81

तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्व्यपातयत् ।
त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान् ॥ १०.८.८१ ॥

那些先前已被命运所击倒的人,德罗纳之子随后又将他们击倒,使一切众生恐惧,以可怖的吼声咆哮。

10.8.82

तदनुस्मृत्य ते वीरा दर्शनं पूर्वकालिकम् ।
इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः ॥ १०.८.८२ ॥

他们回想起从前所见的景象,被命运折磨的那些英雄心想:这正是那个。

10.8.83

ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः ।
शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः ॥ १०.८.८३ ॥

于是,在那喧嚣声中,般度子弟营中成百上千的弓箭手醒了过来。

10.8.84

सोऽच्छिनत्कस्यचित्पदौ जघनं चैव कस्यचित् ।
कांश्चिद्बिभेदपार्श्वेषु कालसृष्ट इवान्तकः ॥ १०.८.८४ ॥

他斩断某人的双脚,又斩断某人的腰胯,又刺穿另一些人的两侧,如同由时间所造的死神。

10.8.85

अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशोत्कटैः ।
गजाश्वमथितैश्चान्यैर्मही कीर्णाऽभवत्प्रभो ॥ १०.८.८५ ॥

被极度猛烈碾碎者、大声嘶吼的极为凶暴者,以及被象群和马群践踏的其他人,哦主上,大地布满了尸体。

10.8.86

क्रोशतां किमिदं कोऽयं कः शब्दः किन्नु किं कृतम् ।
पाञ्चालानां तथा द्रौणिरन्तकः समपद्यत ॥ १०.८.८६ ॥

在那些呼喊者之中这是什么?这是谁?这是什么声音?发生了什么?对于般遮罗人而言,德罗纳之子成了死神。

10.8.87

अपेतशस्त्रसन्नाहान्सन्नद्वान्पाण्डुसृञ्जयान् ।
प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः ॥ १०.८.८७ ॥

失去兵器与铠甲或仍披甲的般度与苏嗔遮人,被德罗纳之子——勇士中的最强者——送往死亡之界。

10.8.88

ततस्तच्छस्त्रवित्रस्ता भयादभ्यपतन्नराः ।
निद्रान्धा नष्टसंज्ञाश्च तत्रतत्र निपेतिरे ॥ १०.८.८८ ॥

于是,被兵器惊吓的人们因恐惧四处奔逃;被睡意蒙蔽、失去知觉,他们纷纷倒在各处。

10.8.89

ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः ।
विनदन्तो भृशं त्रस्ता निरैक्षन्त परस्परम् ॥ १०.८.८९ ॥

大腿僵硬、因昏厥而气力尽失,大声呼喊而惊恐不已,他们彼此相望。

10.8.90

ततो रथं पुनर्द्रौणिरास्थितो भीमदर्शनः ।
धनुष्पाणिः शरैरन्यान्प्रैषयद्वै यमक्षयम् ॥ १०.८.९० ॥

于是形貌可怖的德罗纳之子再次登上战车,手持弓箭,以箭将其他人送往阎摩之居。

10.8.91

पुनरुत्पततश्चापि दूरादपि नरोत्तमान् ।
शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत् ॥ १०.८.९१ ॥

那些再次站起的、甚至从远处赶来的人中之杰,以及其他向前冲来的勇士,他都交给了死亡之夜迦罗罗特丽。

10.8.92

तथैव स्यन्दनाग्रेण प्रमथन्स व्यरोचत ।
शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः ॥ १०.८.९२ ॥

他同样以战车前端碾压,光彩焕发;随后以种种箭雨,向敌人倾泻。

10.8.93

पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा ।
तेन चाकाशवर्णेन तथाचरत सोऽसिना ॥ १०.८.९३ ॥

他再次以极为斑斓的百月盾与那天空色的剑,如此行动。

10.8.94

तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः ।
व्यक्षोभयत राजेन्द्र महाह्दमिव द्विपः ॥ १०.८.९४ ॥

如此,德罗纳之子在战斗中狂暴,彻底搅动了他们的营地,国王之王啊,犹如大象搅动大湖。

10.8.95

उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः ।
निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः ॥ १०.८.९५ ॥

