Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.179

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.179.1

यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च ।
गुरूणां वाऽपि शुश्रूषा तन्मे ब्रूहि पितामह ॥ १२.१७९.१ ॥

若曾行布施、祭祀、苦行,或侍奉尊长,请告诉我,祖父。

12.179.2

यथाऽस्मिंश्च तथा तत्र जानीयां नृपसत्तम ।
दुष्कर्तारो यथा लोके यत्कुर्वन्ति तथा शृणु ॥ १२.१७९.२ ॥

王中最尊者,我在此世与彼世所知如此,请听恶人在世间所作之事。

12.179.3

आत्मनाऽनर्थयुक्तेन पापे निविशते मनः ।
स्वकर्म कलुषं कृत्वा दुःखे महति धीयते ॥ १२.१७९.३ ॥

心因自身趋于恶果而堕入罪中;污染了自己的行为,人便陷入大苦之中。

12.179.4

दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् ।
मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकारिणः ॥ १२.१७९.४ ॥

自饥荒至饥荒,自苦恼至苦恼,自恐惧至恐惧而行;贫穷而作恶之人,自死者而至更死者。

12.179.5

उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् ।
श्रद्दधानाश्च दान्ताश्च सत्वस्थाः शुभकारिणाः ॥ १२.१७९.५ ॥

自节庆至节庆,自天界至天界,自安乐至安乐而行:有信者、自制者、安住于善性者,以及行善之人。

12.179.6

व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च ।
हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् ॥ १२.१७९.६ ॥

于蛇象所守之险地,于蛇与盗贼之险中,无信之人伸手而过;除此之外,还有何可说?

12.179.7

प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः ।
क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम् ॥ १२.१७९.७ ॥

敬奉诸神与宾客、慷慨且为善人所喜爱之人,走上克制自我者安全的道路,那是便捷之途。

12.179.8

पुलाका इव धान्येषु पुत्तिका इव पक्षिषु ।
तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् ॥ १२.१७९.८ ॥

如谷中之糠,鸟中之麻雀,人中亦有这样的人,对他们而言,法并非行事的根据。

12.179.9

सुशीघ्रमपि धावन्तं विधानमनुधावति ।
शेते सह शयानेन येनयेन यथाकृतम् ॥ १२.१७९.९ ॥

即便奔跑得极快之人,命定也会紧随其后;与躺卧之人同眠——各人依其所作而行。

12.179.10

उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति ।
करोति कुर्वतः कर्म छायेवाऽनुविधीयते ॥ १२.१७९.१० ॥

立者则与之并立,行者则随之而行;作业者之业随之而行,如影随形。

12.179.11

येनयेन यथा यद्यत्पुरा कर्म समार्जितम् ।
तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना ॥ १२.१७९.११ ॥

往昔所积累的业,无论以何种方式,人总是亲自承受其所应得的果报。

12.179.12

स्वकर्मफलनिक्षेपं विधानपरिरक्षितम् ।
भूतग्राममिमं कालः समन्तात्परिकर्षति ॥ १२.१७९.१२ ॥

时间从四面八方牵引着这群众生——它们是自业之果的寄存,受定则所守护。

12.179.13

अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १२.१७९.१३ ॥

如同花与果实不待催促,也不超越自己的时节,前世所作的业也是如此。

12.179.14

संमानश्चावमानश्च लाभालाभौ क्षयोदयौ ।
प्रवृत्तानि विवर्तन्ते विद्यानान्ते पुनःपुनः ॥ १२.१७९.१४ ॥

荣与辱、得与失、衰与盛——一旦发动,便辗转往复,不断循环。

12.179.15

आत्मना विहितं दुःखमात्मना विहितं सुखम् ।
गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम् ॥ १२.१७९.१५ ॥

由自己所定的苦,由自己所定的乐;自入胎之床起,前世之身所应得者便被享受。

12.179.16

बालो युवा च वृद्धश्च यत्करोति शुभाशुभम् ।
तस्यांतस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥ १२.१७९.१६ ॥

孩童、青年与老人——无论他所作善恶为何,在人生的每一阶段、每一次生,他都享受其果报。

12.179.17

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १२.१७९.१७ ॥

如同千头母牛之中,小牛犊能找到自己的母亲,前世所作之业也随行者而至。

12.179.18

संक्लिन्नमग्रतो वस्त्रं पश्चाच्छुध्यति वारिणा ।
दुष्कर्मापि तथा पश्चात्पूयते पुण्यकर्मणा ॥ १२.१७९.१८ ॥

湿布先沾染污垢,之后以水洗净;作恶之人同样,之后可借功德之业得到清净。

12.179.19

तपसा तप्यते देहस्तपसा विन्दते महत् ।
उपवासैः प्रतप्तानां दीर्घं सुखमनन्तरम् ॥ १२.१७९.१९ ॥

苦行净化身体,苦行获得大果。经由斋戒而得净化者,随后将获得长久的快乐。

12.179.20

दीर्घकालेन तपसा सेवितेन तपोवने ।
धर्मनिर्धूतपापानां संसिद्ध्यन्ते मनोरथाः ॥ १२.१७९.२० ॥

在苦行林中长久修持苦行,那些已借法摆脱罪过的人,其愿望得以成就。

12.179.21

शकुनीनामिवाकाशे मत्स्यानामिव चोदके ।
पदं यथा न दृश्येत तथा धर्मविदां गतिः ॥ १२.१७९.२१ ॥

如同鸟在空中、鱼在水中的足迹不可见,知法者的去向也不可见。

12.179.22

अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः ।
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ॥ १२.१७९.२२ ॥

其他的责备与所列举的过失已经够了。应当做对自己而言令人愉悦、相宜而有益的事。