Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 12.289

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

12.289.1

पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
अस्मिन्वृत्रवधे तात विवक्षा मम जायते ॥ १२.२८९.१ ॥

祖父よ、大いなる智者、すべての聖典に通じた方よ!親愛なる方よ、このヴリトラの殺害について、私の中に問いたい思いが生じています。

12.289.2

ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप ।
निहतो वासवेनेह वज्रेणेति ममानघ ॥ १२.२८९.२ ॥

人々の主よ、あなたは、熱病に惑わされたヴリトラがここでヴァーサヴァ(インドラ)に金剛杵で討たれたと語られました。汚れなき方よ、私はそのように聞いています。

12.289.3

कथमेष महाप्राज्ञ ज्वरः प्रादुर्बभूव ह ।
ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो ॥ १२.२८९.३ ॥

大いなる智者よ、この熱病はどのように生じたのでしょうか。主よ、熱病の起源を詳しく聞きたいと思います。

12.289.4

शृणु राजञ्ज्वरस्येमं संभवं लोकविश्रुतम् ।
विस्तरं चास्य वक्ष्यामि यादृशश्चैव भारत ॥ १२.२८९.४ ॥

王よ、世界に知られたこの熱病の起源を聞きなさい。バラタの末裔よ、その広がりと、それがどのようなものであるかもお話しします。

12.289.5

पुरा मेरोर्महाराज शृङ्गं त्रैलोक्यविश्रुतम् ।
ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् ॥ १२.२८९.५ ॥

偉大な王よ、昔、三界に名高いメール山の峰があった。その名はジョーティシュカといい、サーヴィトリのものであり、あらゆる宝石で飾られていた。

12.289.6

अप्रमेयमनाधृष्यं सर्वलोकेषु भारत ।
तत्र देवो गिरितटे हेमधातुविभूषिते ॥ १२.२८९.६ ॥

バラタの末裔よ、それはすべての世界において計り知れず、侵しがたいものであった。そこには、金の鉱物で飾られた山の斜面に、一柱の神が住んでいた。

12.289.7

पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह ।
शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ।
तथा देवा महात्मानो वसवश्चामितौजसः ॥ १२.२८९.७ ॥

彼は臥床のように輝きながら座しており、山王の娘が常にその傍らに立って輝いていた。同様に、大いなる魂の神々と無量の威力をもつヴァス神群もそこにいた。

12.289.8

तथैव च महात्मानावश्विनौ भिषजां वरौ ।
तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः ॥ १२.२८९.८ ॥

同様に、大いなる魂をもつ医者の中の最高の二人のアシュヴィン神もおり、またグヒヤカ族に囲まれた王ヴァイシュラヴァナ(クベーラ)もいた。

12.289.9

यक्षाणामीश्वरः श्रीमान्कैलासनिलयः प्रभुः ।
शङ्खपद्मनिधिभ्यां च लक्ष्म्या परमया सह।
उपासन्त महात्मानमुशना च महाकविः ॥ १२.२८९.९ ॥

ヤクシャの主で、栄光あるカイラーサに住む大主は、シャンカとパドマの宝蔵、そして至上のラクシュミーとともにおり、大詩人ウシャナスもその大いなる魂を崇拝していた。

12.289.10

सनत्कुमारप्रमुखास्तथैव च महर्षयः ।
अङ्गिरः प्रमुखाश्चैव तथा देवर्षयोऽपरे ॥ १२.२८९.१० ॥

同様に、サナトクマーラを筆頭とする大仙たち、アンギラスを筆頭とする者たち、そして他の神仙たちもいた。

12.289.11

विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ।
अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः ॥ १२.२८९.११ ॥

ガンダルヴァのヴィシュヴァーヴァス、ナーラダとパルヴァタも(そこにいた)。また、アプサラスたちの群れが幾度もそこに集まってきた。

12.289.12

ववौ सुखः शिवो वायुर्नानागन्धवहः शुचिः ।
सर्वर्तुकुसुमोपेताः पुष्पवन्तो द्रुमास्तथा ॥ १२.२८९.१२ ॥

心地よく吉祥で清らかな風が、様々な香りを運んで吹いた。また、あらゆる季節の花を備えた花咲く木々もあった。

12.289.13

तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः ।
महादेवं पशुपतिं पर्युपासन्त भारत ॥ १२.२८९.१३ ॥

同様に、ヴィディヤーダラ、シッダ、苦行を富とする修行者たちも、獣主パシュパティたるマハーデーヴァに仕えていた、バーラタよ。

12.289.14

भूतानि च महाराज नानारूपधराण्यथ ।
राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः ॥ १२.२८९.१४ ॥

大王よ、さまざまな姿をとる精霊たち、極めて恐ろしいラークシャサ、そして大力のピシャーチャもそこにいた。

12.289.15

बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः ।
देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः ॥ १२.२८९.१५ ॥