在那声响中,国王啊,战士们惊慌失措地跳起;被睡意和恐惧所折磨,他们四处奔逃。

10.8.96

विस्वरं चुक्रुशुश्चान्ये बह्वबद्वं तथाऽवदन् ।
न च स्म प्रत्यपद्यन्त शस्त्राणि वसनानि च ॥ १०.८.९६ ॥

其他人以刺耳的声音大喊,说了许多颠三倒四的话;他们既找不到兵器,也找不到衣服。

10.8.97

विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम् ।
उत्पतन्तोऽपतञ्श्रान्ताः केचित्तत्राभ्रमंस्तदा।
पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः ॥ १०.८.९७ ॥

有人披散着头发,彼此互不相识。有人跳起又跌倒,疲惫地在那里四处游荡。有人便溺失禁,有人小便流出。

10.8.98

बन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः ।
समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम् ॥ १०.८.९८ ॥

王中之王啊,马与象割断缰绳,一起四处奔突;其他的也引起了巨大的混乱。

10.8.99

तत्र केचिन्नरा भीता व्यलीयन्त महीतले ।
तथैव तान्निपतितानपिंषन्गजवाजिनः ॥ १०.८.९९ ॥

那里有些人惊恐不已,躲藏在地上;而倒在地上的人,又被象与马践踏。

10.8.100

तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ ।
हृष्टानि व्यनदन्नुच्चैर्मुदा युक्तानि सत्तम ॥ १०.८.१०० ॥

人中雄牛啊,当此之时,罗刹们满心欢喜,高声咆哮。善者中最优者啊。

10.8.101

स शब्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः ।
अपूरयद्दिशः सर्वा दिवं चातिमहान्स्वनः ॥ १०.८.१०१ ॥

大王啊,那声音被充满欢喜的众鬼神所鼓动,充满了所有方位与天空——那是极其巨大的喧嚣。

10.8.102

तेषामार्तरवं श्रुत्वा वित्रस्ता गजवाजिनः ।
मुक्ताः पर्यपतन्राजन्मृद्गन्तः शिबिरे जनम् ॥ १०.८.१०२ ॥

听到他们痛苦的哀号,受惊的象与马挣脱束缚,大王啊,在营地里践踏人群,四处奔逃。

10.8.103

तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः ।
अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः ॥ १०.८.१०३ ॥

他们在那里奔跑时脚下扬起的尘土,使当夜营中的黑暗加倍。

10.8.104

तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः ।
नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च ॥ १०.८.१०४ ॥

那片黑暗降临后,四面八方的人都完全迷乱了;父亲认不出儿子,兄弟也认不出兄弟。

10.8.105

गजो राजानतिक्रम्य निर्मनुष्या हया हयान् ।
अताडयंस्तथाऽभञ्जंस्तथाऽमृद्गंश्च भारत ॥ १०.८.१०५ ॥

婆罗多之子啊,象群踩着国王们向前冲去;没有骑手的马匹击打、折断并踏碎了其他马匹。

10.8.106

ते भग्नाः प्रपतन्ति स्म मृद्रन्तश्च परस्परम् ।
न्यपातयंस्तथा चान्यान्पातयित्वा तदाऽपिषन् ॥ १०.८.१०६ ॥

受挫的他们互相踩踏着倒下;他们也把别人打倒,打倒之后当场将其踏碎。

10.8.107

विचेतसः सनिद्राश्च तमसा चावृता नराः ।
जघ्रुः स्वानेव तत्राथ कालेनैव प्रचोदिताः ॥ १०.८.१०७ ॥

那些神志迷乱、昏昏欲睡、被黑暗笼罩的人,在那里击打自己的同伴,仿佛被时间本身驱使。

10.8.108

त्यक्त्वाद्वाराणि च द्वास्थास्तथागुल्मानिगौल्मिकाः ।
प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः ॥ १०.८.१०८ ॥

守门者弃守门户,同样,岗哨的卫兵也神志迷乱,各自尽力奔逃。

10.8.109

विप्रनष्टाश्च तेऽन्योन्यं नाजानन्तस्तथा विभो ।
क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः ॥ १०.८.१०९ ॥

