摩诃婆罗多 · 章 12.143
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.143.1
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
शरणागतं पालयतो यो धर्मस्तं ब्रवीहि मे ॥ १२.१४३.१ ॥
祖父啊,大智者,精通一切经典!请告诉我,保护前来求庇护者的人,其法是什么。
12.143.2
महान्धर्मो महाराज शरणागतपालने ।
अर्हः प्रष्टुं भवांश्चैनं प्रश्नं भरतसत्तम ॥ १२.१४३.२ ॥
大王啊,保护求庇护者,其法甚大。婆罗多族中最优秀者,你有资格提出此问。
12.143.3
शिबिप्रभृतयो राजन्राजानः शरणं गतान् ।
परिपाल्य महात्मानः संसिद्धिं परमां गताः ॥ १२.१४३.३ ॥
大王啊,以尸毗王为首的诸王,保护了前来求庇护者,成为伟大的灵魂,获得了至高的成就。
12.143.4
श्रूयते च कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥ १२.१४३.४ ॥
据说有一只鸽子,一个敌人前来求其庇护;鸽子依礼厚待他,并以自己的血肉邀请他用餐。
12.143.5
कथं कपोतेन पुरा शत्रुः शरणमागतः ।
स्वमांसं भोजितः कां च गतिं लेभे स भारत ॥ १२.१४३.५ ॥
婆罗多啊,往昔敌人如何前来向鸽子求庇护?他如何被以其自身的血肉供养?他获得了何种归宿?
12.143.6
शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् ।
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण वै ॥ १२.१४३.६ ॥
大王啊,请听这则能灭除一切罪业的神圣故事,是婆利古后裔向国王穆楚昆达讲述的。
12.143.7
इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः ।
भार्गवं परिपप्रच्छ प्रणतः पुरुषर्षभ ॥ १२.१४३.७ ॥
普利塔之子,人中之牛!往昔国王穆主昆陀恭敬行礼,向婆利古请教此事。
12.143.8
तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम् ।
इमां यथा कपोतेन सिद्धिः प्राप्ता नराधिप ॥ १२.१४३.८ ॥
婆利古向渴望聆听的他讲述了此事:鸽子如何获得成就,人主啊。
12.143.9
धर्मिश्चयसंयुक्तां कामार्थसहितां कथाम् ।
शृणुष्वावहितो राजन्गदतो मे महाभुजः ॥ १२.१४३.९ ॥
国王啊,你要专心聆听我所说的这个与法相关、并伴随欲与利的故事,大臂者啊。
12.143.10
कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमितः ।
चचार पृथिवीपाल घोरः शकुनिलुब्धकः ॥ १२.१४३.१० ॥
大地上有一个行为卑劣、如同死神般的凶狠捕鸟者游荡,大地的守护者啊。
12.143.11
काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः ।
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः ॥ १२.१४३.११ ॥
四肢乌黑如乌鸦,粗糙,专注于罪恶,腰细如大麦,脖颈纤细,脚短,颌骨巨大。
12.143.12
नैव तस्य सुहृत्कश्चिन्न संबन्धी न बान्धवाः ।
बान्धवैः संपरित्यक्तस्तेन रौद्रेण कर्मणा ॥ १२.१४३.१२ ॥
他没有朋友,没有姻亲,也没有亲族;因那残忍的行为,亲属们将他完全抛弃。
12.143.13
नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः ।
आत्मानं यो न संधत्ते सोन्यस्य स्यात्कथं हितः ॥ १२.१४३.१३ ॥
行为邪恶之人,智者应远远避开。不能约束自己的人,怎能对他人有益?
