Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 11.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.5.1

यदिदं धर्मगहनं बुद्ध्या समनुबुध्यते ।
एतद्विस्तरतः सर्वं बुद्धिमार्गं प्रशंस मे ॥ ११.५.१ ॥

请详细地向我讲述那通过智慧完全领悟这深奥法义的全部智慧之道。

11.5.2

अत्र ते सर्वयिष्यामि नमस्कृत्वा स्वयम्भुवे ।
यथा संसारगहनं वदन्ति परमर्षयः ॥ ११.५.२ ॥

在此,我将向你讲述一切,先向自在者顶礼,正如大仙人们描述轮回的深林那样。

11.5.3

कश्चिन्महति कान्तारे वर्तमानो द्विजः किल ।
महद्दुर्गमनुप्राप्तो वनं क्रव्यादसङ्कुलम् ॥ ११.५.३ ॥

一位居于大森林中的婆罗门,到达充满食肉野兽的丛林,陷入了巨大的危险。

11.5.4

सिंहव्याघ्रगजर्क्षौघैरतिघोरमहास्वनैः ।
पिशितादैरतिभयैर्महोग्राकृतिभिस्तथा ॥ ११.५.४ ॥

有成群的狮子、老虎、大象和熊,发出极其可怕的巨大吼声,有着极其骇人、凶猛形态的食肉之物。

11.5.5

समन्तात्सम्परिक्षिप्तं यस्माद्द्रष्टुर्महद्भयम् ।
तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम् ॥ ११.५.५ ॥

四面被围,观望者心中生出大恐惧;见此情景,他的心陷入极度的惶乱。

11.5.6

अभ्युच्छ्रयन्ति रमाणि विक्रियाश्च परन्तप ।
स तद्वनं व्यनुसरन्सम्प्रधावन्नितस्ततः ॥ ११.५.६ ॥

啊,克敌者,那里会生出令人愉悦的事物与种种变化。他在那片森林中东奔西跑,四处游荡。

11.5.7

वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति ।
स तेषां नाशमन्विच्छन्प्रद्रुतो भयपीडितः।
न च निर्याति वै दूरं न वा तैर्विप्रयुज्यते ॥ ११.५.७ ॥

他环顾四方,思忖何处可以避难,被恐惧折磨着,寻求他们的毁灭而奔逃;他既不远去,也不与他们分离。

11.5.8

अथापश्यद्वनं गूढं समन्ताद्वागुरावृतम् ।
बाहुभ्यां सम्परिष्वक्तः स्त्रिया परमघोरया ॥ ११.५.८ ॥

接着他看见一片隐蔽的森林,四面被罗网围住,他被一位极其可怖的女子紧紧拥抱着。

11.5.9

पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः ।
नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम् ॥ ११.५.९ ॥

那片大森林被五头蛇与高如山岳、触及天空的巨树所环绕。

11.5.10

वनमध्ये च तत्राभूदुदपानः समावृतः ।
वल्लीभिस्तृणनद्धाभिर्गूढाभिरभिसंवृतः ॥ ११.५.१० ॥

在那森林中央,有一口井,被以草缠绕的隐蔽藤蔓所覆盖和环绕。

11.5.11

पपात स द्विजस्तत्र निगूढे सलिलाशये ।
विलग्नश्चाभवत्तस्मिँल्लतासन्तानसङ्कुले ॥ ११.५.११ ॥

那位再生者跌落在那隐蔽的水池中,并被浓密的藤蔓缠住。

11.5.12

पनसस्य यथा जातं वृन्तबद्धं महाफलम् ।
स तथा लम्बते तत्र ह्यूर्ध्वपादो ह्यधः शिराः ॥ ११.५.१२ ॥

就像长在波罗蜜树上、借着果柄悬挂的大果实一样,他倒悬在那里,双脚朝上,头朝下。

11.5.13

अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः ।
कूपमध्ये महानागमपश्यत महाबलम् ॥ ११.५.१३ ॥

在那里,他又遭遇了另一场灾难:在井的中央,他看见一条力量巨大的大蛇。

11.5.14

कूपपीनाहवेलायामपश्यत् महागजम् ॥ ११.५.१४ ॥

在井沿满溢之时,他看见一头大象。

11.5.15

षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम् ।
क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम् ॥ ११.५.१५ ॥

六面、黑白斑驳、以十二足行走,缓缓爬行,被藤蔓和树木环绕。

11.5.16

तस्य शाखाप्रशाखासु वृक्षशाखावलम्बिनः ।
नानारूपा मधुकरा घोररूपा भयावहाः ॥ ११.५.१६ ॥

在它的枝干和细枝上,悬挂在树枝间的,是形态各异、模样可怖、令人恐惧的蜜蜂。

11.5.17

आसते मधु संवृत्य पूर्वमेव निकेतजाः ।
भूयोभूयः समीहन्ते मधूनि भरतर्षभ ॥ ११.५.१७ ॥

它们生于蜂巢之中,早已采集蜂蜜而坐守,一次又一次地寻求蜂蜜,哦,婆罗多族的雄牛。

11.5.18

स्वादनीयानि भूतानां यैर्बालो न वितृप्यते ।
तेषां मधूनां बहुधा धारा प्रस्रवते तदा ॥ ११.५.१८ ॥

对众生甘美,孩童尝之永不满足;那时,这些蜜的水流以多种方式涌流而出。

11.5.19

आलम्बमानः स पुमान्धारां पिबति सर्वदा ।
न चास्य तृष्णा विरता पिबमानस्य सङ्कटे ॥ ११.५.१९ ॥

那人悬挂在那里,总是饮着那股水流;然而即使在危险中饮水,他的渴望也从未止息。

11.5.20

अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः ।
न चास्य जीविते राजन्निर्वेदः समजायत ॥ ११.५.२० ॥

他永不满足,总是一次又一次地渴望它;而且,国王啊,他的生命中从未生出厌离之心。

11.5.21

तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता ।
कृष्णाः श्वेताश्च तं वृक्षं निकृन्तन्ति स्म मूषिकाः ॥ ११.५.२१ ॥

人的生命希望正系于那里;黑鼠与白鼠正在啃咬那棵树。

11.5.22

व्यालैश्च तद्वनं दुर्गं स्त्रिया च परमोग्रया ।
कूपाधस्ताच्च नागेन पीनाहे कुञ्जरेण च ॥ ११.५.२२ ॥

那片难以穿越的森林里满是猛兽;还有一个极其凶猛的女人;井底有一条蛇,还有一头大象。

11.5.23

वृक्षप्रपाताच्च भयं मूषिकेभ्यश्च पञ्चमम् ।
मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम् ॥ ११.५.२३ ॥

从树上坠落的恐惧,对老鼠的恐惧,是第五;因贪恋蜂蜜而来的蜜蜂,是第六大恐惧——人们如此说。

11.5.24

एवं स वसते तत्र क्षिप्तः संसारसागरे ।
न चैव जीविताशायां निर्वेदमुपगच्छति ॥ ११.५.२४ ॥

他就这样被抛入轮回的大海,住在那里;在对生命的希望中,他并未获得出离之心。