啊,大力者!他们四散离去,彼此不相识,哭喊着“父亲!儿子!”,心智被命运击倒。

10.8.110

पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान् ।
गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः ॥ १०.८.११० ॥

他们向四方逃散,甚至抛下自己的亲族,以氏族和名字彼此呼喊。

10.8.111

हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे ।
तान्बुद्धा रणमध्येऽसौ द्रोणपुत्रो व्यपोथयत् ॥ १०.८.१११ ॥

其他人哭喊着“哀哉”躺在地上。德罗纳之子在战场中发现他们,便将他们踏碎了。

10.8.112

तत्रापरे वध्यमाना मुहुर्महुरचेतसः ।
शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः ॥ १०.८.११२ ॥

在那里,其他人被一次又一次地杀害。心神混乱的刹帝利们被恐惧折磨,从营地中冲了出来。

10.8.113

तांस्तु निष्पतितांस्त्रस्ताञ्शिबिराज्जीवितैषिणः ।
कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः ॥ १०.८.११३ ॥

当那些惊恐的人冲出营地、只求保命时,克里达瓦尔曼与克里帕在门口将他们杀死。

10.8.114

विसस्तयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन् ।
वेपमानान्क्षितौ भीतान्त्रैव कांश्चिदमुच्यताम् ॥ १०.८.११४ ॥

他们铠甲与束带松开,披头散发,合掌跪地,颤抖着伏在地上——其中一些人被释放了。

10.8.115

नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः ।
कृपश्चैव महाराज हार्दिक्यश्चैव दुर्मतिः। ॥ १०.८.११५ ॥

大王啊,他二人之中无人逃出营外得以幸免,克利帕和恶意的希尔迪基亚(即克里达瓦尔曼)亦然。

10.8.116

भूयश्चैव चिकीर्षन्तौ द्रौणपुत्रस्य तौ प्रियम् ।
त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम् ॥ १०.८.११६ ॥

他们二人又为了讨好德罗纳之子,在营地的三处放起了火。

10.8.117

ततः प्रकाशे शिबिरे खङ्गेन पितृनन्दनः ।
अश्वत्थामा महाराज व्यचरत्कृतहस्तवत् ॥ १०.८.११७ ॥

然后,大王啊,在灯火通明的营中,父亲之子阿什瓦特哈曼挥舞着剑,像一个手艺娴熟的人一样四处行动。

10.8.118

कांश्चिदापततो वीरानपरांश्चैव धावतः ।
व्ययोजयत खङ्गेन प्राणैर्द्विजवरोत्तमः ॥ १०.८.११८ ॥

那位最优秀的再生者用剑让一些扑向他的勇士和逃跑的其他人丧失了生命。

10.8.119

कांश्चिद्योधान्स खङ्गेन मध्ये सञ्छिद्य वीर्यवान् ।
अशातयद्द्रोणपुत्रः संरब्धस्तिलकाण्डवत् ॥ १०.८.११९ ॥

德罗纳之子勇武异常,怒气冲冲地用剑将一些战士从中劈断,他们像芝麻秆一样倒下。

10.8.120

निनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः ।
पतितैरभवत्कीर्णा मेदिनी भरतर्षभ ॥ १०.८.१२० ॥

吠叫着的、手持铁器的勇士、马匹和大象纷纷倒下,婆罗多族之牛啊,大地被遮盖了。

10.8.121

मानुषाणां सहस्रेषु हतेषु पतितेषु च ।
उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन् ॥ १०.८.१२१ ॥

当成千上万的人被杀倒下时,许多无头的躯干站起又倒下。

10.8.122

सायुधान्साङ्गदान्बाहून्विचकर्त शिरांसि च ।
हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत ॥ १०.८.१२२ ॥

婆罗多啊,他砍下了带着武器和臂钏的手臂、头颅、如象鼻般的大腿、手和脚。

10.8.123

पृष्ठच्छिन्नान्पार्श्वच्छिन्नाञ्शिरश्छिन्नांस्तथापरान् ।
स महात्माकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान् ॥ १०.८.१२३ ॥