多様な姿をとり、喜び勇み、さまざまな武器を振りかざして、神の従者たちはそこに火のように立っていた。

12.289.16

नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः ।
प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा ॥ १२.२८९.१६ ॥

そこには、神の許しを得て尊き難提が立っていた。燃え上がる三叉戟を掲げ、自らの輝きに照り映えて。

12.289.17

गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ।
पर्युपासत तं देव रूपिणी कुरुनन्दन ॥ १२.२८९.१७ ॥

川の中で最も優れたガンガーは、あらゆる聖なる渡し場の水から生まれ、姿を現してその神に仕えていた、クル族の喜びよ。

12.289.18

स एवं भगवांस्तत्र पूज्यमानः सुरर्षिभिः ।
देवैश्च सुमहातेजा महादेवो व्यतिष्ठत ॥ १२.२८९.१८ ॥

このように、神々と聖仙たちに礼拝されながら、極めて輝かしい尊き大天は立っておられた。

12.289.19

कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः ।
पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत ॥ १२.२८९.१९ ॥

ある時、ダクシャという名の諸生物の主が、前述の儀式に従って祭式を行おうと決意した。

12.289.20

ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः ।
गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ १२.२८९.२० ॥

そのとき、シャクラを先頭とする神々は皆集まり、彼の祭式へ行くことを決めた。

12.289.21

ते विमानैर्महात्मानो ज्वलनार्कसमप्रभैः ।
देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः ॥ १२.२८९.२१ ॥

火と太陽のように輝く天車に乗ったそれらの偉大な神々は、神の許しを得てガンガーの門へ向かったと伝えられている。

12.289.22

प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा ।
उवाच वचनं साध्वी देवं पशुपतिं पतिम् ॥ १२.२८९.२२ ॥

神々が出発するのを見て、山王の娘である貞淑な女神は、夫である獣主神にこう語った。

12.289.23

भगवन्क्वनु यान्त्येते देवाः शक्रपुरोगमाः ।
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ॥ १२.२८९.२३ ॥

尊き方よ、シャクラを先頭とするこれらの神々はどこへ行くのですか。真理を知る方よ、真実をお教えください。これは私の大きな疑いです。

12.289.24

दक्षो नाम महाभागे प्रजानां पतिरुत्तमः ।
हयमेधेन जयते तत्र यान्ति दिवौकसः ॥ १२.२८९.२४ ॥

大いなる幸いを持つ方よ、ダクシャという名の、諸生物の最上の主がいます。彼は馬祭によって勝利し、天界の住人たちはそこへ向かっているのです。

12.289.25

यज्ञमेतं महादेव किमर्थं नाधिगच्छति ।
केन वा प्रतिषेधेन गमनं ते न विद्यते ॥ १२.२८९.२५ ॥

偉大な神よ、なぜあなたはこの供犠を得られないのか。あるいは、どんな禁止のためにあなたの赴くことがないのか。

12.289.26

सुरैरेव महाभागे पूर्वमेतदनुष्ठितम् ।
यज्ञेषु सर्वेषु मम न भाग उपकल्पितः ॥ १२.२८९.२६ ॥

偉大な幸運の女神よ、以前これは神々だけが行ったのだ。すべての供犠において、私のための分け前は定められていなかった。

12.289.27

पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि ।
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥ १२.२८९.२७ ॥

美しい肌の女神よ、古くから定められた道に従って、神々は私に供犠の分け前を法に則って与えないのだ。

12.289.28

भगवन्सर्वभूतेषु प्रभावाभ्यधिको गुणैः ।
अजय्यश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥ १२.२८९.२८ ॥

尊き主よ、あなたはすべての存在の中で徳と威力において最も優れ、輝き、名声、栄光において征服されず、侵されない。

12.289.29

अनेन ते महाभाग प्रतिषेधेन भागतः ।
अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ ॥ १२.२८९.२९ ॥

大いなる幸福者よ、罪なき者よ、あなたの分け前が禁じられたことで、私の心には大きな悲しみが生じ、体も震えている。

12.289.30

एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम् ।
तुष्णींभूताऽभवद्राजन्दह्यमानेन चेतसा ॥ १२.२८९.३० ॥

王よ、このように言って女神は、夫である獣主の神の前で黙した。その心は燃えていた。

12.289.31

अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम् ।
स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम् ॥ १२.२८९.३१ ॥

女神の心中の望みを知ると、彼はナンディンに命じた。「お前はここに留まれ」と。

12.289.32

ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः ।
तं यज्ञं स महातेजा भीमैरनुचरैस्तदा ॥ १२.२८९.३२ ॥