12.143.14
ये नृशंसा दुरात्मानः प्राणिप्राणहरा नराः ।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥ १२.१४३.१४ ॥
残忍而心术不正、夺取众生性命的人,对众生来说就如同毒蛇,令人畏惧。
12.143.15
स वै क्षारकमादाय वने हत्वा च पक्षिणः ।
चकार विक्रयं तेषां पतङ्गानां जनाधिपः ॥ १२.१४३.१५ ॥
那位国王在森林中取来腐蚀性的碱,杀死鸟类,又把那些飞虫拿去贩卖。
12.143.16
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः ।
अगमत्सुमहान्कालो न चाधर्ममबुध्यत ॥ १२.१४३.१६ ॥
他这样过着邪恶的生活,很长时间过去了,他却未察觉自己的不义。
12.143.17
तस्य भार्यासहायस्य रममाणस्य शाश्वतम् ।
दैवयोगविमूढस्य नान्या वृत्तिररोचत ॥ १२.१४३.१७ ॥
他总是与妻子相伴寻欢,被命运所迷惑,便再也不喜欢其他的生计。
12.143.18
ततः कदाचित्तस्याथ वनस्थस्य समन्ततः ।
पातयन्निव वृक्षांस्तान्सुमहान्वातसंभ्रमः ॥ १२.१४३.१८ ॥
后来有一次,他住在森林中,四周突然刮起猛烈的大风,仿佛要把树木都连根拔起。
12.143.19
मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम् ।
संछन्नस्तु मुहूर्तेन नौसार्थैरिव सागरः ॥ १२.१४३.१९ ॥
布满云层、装饰着闪电圈的天空,瞬间被覆盖,犹如大海被船队覆盖。
12.143.20
वारिधारासमूहेन संप्रहृष्टः शतक्रतुः ।
क्षणेन पूरयामास सलिलेन वसुंधराम् ॥ १२.१४३.२० ॥
因水流之多而欢喜的百祭者(因陀罗)瞬间用水充满了大地。
12.143.21
ततो धाराकुले लोके संभ्रमन्नष्टचेतनः ।
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना ॥ १२.१४३.२१ ॥
于是,在被雨流淹没的世界中,他心神迷乱,失去知觉,为寒冷所苦,带着慌乱的内心,在整片森林中游荡。
12.143.22
नैव निम्नं स्थलं वाऽपि सोऽविन्दत विहंगहा ।
पूरितो हि जलौघेनन तस्य मार्गो वनस्य तु ॥ १२.१४३.२२ ॥
那个捕鸟人既找不到低地,也找不到高地;森林被水流淹没,他连林中的路也不再有了。
12.143.23
पक्षिणं वर्षवेगेन हता लीनास्तु पादपात् ।
मृगसिहवराहाश्च ये चान्ये तत्र पक्षिणः ॥ १२.१४३.२३ ॥
在暴雨的冲击下,鸟儿被打落,连那些紧贴树枝的也一样;鹿、狮子、野猪以及那里的其他鸟类也都如此。
12.143.24
महता वातवर्षेण त्रासितास्ते वनौकसः ।
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने ॥ १२.१४३.२४ ॥
被大风暴雨惊吓的那些林中生灵,为恐惧和饥饿所苦,在森林中一同游荡。
12.143.25
स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान् ।
ददर्श पतितां भूमौ कपोतीं शीतविह्वलाम् ॥ १२.१४३.२५ ॥
他四肢被寒冷冻僵,仍然前行,没有停下。他看见一只母鸽跌落在地上,被寒冷折磨得不能自已。
12.143.26
दृष्टवाऽऽर्तोपि हि पापात्मा स तां पञ्जरकेऽक्षिपत् ।
स्वयं दुःखाभिभूतोऽपि दुःखमेवाकरोत्परे ॥ १२.१४३.२६ ॥
他看见她,自己虽也受苦,这个罪人还是把她关进了笼子。他自己被痛苦压垮,却仍给别人带来痛苦。
12.143.27
पापात्मा पापकारित्वत्पापमेव चकार सः ।
सोऽपश्यत्तरुषण्डेषु मेघनीलं वनस्पतिम् ॥ १२.१४३.२७ ॥
因他本性罪恶,他只做了恶事。随后,他在树丛中看见一棵大树,颜色如乌云般深蓝。
12.143.28
सेव्यमानं विहंगौघैश्छायावासफलार्थिभिः ।
धात्रा परोपकाराय स साधुरिव निर्मितः ॥ १२.१४३.२८ ॥
寻求荫蔽、栖身和果实的鸟群都来依附它;仿佛造物主为了利益他人,才将它造得如同一位善人。
12.143.29
अथाभवत्क्षणेनैव वियद्विमलतारकम् ।
महत्सर इवोत्फुल्लं कुमुदच्छुरितोदकम्।
कुसुमाकारताराढ्यमाकाशं निर्मलं बहु ॥ १२.१४३.२९ ॥
转眼之间,天空布满了明亮的星辰,仿佛一片盛开的大湖,水面上铺满了睡莲;这片以花形星辰点缀的天空格外澄澈。
12.143.30
घनैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः ।
दिशो विलोकयामास वेलां च सुदुरात्मवान् ॥ १२.१४३.३० ॥
看见天空不再有云,被寒冷折磨的猎人四处张望,也看了看时辰。他是个极其邪恶的人。
12.143.31
दूरे ग्रामनिवेशश्च तस्मात्स्थानादिति प्रभो ।
कृतबुद्धिर्द्रुमे तस्मिन्वस्तुं तां रजनीं ततः ॥ १२.१४३.३१ ॥
主啊,村落离那个地方很远;于是他下定决心,就在那棵树上度过那一夜。
12.143.32
साञ्जलिः प्रणतिं कृत्वा वाक्यमाह वनस्पतिम् ।
शरणं यामि यान्यस्मिन्दैवतानीति भारत ॥ १२.१४३.३२ ॥
他合掌行礼,对那棵树说道:“婆罗多啊,我要归依这里面的诸神。”
12.143.33
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले ।
दुःखेन महताऽऽविष्टस्ततः सुष्वाप पक्षिहा ॥ १२.१४३.३३ ॥
他把头枕在石头上,在地上铺开树叶,被巨大的悲痛所笼罩,这个捕鸟人便睡着了。