德罗纳之子这位大德者,使有人背部被斩,有人侧身被斩,有人头被斩,其他人,还有一些背转身去的人,也都如此。

10.8.124

मध्यदेशे नरानन्यांश्चिच्छेदान्यांश्च कर्णतः ।
अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः ॥ १०.८.१२४ ॥

他将一些人从中间斩断,另一些从耳边斩断,又击中肩部杀死其他人,把他们的头颅压进躯体之中。

10.8.125

एवं हि बहुभिः शस्त्रैर्घ्नतोऽपि बलवत्तरान् ।
तमसा रजनी घोरा बभौ दारुणदर्शना ॥ १०.८.१२५ ॥

就这样,他以众多兵器击杀即使是最强大的战士,阴暗笼罩的可怕夜晚,闪耀着骇人的景象。

10.8.126

किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः ।
बहुना च गजाश्वेन भूतभूद्भीमदर्शना ॥ १०.८.१२६ ॥

有些人还活着,成千上万的人被杀,还有许多象和马,那充满生灵、景象可怖的夜晚显得骇人。

10.8.127

यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे ।
क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि।
भ्रातॄनन्ये पितॄनन्ये पुत्रानन्ये विचुक्रुशुः ॥ १०.८.१२७ ॥

在充满夜叉与罗刹、车马象群令人恐怖的战场上,被愤怒的德罗纳之子斩杀的人纷纷倒地。有人为兄弟哀号,有人为父亲哀号,有人为儿子哀号。

10.8.128

केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे ।
यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूग्कर्मभिः।
असान्निध्याद्वि पार्थानामिदं वः कदनं कृतम् ॥ १०.८.१२८ ॥

有人说:'这并非愤怒的持国之子在战场上所为,而是那些行凶残之事的罗刹对我们这些熟睡之人所做。正因为般度之子不在,才对你们造成了这场屠杀。'

10.8.129

न चासुरैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः ।
शक्यो विजेतुं कौन्तेयो नेता यस्य जनार्दनः।
ब्रह्मण्यः मत्यवाग्दान्तः सर्वभूतानुकम्पकः ॥ १०.८.१२९ ॥

即使阿修罗、乾闼婆、夜叉与罗刹,也无法战胜这位昆提之子,他的引导者是遮那陀那。他敬重婆罗门,言语诚实,自我克制,对一切众生怀有慈悲。

10.8.130

न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् ।
धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः ॥ १०.८.१३० ॥

般度之子阿周那不杀熟睡之人、疏忽之人、放下兵器之人、合掌之人、奔逃之人,或披散头发之人。

10.8.131

तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः ।
इति लालप्यमानाः स्म शेरते बहवो जनाः ॥ १०.८.१३१ ॥

'这可怕之事是那些行凶残之事的罗刹对我们所做的。'如此哀叹着,许多人躺倒在那里。

10.8.132

स्तनतां च मनुष्याणामपरेषां च कूजताम् ।
ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान् ॥ १०.८.१३२ ॥

人们的呻吟和他人的哭喊所构成的巨大喧嚣,片刻之后便平息了。

10.8.133

शोणितव्यतिषिक्तायां वसुधायां च भूमिप ।
तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत ॥ १०.८.१३३ ॥

啊,大地之主,那从浸满鲜血的大地上扬起的可怖而喧嚣的尘土,转瞬间便消失了。

10.8.134

स चेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः ।
न्यपातयन्नरान्क्रुद्वः पशून्पशुपतिर्यथा ॥ १०.८.१३४ ॥

他愤怒地将成千上万挣扎、惊恐、丧失斗志的人砍倒,正如帕秀帕蒂击倒牲畜一般。

10.8.135

अन्योन्यं सम्परिष्वज्य शयानाञ्जीवतोऽपरान् ।
संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत् ॥ १०.८.१३५ ॥