そのとき、あらゆるヨーガの主の主であり大いなる威光を持つ彼は、ヨーガの力を用い、恐ろしい従者たちとともに……

12.289.33

सहसा घातयामास देवदेवः पिनाकधृत् ।
केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे ॥ १२.२८९.३३ ॥

神々の神、ピナーカの弓を持つ者は、たちまちそれを打ち倒させた。叫び声を上げる者もあり、笑う者もあった。

12.289.34

रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन् ।
केचिद्यूपान्समुत्पाट्य व्याक्षिपन्विकृताननाः ॥ १२.२८९.३४ ॥

王よ、そこで他の者たちは火に血を注いだ。ある者は祭柱を引き抜き、醜く歪んだ顔で投げ散らした。

12.289.35

आस्यैरन्ये चाग्रसन्त तथैव परिचारकान् ।
ततः स यज्ञो नृपतेर्वध्यमानः समन्ततः ॥ १२.२८९.३५ ॥

他の者たちは口で同じように従者たちをも呑み込んだ。そのとき王のその祭祀は四方から打たれ……

12.289.36

आस्थाय मृगरूपं वै स्वमेवाभ्यगमत्तदा ।
तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः ॥ १२.२८९.३६ ॥

そのとき、それは鹿の姿をとって自分の場所へ去った。その姿で去っていく祭祀を見て、彼は……

12.289.37

धनुरादाय बाणेन तदान्वसरत प्रभुः ।
ततस्तस्य सुरेशस्य क्रोधादमिततेजसः ॥ १२.२८९.३७ ॥

弓を取り矢をもって、その主はそれを追った。そのとき、神々の主、無量の威光を持つ者の怒りから……

12.289.38

ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह ।
तस्मिन्यतितमात्रे च स्वेदबिन्दौ तदा भुवि ॥ १२.२८९.३८ ॥

額から恐ろしい汗の滴が流れ出て生じた。その汗の滴が大地に落ちるや否や……

12.289.39

प्रादुर्बभूव सुमहानग्निः कालानलोपमः ।
तत्र चाजायत तदा पुरुषः पुरुषर्षभ ॥ १२.२८९.३९ ॥

そのとき、時の終わりの火のような、非常に大きな火が現れた。そしてそこに、人の中の牡牛よ、ひとりの人が生まれた。

12.289.40

ह्रस्वोऽतिमात्रं रक्ताक्षो हरिश्मश्रुर्विभीषणः ।
ऊर्ध्वकेशोऽतिरोमाङ्गः श्येनोलूकस्तथैव च ॥ १२.२८९.४० ॥

彼は非常に小柄で、赤い目、茶色い髭を持ち、恐ろしかった。髪は逆立ち、体は毛深く、鷹や梟に似ていた。そしてそれもまた同様であった。

12.289.41

करालकृष्णवर्णश्च रक्तवासास्तथैव च ।
तं यज्ञं सुमहासत्वोऽदहत्कक्षमिवानलः ॥ १२.२८९.४१ ॥

恐ろしい黒い肌色で、赤い衣を身にまとい、それもまた同様であった。その大力の者は、火が枯れ草を焼くように、その供犠を焼き尽くした。

12.289.42

व्यचरत्सर्वतो देवान्प्राद्रवत्स ऋषींस्तथा ।
देवाश्चाप्याद्रवन्सर्वे ततो भीता दिशो दश ॥ १२.२८९.४२ ॥

彼は神々の間をあちこち歩き回り、同じように聖仙たちにも襲いかかった。すると神々はみな恐れおののき、十方へと逃げ散った。

12.289.43

तेन तस्मिन्विचरता पुरुषेण विशांपते ।
पृथिवी ह्यचलद्राजन्नतीव भरतर्षभ ॥ १२.२८९.४३ ॥

その彷徨う存在によって、民の主よ、大地は非常に震えた、バラタの牡牛よ、王よ。

12.289.44

हाहाभूतं जगत्सर्वमुपलक्ष्य तदा प्रभुः ।
पितामहो महादेवं दर्शयन्प्रत्यभाषत ॥ १२.२८९.४४ ॥

世界全体が悲嘆の叫びに変わったのを見て、その時主なる祖父は、マハーデーヴァに示しながら答えた。

12.289.45

भवतोपि सुराः सर्वे भागं दास्यन्ति वै प्रभो ।
क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया ॥ १२.२८९.४५ ॥

主よ、あなたにも神々はみな必ず分け前を与えるでしょう。すべての神々の主よ、あなたがこれを収めてください。

12.289.46

इमा हि देवताः सर्वा ऋषयश्च परंतप ।
तव क्रोधान्महादेव न शान्तिमुपलेभिरे ॥ १२.२८९.४६ ॥

敵を焼く者よ、マハーデーヴァよ、これらの神々とリシたちは、あなたの怒りのゆえに安らぎを得ていない。

12.289.47

यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम ।
ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति ॥ १२.२८९.४७ ॥

