Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.132

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.132.1

हीने परमके धर्मे सर्वलोकातिलङ्घने ।
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ॥ १२.१३२.१ ॥

当至高的法已衰微,诸世界都被违背,大地上一切都变得如同盗贼一般,生计也是如此之时,

12.132.2

केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ।
असंत्यजन्पुत्रपौत्राननुक्रोशात्पितामह ॥ १२.१३२.२ ॥

祖父啊,当低劣的时代来临时,婆罗门应如何生活?怀着慈悲,不舍弃子孙,又该如何过活?

12.132.3

विज्ञानबलमास्थाय जीवितव्यं तथा गते ।
सर्वं साध्वर्थमेवेदमसाध्वर्थं न किंचन ॥ १२.१३२.३ ॥

依靠智慧的力量,即使到了这样的境地,也应当活下去。这一切都是为了善的目的;没有任何东西是为了恶的目的。

12.132.4

असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति ।
आत्मानं संक्रमं कृत्वा कृच्छ्रधर्मकृदेव सः ॥ १२.१३२.४ ॥

从不善之人那里取得财富,转赠给善人,并以自身作为渡过的桥梁,此人确实是履行艰难之法的人。

12.132.5

अरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन् ।
अदत्तमप्याददीत् भ्रातुर्वित्तं ममेति वा ॥ १२.१३२.५ ॥

大王啊,不怀怒意,不扰乱王国的安定,即使不是所给予的,也可以想着“兄弟的财富就是我的”而取得。

12.132.6

विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि ।
वृत्तिविज्ञानवान्धीरः कस्तं वक्तुमिहार्हति ॥ १२.१३२.६ ॥

在此,谁有资格谈论那位以智慧之力得以净化、即使在受非议者之中也能立身行事、熟知生计之道的坚定之人?

12.132.7

येषां बहुकृता बुद्धिस्तेषामन्या न रोचते ।
यजसा ते प्रवर्तन्ते बलवन्तो युधिष्ठिर ॥ १२.१३२.७ ॥

般度之子啊,智慧经过多次培养的人,不喜欢另一种学说;那些有力量的人依祭祀仪轨而行。

12.132.8

यदैव प्रकृतं शास्त्रं जनस्तदनुवर्तते ।
यदैवमध्यासेवन्ते मेध्रावी वाऽप्यथोत्तरम् ॥ १२.१३२.८ ॥

当经典如此确立时,众人便随之而行;若智者也如此修习,那么此后的道路也如此。

12.132.9

ऋत्विक्पुरोहिताचार्यान्सत्कृतानभिसत्कृतान् ।
न ब्राह्मणान्घातयीत दोषान्प्राप्नोति घातयन् ॥ १२.१३२.९ ॥

不可令婆罗门被杀——无论是受尊敬的还是极受尊敬的祭司、家庭司祭与师长;使人杀者即蒙罪过。

12.132.10

एतत्प्रमाणं लोकस्य चक्षुरेतत्सातनम् ।
तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा ॥ १२.१३२.१० ॥

此乃世间之准则,此乃其眼目,此乃恒久之物。以此为准,人应进入其中;由此而定善与不善。

12.132.11

हवो ग्रामवास्तव्या दोषान्ब्रूयुः परस्परम् ।
न तेषां वचनाद्राजा सत्कुर्याद्धातयीत वा ॥ १२.१३२.११ ॥

村中居民可以彼此指出过失;但不可因他们的话,国王便去尊敬或杀害任何人。

12.132.12

न वाच्यः परिवादो वै न श्रोतव्यः कथंचन ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ १२.१३२.१२ ॥

不可说诽谤之言,也不可以任何方式去听;遇到时应掩住双耳,或从那里走向别处。

12.132.13

न सतां शीलमेतद्वै परिवादो न पैशुनम् ।
गुणानामेव वक्तारः सन्तो नित्यं युधिष्ठिर ॥ १२.१३२.१३ ॥

这不是善人的行为:既不诽谤,也不搬弄是非。善人永远只谈论德行,般度子啊。

12.132.14

यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ ।
धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः ॥ १२.१३२.१४ ॥

犹如两头配对、驯服良好、训练有素的良牛,抬起轭木而拉车,君王也应如此行事。

12.132.15

यथायथाऽस्य बहवः सहायाः स्युस्तथा चरेत् ।
आचारमेव मन्यन्ते गरीयो धर्मलक्षणम् ॥ १२.१३२.१५ ॥

他有多少助手,就应如何行事;因为人们认为行为本身才是法最重要的标志。

12.132.16

अपरे नैवमिच्छन्ति ये शङ्खलिखिंतप्रियाः ।
अर्थे क्षीणेऽथवा लुब्धास्ते ब्रूयुर्वाक्यमीदृशम् ॥ १२.१३२.१६ ॥

喜爱商迦与利喜多之规的其他人并不这样希望;但当财富减少或他们贪婪时,他们会说出这样的话。

12.132.17

आर्षमष्यत्र पश्यन्ति विकर्मस्थस्य पातनम् ।
न चार्षात्सदृशं किंचित्प्रमाणं दृश्यते क्वचित् ॥ १२.१३२.१७ ॥

在此,他们从贤者之言中看到行恶者的堕落;而贤者之言的权威,在任何地方都找不到可与之相比的。

12.132.18

देवा ह्यपि विकर्मस्थं घातयन्ति नराधमम् ।
व्याजेन विन्दन्वित्तं हि धर्मतः परिहीयते ॥ १२.१३२.१८ ॥

即使诸神也会击杀行恶的最卑劣之人;以欺诈获取财富的人,会从法中堕落。

12.132.19

सर्वतः सत्कृतः सद्भिर्भूतिप्रवरकारणैः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति ॥ १२.१३२.१९ ॥

凡被善人四面尊敬、被兴盛的最佳因缘从心底认可者,他便决意奉行法(dharma)。

12.132.20

यश्चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित् ।
अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् ॥ १२.१३२.२० ॥

凡知晓具足四种德性之法者,即是知法之人;因为法的足迹难以寻觅,如同蛇的足迹。

12.132.21

यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् ।
लक्षेद्रुधिरपातेन तथा धर्मपदं नयेत् ॥ १२.१३२.२१ ॥

犹如猎鹿人见滴落的血迹,便循着受伤之鹿的足迹而行,人也应当循着法的足迹前进。

12.132.22

यथा सम्यग्वितेन पथा गन्तव्यमप्युत ।
राजर्षीणां वृत्तमेतदेवं गच्छ युधिष्ठिर ॥ १२.१३२.२२ ॥

犹如应当沿着笔直而宽阔的大道而行,王仙的行为也正是如此;Yudhiṣṭhira啊,你就这样前行吧。