德罗纳之子将他们全部碾碎——那些相拥而卧的人、尚存一息的其他人、藏匿的人以及仍在搏斗的人。

10.8.136

ब्रह्ममाना हुताशेन वध्यमानाश्च तेन ते ।
परस्परं तदा योधाननयद्यमसादनम् ॥ १०.८.१३६ ॥

他们被火焚烧、被他杀戮,哀号不已;于是他让战士们相互残杀,送往阎摩的居所。

10.8.137

तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम् ।
गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम् ॥ १०.८.१३७ ॥

啊,列王之主,就在那一夜的一半时间里,德罗纳之子便将般度之子的大军送往阎摩的居所。

10.8.138

निशाचराणां सत्वानां रात्रिः सा हर्षवर्धिनी ।
आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम् ॥ १०.८.१३८ ॥

对于夜间游荡的众生,那个夜晚增添了欢喜;而对于人、象与马,它却可怖而极具毁灭性。

10.8.139

तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः ।
खादन्तो नरमांसानि पिबन्तः शोणितानि च ॥ १०.८.१३९ ॥

那里出现了各种各样的罗刹与毕舍遮,它们吞食人肉,饮着鲜血。

10.8.140

करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः ।
जटिला भीमवक्त्राश्च पञ्चपादा महोदराः ॥ १०.८.१४० ॥

它们狰狞、黄褐色而凶猛,牙齿如山,满身尘土,头发纠结,面目可怖,有五足,腹部硕大。

10.8.141

पञ्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः ।
गजाननाश्च हस्वाश्च नीलवर्णा बिभीषणाः ॥ १०.८.१४१ ॥

它们每只有五指,粗糙丑陋,声音可怖;有的象面,有的矮小,呈深蓝色,令人惊骇。

10.8.142

सपुत्रदाराः सुक्रूराः सुदुर्दर्शाः सुनिर्घृणाः ।
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम् ॥ १०.८.१४२ ॥

罗刹们连同妻儿,极其凶残、难以直视、毫无怜悯,在那里以各种形态出现。

10.8.143

पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे ।
इदं परमिदं मेध्यमिदं स्वाद्विति चाब्रुवन् ॥ १०.८.१४३ ॥

其余的饮了鲜血,欢欣不已,成群结队地起舞,并说道:“此为至上,此为洁净,此为甘美。”

10.8.144

मेदोमज्जास्थिरक्तानां मांसानां च भृशाशिताः ।
परे मांसानि खादन्तः क्रव्यादा मांसजीविनः ॥ १०.८.१४४ ॥

其他人贪婪地吞食脂肪、骨髓、骨头、血液和肉,吃肉的食肉罗刹,以肉为生。

10.8.145

वसाश्चैवापरे पीत्वा पर्यधावन्विकुक्षिकाः ।
नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशनाः ॥ १०.८.१४५ ॥

其他人饮脂肪,腹部肿胀,面貌各异而可怖,食肉罗刹吃着肉四处奔跑。

10.8.146

अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च ।
रक्षसां घोररूपाणां महतां क्रुरकर्मणाम् ॥ १०.८.१४६ ॥

那里有数万、数十万乃至千万之多的可怖形貌、行残暴之事的大罗刹。

10.8.147

मुदितानां वितृप्तानां तस्मिन्महति वैशसे ।
समेतानि बहून्यासन्भूतानि च जनाधिप। ॥ १०.८.१४७ ॥

人主啊,在那场大屠杀中,许多欢喜而饱足的生灵聚集于此。

10.8.148

एवंविधा हि सा रात्रिः सोमकानां जनक्षये ।
प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा ॥ १०.८.१४८ ॥

在索摩迦人的毁灭之中,那夜便是如此;对于熟睡和疏忽的人而言,它极其可怖。

10.8.149

असंशयं हि कालस्य पर्यायो दुरतिक्रमः ।
तादृशा निहता यत्र कृत्वाऽस्माकं जनक्षयम् ॥ १०.८.१४९ ॥

毫无疑问,时间的轮转难以逾越;那里,在造成我方人众毁灭之后,这样的人也被杀死了。

10.8.150

प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः ।
नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः ॥ १०.८.१५० ॥

这位大车将、德罗纳之子,为何早先没有做出如此大事,而他原本是决心为我儿子取胜的呢?