神々の中の最上の者よ、法を知る者よ、あなたの汗から生まれたこの存在は、「熱病」という名で諸世界をさまようでしょう。

12.289.48

एकीभूतस्य न त्वस्य धारणे तेजसः प्रभो ।
समर्था सकला पृथ्वी बहुधा सृज्यतामयम् ॥ १२.२८९.४८ ॥

主よ、一つに集まったこの威光は、大地全体でも支えきれません。多様な形に創造されますように。

12.289.49

इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते ।
भगवन्तं तथेत्याह ब्रह्माणममितौजसम् ॥ १२.२८९.४९ ॥

ブラフマーにこう告げられ、分け前が定められると、神は無限の威力を持つブラフマーに言った。「そのとおりに」と。

12.289.50

परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृत् ।
अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः ॥ १२.२८९.५० ॥

ピナーカを持つ者は大いに喜び、微笑みながら、ブラフマーの宣言どおりにその時分け前を得た。

12.289.51

ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा ।
शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक ॥ १२.२८९.५१ ॥

その時、一切の法を知る者は、一切の生き物の鎮静のために、さまざまな熱病を生み出した。息子よ、それも聞け。

12.289.52

शीर्षाभितापो नागानां पर्वतानां शिलाजतु ।
अपां तु नीलिकां विद्धि निर्मोकं भुजगेषु च ॥ १२.२८९.५२ ॥

蛇の頭の熱、山の岩蝋、水の青み、そして蛇の抜け殻、これらを知れ。

12.289.53

खोरकः सौरभेयाणामूषरं पृथिवीतले ।
पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ॥ १२.२८९.५३ ॥

牛の蹄の病、地上の不毛の塩地。そして法を知る者よ、動物の視力を遮ることも。

12.289.54

रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् ।
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना ॥ १२.२८९.५४ ॥

馬の穴から入り込む病、孔雀の冠毛の裂けること、郭公の眼病、そして熱病——偉大な御方はこれらを説かれた。

12.289.55

अवीनां पित्तभेदश्च सर्वेषामिति नः श्रुतम् ।
शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः ॥ १२.२८९.५५ ॥

羊は胆汁の病にかかると私たちは聞いています。またすべての鸚鵡はしゃっくりの熱病にかかると言われています。

12.289.56

शार्दूलष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते ।
मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः ॥ १२.२८९.५६ ॥

虎の間ではこれを疲労熱と呼びます。しかし人間の間では、法を知る者よ、同じこの熱病が「熱」という名で知られています。

12.289.57

मरणे जन्मनि तथा मध्ये चाविशते नरम् ।
एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः ॥ १२.२८९.५७ ॥

死のとき、生まれるとき、そして途中にも、それは人に入り込みます。これはマヘーシュヴァラの威光であり、熱病と呼ばれる極めて恐ろしいものです。

12.289.58

नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ।
अनेन हि समाविष्टो वृत्रो धर्मभूतां वरः ॥ १२.२८९.५८ ॥

主は、すべての生き物に礼拝され敬われるべき方です。これに取り憑かれたヴリトラは、正しき者たちの中で最も優れていましたが、苦しめられました。

12.289.59

व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत् ।
प्रविश्य बज्रं वृत्रं च दारयामासं भारत ॥ १२.२८९.५९ ॥

そこでインドラは膨れ上がり、彼に雷杵を投げつけました。バーラタよ、雷杵は入り込み、ヴリトラを引き裂きました。

12.289.60

दारितश्च स वज्रेण महायोगी महासुरः ।
जगाम परमं स्थानं विष्णोरमिततेजसः ॥ १२.२८९.६० ॥

雷杵に引き裂かれたその偉大なヨーガ行者、大アスラは、無限の輝きを持つヴィシュヌの最高の住処へ行きました。

12.289.61

विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा ।
तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान् ॥ १२.२८९.६१ ॥

ヴィシュヌへの信愛によって、彼はかつてこの世界を覆った。それゆえ戦いで殺されて、ヴィシュヌの境地に至った。

12.289.62

इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया ।
विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते ॥ १२.२८९.६२ ॥

このように、ヴリトラを基として、私は大いなる熱病の詳細をお前に語った。息子よ、他に何を言おうか。

12.289.63

इमां ज्वरोत्पत्तिमदीनमानसः ।
पठेत्सदा यः सुसमाहितो नरः।
विमुक्तरोगः स सुखी मुदा युतो ।
लभेत कामान्स यथा मनीषितान् ॥ १२.२८९.६३ ॥

動揺しない心で、よく集中してこの熱病の起源を常に唱える人は、病を離れ、幸せで喜びに満ち、望む願いを得る。