Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.182

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.182.1

त एते धातवः पञ्च ब्रह्मा यानसृजत्पुरा ।
आवृता यैरिमे लोका महाभूताभिसंज्ञिताः ॥ १२.१८२.१ ॥

这便是梵天往昔所造的五种元素,这些世界由之所包裹,被称为大种(大元素)。

12.182.2

यदाऽसृजत्सहस्राणि भूतानां स महामतिः ।
पञ्चानामेव भूतत्वं कथं समुपपद्यते ॥ १२.१८२.२ ॥

当那位大智者创造千万众生之时,为何只有五者获得了‘大种’之性?

12.182.3

अमितानां महाशब्दो भूतानां याति संभवम् ।
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते ॥ १२.१८२.३ ॥

无量众生的‘大’之名随其生起而来,因此称它们为‘大种’是恰当的。

12.182.4

चेष्टा वायुः खमाकाशमूष्माऽग्निः सलिलं द्रवः ।
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम् ॥ १२.१८२.४ ॥

动作是风,虚空是空,热是火,水是流动性,而地在此为聚合;此身由五大所成。

12.182.5

इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम् ।
श्रोत्रं घ्राणं रमः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः ॥ १२.१८२.५ ॥

如此,不动与能动之物皆由这五大所结合;听、嗅、味、触、见,被称为诸根。

12.182.6

पञ्चभिर्यदि भूतैस्तु यक्ताः स्थावरजङ्गमाः ।
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः ॥ १२.१८२.६ ॥

若不动与能动之物皆由五大所成,那么在不动之物的身体中,却看不见五大之元素。

12.182.7

अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः ।
वृक्षा नोपलभ्यन्ते शरीरे पञ्च धातवः ॥ १२.१८२.७ ॥

在无热、无动、坚实的树木之身中,实际上找不到五种基本要素(dhātavaḥ)。

12.182.8

न शृणुन्ते न पश्यन्ति न गन्धरसवेदिनः ।
न चस्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः ॥ १२.१८२.८ ॥

它们不听,不看,不辨别香与味,也不知觉触,那么它们如何由五大元素(pāñcabhautikāḥ)构成?

12.182.9

अद्रवत्वादनग्नित्वादभूतित्वादवायुतः ।
आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम् ॥ १२.१८२.९ ॥

因为没有流动性、没有火、没有生长、没有风,又因虚空(ākāśa)不可测量,树木并无元素之性。

12.182.10

घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः ।
तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते ॥ १२.१८२.१० ॥

在茂密的树木中也确实有虚空(ākāśa),毫无疑问;它们花与果的显现时时发生。

12.182.11

ऊष्मतो म्लायते वर्णं त्वक्फलं पुष्पमेव च ।
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ॥ १२.१८२.११ ॥

受热之故,它们的颜色、树皮、果实与花朵都会枯萎,也会折断;因此其中有触觉存在。

12.182.12

वाय्वग्न्यशनिनिष्पेषैः फलं पुष्पं विशीर्यते ।
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः ॥ १२.१८२.१२ ॥

因风、火、雷电的摧击,果实与花朵被震落;声音由耳根所取;因此树木能听。

12.182.13

वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति ।
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः ॥ १२.१८२.१३ ॥

藤蔓缠绕树木,向四面生长。不可见者无路可循;因此树木能见。

12.182.14

पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि ।
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः ॥ १२.१८२.१४ ॥

借助好坏的香气与各种香烟,它们无病而开花;因此树木能嗅。

12.182.15

पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात् ।
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ॥ १२.१८२.१५ ॥

因为树木以根饮水,因为可见其病患,又因其对病患有所应对,故树木具有味觉。

12.182.16

वक्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् ।
तथा पवनसंयुक्तः पादैः पिबति पादपः ॥ १२.१८२.१६ ॥

如同以弯曲的莲茎向上吸水,同样,与风相连的树木以根饮水。

12.182.17

सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात् ।
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥ १२.१८२.१७ ॥

因为它们感知快乐与痛苦,又因被砍断之处能再生,我看到树木中有生命;其中并无无知觉。

12.182.18

तेन तज्जलमादत्तं जरयत्यग्निमारुतौ ।
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते ॥ १२.१८२.१८ ॥

树木所吸取的那水,被火与风消化;由食物的转化,便生出汁液与生长。

12.182.19

जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः ।
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ॥ १२.१८२.१९ ॥

在一切动物的身体中有五种界(dhātu),各自可以分别辨识,身体借之而运作。

12.182.20

त्वक्च मांसं तथाऽस्थीनि मज्जा स्नायुश्च पञ्चमम् ।
इत्येतदिह संघातं शरीरे पृथिवीमयम् ॥ १२.१८२.२० ॥

皮、肉、骨、髓,第五为筋——这身中由地所成的聚合。

12.182.21

तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च ।
अग्निर्जरयते यच्च पञ्चाग्नेयाः शरीरिणः ॥ १२.१८२.२१ ॥

光明、火、愤怒、眼睛与热气,以及消化之火:这便是有身众生的五种火生之物。

12.182.22

श्रोत्रं घ्राणं तथाऽऽस्यं च हृदयं कोष्ठमेव च ।
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः ॥ १२.१८२.२२ ॥