10.8.151

अथ कस्माद्वते क्षत्रे कर्मेदं कृतवानसौ ।
द्रोणपुत्रो महात्मा स तन्मे शंसितुमर्हसि ॥ १०.८.१५१ ॥

那么,被选为刹帝利之战的那位大德德罗纳之子,为何做出此事?你应当把这告诉我。

10.8.152

तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन ।
असान्निध्याद्धि पार्थानां केशवस्य च धीमतः।
सात्यकेश्चापि कर्मेदं द्रोमपुत्रेण साधितम् ॥ १०.८.१५२ ॥

库鲁之喜,他定是因惧怕他们才未做此事;正因般度之子、智慧的克沙瓦和萨提亚基不在,德罗纳之子才完成了此事。

10.8.153

को हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः ।
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो ॥ १०.८.१५३ ॥

国王啊,在他们面前,谁能杀死他们?即便是诸风之主因陀罗也不能。威严的君主,这样的行为竟发生在熟睡之人之间。

10.8.154

ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् ।
प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः ॥ १०.८.१५४ ॥

此后,他对般度之子造成了巨大毁灭与人命之屠杀,便想在黎明时从营地返回。

10.8.155

नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः ।
पाणिना सह संश्लिष्ट एकीभूत इव प्रभो ॥ १०.८.१५५ ॥

主啊,德罗纳之子的剑柄被人血浸透,粘在他手上,仿佛二者合为一体。

10.8.156

स निःशेषानरीन्कृत्वा विरराम निशाक्षये ।
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥ १०.८.१५६ ॥

他将敌人全部消灭,在夜末停止;如同劫末之火将一切众生化为灰烬后便平息。

10.8.157

यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो ।
दुर्गमां पदवीं गच्छन्पितुरासीद्गतज्वरः ॥ १०.८.१५७ ॥

主啊,他依誓言完成了那件事,德罗纳之子走上艰难的道路,从父亲的悲痛中解脱。

10.8.158

यथैव संसुप्तजने शिबिरे प्राविशन्निशि ।
तथैव हत्वा निःशब्दो निश्चक्राम नरर्षभः ॥ १०.८.१५८ ॥

正如他夜里进入熟睡之人的营地,那位人中雄牛杀完之后,无声地离开了。

10.8.159

निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान् ।
आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो ॥ १०.८.१५९ ॥

他走出营地,与那两人会合,欢喜地激励他们,把自己的全部所作所为讲述了出来,主啊。

10.8.160

तावथाचख्यतुस्तस्मै प्रियं प्रियकरौ तदा ।
पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः ॥ १०.८.१६० ॥

于是那两人,使他欢喜之人,告诉他这令人欣喜的消息:般遮罗与娑萨耶人被斩杀了成千上万。

10.8.161

प्रीत्या चोच्चैरुद्रक्रोशंस्तथैवास्फोटयंस्तलान् ।
दिष्ट्यादिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः ॥ १०.८.१६१ ॥

他们欣喜地大声呼喊,也拍掌;大车战士们相遇,彼此说:“幸运!幸运!”

10.8.162

पर्यष्वजत्ततो द्रौणिस्ताभ्यां सम्प्रतिनन्दितः ।
इदं हर्षात्तु सुमहदाददे वाक्यमुत्तमम् ॥ १०.८.१६२ ॥

于是德罗纳之子因二人而欢喜,拥抱了他们,并满心欢喜地说出了这些最为殊胜的话。

10.8.163

पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः ।
सोमका मत्स्यशेषाश्च सर्वे विनिहता मया ॥ १०.८.१६३ ॥

般遮罗人、德罗波蒂所有的儿子、索摩迦人以及摩差人的残余——全部都已被我彻底杀死。

10.8.164

इदानीं कृतकृत्याः स्म याम तत्रैव मा चिरम् ।
यदि जीवति नो राजा तस्मै शंसामहे प्रियम् ॥ १०.८.१६४ ॥

我们如今已完成使命;让我们立刻前往那里,不要耽搁。若我们的国王尚在人世,就把这喜讯告诉他。