Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.149

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.149.1

अबुद्धिपूर्वं यत्पापं कुर्याद्भरतसत्तम ।
मुच्यते स कथं तस्मादेनसस्तद्ब्रवीहि मे ॥ १२.१४९.१ ॥

婆罗多族中最优秀者啊,人在不知情中所犯的罪,如何才能从中解脱?请告诉我。

12.149.2

अत्र ते वर्तयिष्यामि पुराणमृषिसंस्तुतम् ।
इन्द्रोतः शौनको विप्रो यदाह जनमेजयम् ॥ १२.१४९.२ ॥

关于此事,我将为你讲述一个为仙人们所赞颂的古老传说,即婆罗门因陀罗俄多·首那迦对遮娜梅阇耶所说的故事。

12.149.3

आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः ।
अबुद्धिजा ब्रह्महत्या तमागच्छन्महीपतिम् ॥ १२.१४९.३ ॥

曾有一位威力广大的国王,名为遮娜梅阇耶,乃是波利克希特之子;由无知所生的杀婆罗门之罪降临到这位地上之主身上。

12.149.4

ब्राह्मणाः सर्व एवैनं तत्यजुः सपुरोहिताः ।
स जगाम वनं राजा दह्यमानो दिवानिशम् ॥ १२.१४९.४ ॥

所有婆罗门连同他的家族祭司都抛弃了他;那位日夜焦灼的国王便前往森林。

12.149.5

प्रजाभिः स परित्यक्तश्चकार कुशलं महत् ।
अतिवेलं तपस्तेपे दह्यमानः स मन्युना ॥ १२.१४९.५ ॥

虽被臣民抛弃,他仍做了许多大善事;因悲伤与悔恨而焦灼,他修行了极其过度的苦行。

12.149.6

ब्रह्महत्यापनोदार्थमपृच्छद्ब्राह्मणान्बहून् ।
पर्यटन्पृथिवीं कृत्स्नां देशेदेशे नराधिपः ॥ १२.१४९.६ ॥

为了除去杀婆罗门之罪,国王走遍整个大地,一国又一国,询问了众多婆罗门。

12.149.7

तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपवृंहणम् ।
दह्यमानः पापकृत्या जगाम जनमेजयः ॥ १२.१४९.७ ॥

在那里我将讲述一个阐发此法的古老故事。被罪业所焚烧的遮摩耶王前往。

12.149.8

चरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम् ।
समासाद्योपजग्राह पादयोः परिपीडयन् ॥ १२.१४९.८ ॥

他四处游行,来到持守严格誓言的首那伽面前,抓住他的双足,紧紧按住。

12.149.9

ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा ।
कर्ता पापस्य महतो भ्रूणहा किमिहागतः ॥ १२.१४९.९ ॥

于是这位大智者感到恐惧,严厉地斥责他:“犯下大罪、杀害胎儿的人,你为何来到这里?”

12.149.10

किं तवास्मासु कर्तव्यं मा मां द्राक्षीः कथंचन ।
गच्छगच्छ न ते स्थानं प्रीणात्यस्मानिति ब्रुवन् ॥ १२.१४९.१० ॥

“你与我们有何事可做?无论如何不要看我!走吧,走吧——这不是你的地方,这使我们不快。”他这样说。

12.149.11

रुधिरस्येव ते गन्धः शवस्येव च दर्शनम् ।
अशिवः शिवसंकाशो मृतो जीवन्निवाटसि ॥ १२.१४९.११ ॥

你的气味像血,你的模样像尸体。虽然不吉,却像吉祥之人;虽已死去,却如活人般四处游走。

12.149.12

अन्तर्भृत्युरशुद्धात्मा पापमेवानुचिन्तयन् ।
प्रबुध्यसे प्रस्वपिपि वर्तसे परमे सुखे ॥ १२.१४९.१२ ॥

内心怀有死亡,灵魂不净,只思念罪业,你醒来,睡去,却仿佛身处至高的安乐之中。

12.149.13

मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि ।
पापायैव हि सृष्टोऽसि कर्मणेह यवीयसे ॥ १२.१४९.१३ ॥

国王啊,你的生命徒劳无益,你在困苦中活着;你因自己的行为,只是为罪而被造,幼弟啊。

12.149.14

बहुकल्याणमिच्छन्त ईहन्ते पितरः सुतान् ।
तपसा दैवतेज्याभिर्वन्दनेन तितिक्षया ॥ १२.१४९.१४ ॥

祖先们希望子孙获得极大福祉,以苦行、祭拜诸神、礼敬和忍耐来为子孙努力。

12.149.15

पितृवंशमिमं पश्य त्वत्कृते निधनं गतम् ।
निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः ॥ १२.१४९.१५ ॥

看看这祖先的血脉,因你而走向灭亡;依靠你的所有希望之纽带,都化为乌有。

12.149.16

यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः प्रजाः ।
तेषु ते संततं द्वेषो ब्राह्मणेषु निरर्थकः ॥ १२.१४९.१६ ॥

人们尊敬他们,因而获得天界、长寿、名声和子嗣——你对这些婆罗门持续的憎恨是毫无意义的。

12.149.17

इमं लोकं विमुच्य त्वमवाङ्भूर्धा पतिष्यसि ।
अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा ॥ १२.१४९.१७ ॥

你离开这个世界后,将头朝下坠落,经历许多年岁——有无常的,也有永恒的——皆因罪恶的行为。

12.149.18

स्वाद्यमानो जन्तुशतैस्तीक्ष्णदंष्ट्रैरयोमुखैः ।
ततश्च पुनरावृत्तः पापयोनिं गमिष्यसि ॥ १२.१४९.१८ ॥

你将被数百个长着利齿和铁口的生灵啃噬,然后又被带回,堕入罪恶的胎藏之中。

12.149.19

यदिदं मन्यसे राजन्नायमस्ति कुतः परः ।
प्रतिस्मारयितारस्त्वां यमदूता यमक्षये ॥ १२.१४९.१९ ॥

国王啊,若你以为此世便是一切,此外别无他世,那么在阎摩的居所,阎摩的使者会让你想起(你的所作所为)。