听觉、嗅觉、口、心与腹腔——众生身中这五种界,皆生于虚空(ākāśa)。

12.182.23

श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च ।
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥ १२.१८२.२३ ॥

痰、胆汁、汗、脂与血——如是,众生身中的水常以五种形式存在。

12.182.24

प्राणात्प्राणयते प्राणी व्यानाद्व्यायच्छते तथा ।
गच्छत्यपाने वाक्चैव समानने समः स्थितः ॥ १२.१८२.२४ ॥

借prāṇa,有情呼吸;借vyāna,它伸展与收缩肢体;在apāna中言语流出;在samāna中它平等安住。

12.182.25

उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते ।
इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम् ॥ १२.१८२.२५ ॥

借上行气他向上呼吸,借发声之气他说话。如此,这五种风在此驱动有身之人。

12.182.26

भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान् ।
ज्योतेः पश्यति रूपाणि स्पर्शं वेत्ति च वायुतः।
शब्दं शृणोति च तदैवाकाशात्तु शरीरवान् ॥ १२.१८२.२६ ॥

有身之人借地知香之德,借水知味。借火见诸色,借风知触。借虚空则闻声,作为有身之人。

12.182.27

गन्धः स्पर्शो रसो रूपं शब्दश्चात्र गुणाः स्मृताः ।
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान् ॥ १२.१८२.२७ ॥

香、触、味、色、声,在此被称为诸德。关于香的诸德,我将详细述说。

12.182.28

इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च ।
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च।
एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः ॥ १२.१८२.२८ ॥

可意与不可意之香,甜与辛,散与聚,滑与涩,亦有清明者——如此应知地之香的差别有九种。

12.182.29

ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना ।
शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः ॥ १२.१८२.२९ ॥

以目见光,借风知触。声、触、色、味亦被称为诸德。

12.182.30

रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु ।
रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः ॥ १२.१८२.३० ॥

现在我将讲述味的知识,请从我这里听。诸位著名的智者宣说,味有多种。

12.182.31

मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।
एवं षङ्किधविस्तारो रसो वारिमयः स्मृतः ॥ १२.१८२.३१ ॥

甜、咸、苦、涩、酸、辛——如此六种展开的味,被认为是水所成。

12.182.32

शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते ।
ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम्।
ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणुवृत्तवान् ॥ १२.१८२.३२ ॥

声、触、色三者具备,称为光明(jyotis)。光明能见诸色;色有多种:短、长、粗、方、圆。

12.182.33

शुक्लः कृष्णस्तथा रक्तः पीतो नीलारुणस्तथा ।
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदुदारुणः।
एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः ॥ १२.१८२.३३ ॥

白、黑、赤、黄、青及赤晨色;坚、滑、润、粘、软、烈——如此十二种展开的光明形色之德,被如此记住。

12.182.34

शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरित्युत ।
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥ १२.१८२.३४ ॥

声与触应当知晓;风具二德。风之德为触;触有多种,被如此记住。

12.182.35

उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ।
तथा खरो मृदू रूक्षो लघुर्गुरुतरोऽपि च।
एवं द्वादशधा स्पर्शो व्याव्यो गुण उच्यते ॥ १२.१८२.३५ ॥

热、冷、乐、苦、滑、涩、硬、软、燥、轻、重——如是十二种触,遍及一切的性质,即称为触。

12.182.36

तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् ।
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ॥ १२.१८२.३६ ॥

虚空唯有一德,即声,如是记述。我今当说此声种种广大之相。

12.182.37

षड्ज ऋषभगान्धारौ मध्यमो धैवतस्तथा ।
पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान् ॥ १२.१८२.३७ ॥

六(sadja)、迭(ṛṣabha)、甘(gāndhāra)、中(madhyama)、得(dhaivata)、五(pañcama),亦当知有尼沙陀之声。

12.182.38

एष सप्तविधः प्रोक्तः शब्द आकाशसंभवः ।
त्र्यैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु ॥ १२.१८२.३८ ॥

此从虚空所生之声,说为七种;以三种音调,遍在一切,乃至鼓等之中。

12.182.39

मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च ।
यः कश्चिच्छ्रूयते शब्दः प्राणिनो प्राणिनोऽपि वा।
एतेषामेव सर्वेषां विषये संप्रकीर्तितः ॥ १२.१८२.३९ ॥

凡所闻鼓、钵、螺之声,雷鸣、车声,以及众生之声,皆于此等境界中详说。

12.182.40

एवं बहुविधाकारः शब्द आकाशसंभवः ।
आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह ॥ १२.१८२.४० ॥

如是种种形相之声,从虚空所生;虚空所生之声,人们连同此等风之德而说。

12.182.41

अव्याहतैश्चेतयने न वेत्ति विषमस्थितैः ।
आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु धातुभिः ॥ १२.१८२.४१ ॥

虽然它无阻碍地存在于意识之中,却无法知晓——由那些处于失调状态的(要素)所致;而那些身体的基质永远被同样的基质所滋养。

12.182.42

आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु ।
मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिता ॥ १२.१८२.४२ ॥

水、火、风在有身众生中永远清醒;它们是此身的根本,在此安住,遍及生命之气。