Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.191

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.191.1

आचारस्य विधिं तात प्रोच्यमानं त्वयाऽनघ ।
श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः ॥ १२.१९१.१ ॥

亲爱的,无罪的人啊,我愿听你所宣说的善行之规。精通法者啊,在我看来你是全知的。

12.191.2

दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः ।
असन्तस्त्वभिविख्याताः सन्तश्चाचारलक्षणाः ॥ १२.१९१.२ ॥

行为恶劣、举止不端、智慧低下、喜好冒险的人是不善之人,他们却广为人知;善人的标志则显现在其行为之中。

12.191.3

पुरीषं यदि वा मूत्रं ये न कुवन्ति मानवाः ।
राजमार्गे गवां मध्ये धान्यमध्ये शिवालये।
अग्न्यगारे तथा तीरे ये न कुर्वन्ति ते शुभाः ॥ १२.१९१.३ ॥

凡人不在御道上、牛群之中、谷物堆中、湿婆神庙里、火堂中以及河岸上大小便者,都是吉祥之人。

12.191.4

शौचमावश्यकं कृत्वा देवतानां च तर्पणम् ।
धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत् ॥ १२.१९१.४ ॥

完成必要的净身并向诸神奉献水供,人们称此为人的法;以水漱口之后,应当渡过河流。

12.191.5

सूर्यं सदोपतिष्ठेन न स्वपेद्भास्करोदये ।
सायंप्रातर्जपेत्सन्ध्यां तिष्ठन्पूर्वां तथेतराम् ॥ १२.१९१.५ ॥

应常向太阳致敬,日出时不可睡眠。晨昏应诵念日暮祷文,晨祷站立而诵,晚祷亦然。

12.191.6

पञ्चार्द्रो भोजनं भुञ्ज्यात्प्राद्भुखो मौनमास्थितः ।
न निन्द्यादन्नभक्ष्यांश्च स्वादुस्वादु च भक्षयेत् ॥ १२.१९१.६ ॥

先将五处润湿,面向东方,保持沉默而进食;不可诋毁可食之物,应食其中最美味者。

12.191.7

नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि ।
देवर्षिर्नारदः प्राह एतदाचारलक्षणम् ॥ १२.१९१.७ ॥

手湿时不应起身,夜间脚湿时不应入睡。神仙圣人那罗陀说,这便是善行的标志。

12.191.8

शोचिष्केशमनड्वाहं देवगोष्ठं चतुष्पथम् ।
ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम् ॥ १२.१९१.८ ॥

应当始终右绕行礼:对火发之神(阿耆尼)、公牛、神牛栏、十字路口、婆罗门和正直之人。

12.191.9

अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।
सामात्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते ॥ १२.१९१.९ ॥

与宾客、所有仆役、亲属和大臣,以及随从一同用餐,被赞誉为人之善行。

12.191.10

सायंप्रातर्मनुष्याणामशनं वेदनिर्मितम् ।
नान्तरा भोजनं दृष्टमुपवासी तथा भवेत् ॥ १२.१९१.१० ॥

人的饮食,早晚依吠陀所定;中间进食不被视为规定,因此应当保持斋戒。

12.191.11

होमकाले तथ्ना जुह्वन्नृतुकाले तथा व्रजन् ।
अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत् ॥ १२.१९१.११ ॥

在祭祀时献祭,在经期适时而行,不与他女相交的智者,也应当像梵行者一样。

12.191.12

अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम् ।
तज्जनाः पर्युपासन्ते सत्यं सन्तः समासते ॥ १२.१९१.१२ ॥

婆罗门的剩余之食是甘露,由母亲置于心中;人们侍奉它,真正的善人也居于其中。

12.191.13

लोष्टमदीं तृणच्छेदी नखखादी तु यो नरः ।
नित्योच्छिष्टः संकसुको नेहायुर्विन्दते महत् ॥ १२.१९१.१३ ॥

那些打碎土块、割草、啃指甲、常常沾染剩食、懒惰邋遢之人,在此世不能获得长寿。

12.191.14

यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् ।
भक्षयेन्न वृथामांसं पृष्ठमांसं च वर्जयेत् ॥ १२.१९१.१४ ॥

戒断食肉者,可食以《夜柔吠陀》咒语加持过的肉;不应徒然食肉,并应避免背部的肉。

12.191.15

स्वदेशे परदेशे वा अतिर्थि नोपवासयेत् ।
काम्यकर्मफलं लब्ध्वा गुरूणामुपपादयेत् ॥ १२.१९१.१५ ॥

无论在本国还是异乡,不可使客人挨饿;若得到了为所求而行之祭的果报,应将其献给师长。

12.191.16

गुरूणामासनं देयं कर्तव्यं चाभिवादनम् ।
गुरूनभ्यर्च्य युज्येत आयुषा यशसा श्रिया ॥ १२.१९१.१६ ॥

应当为师长奉上座位,并行恭敬的礼拜;尊敬师长与长辈者,便可获得长寿、名声与福德。

12.191.17

नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम् ।
मैथुनं सततं धर्म्यं गुह्ये चैव समाचरेत् ॥ १२.१९१.१७ ॥

不可直视初升的太阳,也不可注视他人裸露的妻子;房事应当始终合乎法度,并在隐秘之中进行。

12.191.18

तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः ।
सर्वमार्यकृतं धर्म्यं वालसंस्पर्शनानि च ॥ १२.१९१.१८ ॥

圣地之心即是圣地,清净者之心即是清净;雅利安人所行的一切皆合乎法度,触摸毛发亦然。

12.191.19

दर्शनेदर्शने नित्यं सुखप्रश्नमुदाहरेत् ।
सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम् ॥ १२.१९१.१९ ॥

无论相见与否,都应常问安康;对婆罗门,早晚行礼是所规定的。

12.191.20

देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे ।
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥ १२.१९१.२० ॥

在神庙院中、牛群之间、婆罗门的礼仪之道上、诵读吠陀时及用餐时,应举起右手。

12.191.21

सायं प्रातश्च विप्राणां पूजनं च यथाविधि ।
पण्यानां शोभते पण्यं कृषीणामृद्ध्यतां कृषिः।
बहुकारं च सस्यानां वाह्ये वाहो गवां तथा ॥ १२.१९१.२१ ॥

早晚应依规矩礼敬婆罗门。货物装饰商人,耕作装饰欲求兴旺之人;庄稼的丰收,以及外面牛拉犁,也都是如此。

12.191.22

संपन्नं भोजने नित्यं पानीये तर्पणं तथा ।
सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा ॥ १२.१९१.२२ ॥

应当常说饭食准备得很好,饮水令人满足;同样,应说牛奶饭煮得很好,大麦粥和芝麻饭也是如此。

12.191.23

श्मश्रुकर्मणि संप्राप्ते क्षुते स्नानेऽथ भोजने ।
व्याधितानां च सर्वेषामायुष्ममभिनन्दनम् ॥ १२.१९१.२३ ॥

在剃须时、打喷嚏时、沐浴时、用餐时,以及对所有病人,都应以“愿你长寿”相祝。

12.191.24

प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् ।
सुतैः स्त्रिया च शयनं सह भोज्यं च वर्जयेत् ॥ १२.१९१.२४ ॥

不应面向太阳小便,也不应看自己的粪便;应避免与儿子和妻子同床共寝,也应避免同桌共食。

12.191.25

त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत् ।
अवराणां समानानामुभयं नैव दुष्यति ॥ १२.१९१.२५ ॥

对长者不应以“你”(tvaṃ)相称,也不应直呼其名;对幼者和平辈,两种称呼都不算过失。

12.191.26

हृदयं पापवृत्तानां पापमाख्याति वैकृतम् ।
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥ १२.१९१.२६ ॥

行恶之人的心会泄露他们的罪过与败坏;在众人面前掩盖明知故犯之罪的人,必将毁灭。

12.191.27

ज्ञानपूर्वकृतं पापं छादयन्त्यबहुश्रुताः ।
नैनं मनुष्याः पश्यन्ति पश्यन्त्येव दिवौकसः ॥ १२.१९१.२७ ॥

无学之人掩盖明知故犯的罪过;世人看不见,但天上的神灵确实看得见。

12.191.28

पापेनापिहितं पापं पापमेवानुवर्तते ।
धर्मेणापिहितो धर्मो धर्ममेवानुवर्तते।
धार्मिकेण कृतो धर्मो धर्ममेवानुवर्तते ॥ १२.१९१.२८ ॥

被罪所掩盖的罪,只会跟随罪;被法所掩盖的法,只会跟随法;义人所行之法,只会跟随法。

12.191.29

पापं कृतं न स्मरतीह मूढो ।
विवर्तमानस्य तदेति कर्तुः।
राहुर्यथा चन्द्रमुपैति चापि ।
तथाऽबुधं पापमुपैति कर्म ॥ १२.१९१.२९ ॥

愚昧之人不记得自己所犯的罪;然而那罪业循环而回,降临到作恶者身上,犹如罗睺接近月亮;如此,无知者的恶业便来到他身上。

12.191.30

आशया संचितं द्रव्यं दुःखेनैवोपभुज्यते ।
तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते ॥ १२.१९१.३० ॥

因希望而积聚的财富,只能在痛苦中享用;智者不称赞它,死亡也不会等待它。

12.191.31

मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः ।
तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत् ॥ १२.१९१.३१ ॥

智者说,法存在于一切众生的心中;因此,对待一切众生,应当以心行善。

12.191.32

एक एव चरेद्धर्मं नास्ति धर्मे सहायता ।
केवलं विधिमासाद्य सहायः किं करिष्यति ॥ १२.१९१.३२ ॥

人应独自行法,因为法中没有相助。既已遭遇命运,助手又能做什么呢?

12.191.33

धर्मो योनिर्मनुष्याणां देवानाममृतं दिवि ।
प्रेत्यभावे सुखं धर्माच्न्छश्वत्तैरुपभुज्यते ॥ १२.१९१.३३ ॥

法是人类的根源,天上有诸神的甘露。死后的快乐来自法,他们永远享受它。