摩诃婆罗多 · 章 12.293
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.293.1
अतत्त्वज्ञस्य शास्त्राणां संततं संशयात्मनः ।
अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह ॥ १२.२९३.१ ॥
对于不通晓典籍真义、心中常怀疑惑、又未下定决心的人,什么是最高的善?请告诉我,祖父。
12.293.2
गुरुपूजा च सततं वृद्धानां पर्युपासनम् ।
श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते ॥ १२.२९३.२ ॥
尊敬师长,常常侍奉长者,聆听诸学问——这被称为恒定不变的最高之善。
12.293.3
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गालवस्य च संवादं देवर्षेर्नारदस्य च ॥ १२.२९३.३ ॥
关于此事,人们也讲述这段古老的故事——迦罗婆与神仙那罗陀之间的对话。
12.293.4
वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियः ।
श्रेयस्कामो यतान्मानं नारदं गालवोऽब्रवीत् ॥ १२.२९३.४ ॥
迦罗婆对那位远离迷惑与疲倦、以智慧为满足、克制诸根、渴求最高之善并自我约束的婆罗门仙人那罗陀说道。
12.293.5
यैः कैश्चित्संमतो लोके गुणैश्च पुरुषो नृषु ।
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे ॥ १२.२९३.५ ॥
世人凭借某些品德而受人尊敬——我们看出,这些品德都是不会离开他的。
12.293.6
भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति ।
अमूढश्चिरमूढानां लोकतत्त्वमजानताम् ॥ १२.२९३.६ ॥
您正是这样的人,足以断除我们的疑惑。您没有迷惑,而我们长久迷惑,不知世间的真谛。
12.293.7
ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याणामविशेषतः ।
यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति ॥ १२.२९३.७ ॥
在知识之中,诸业的行进正是如此,无所分别。我们无法确定的职责,您应当宣说。
12.293.8
भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः ।
इदं श्रेय इदं श्रेय इति सर्वे प्रबोधिताः ॥ १२.२९३.८ ॥
尊者啊,诸种修行之所各示不同的行仪。人人都被教导说:'这是善,这是善。'
12.293.9
तांस्तु विप्रस्थितानदृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः ।
स्वशास्त्रैः पिरतुष्टाश्च श्रेयो नोपलभामहे ॥ १२.२९३.९ ॥
见彼诸智者各自站立,乐于经典,各以自家经典为满足,我们便找不到善。
12.293.10
शास्त्रं यदि भवेदेकं श्रेयो व्यक्तं भवेत्तदा ।
शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम् ॥ १२.२९३.१० ॥
若只有一部经典,善便会显明。然而由众多经典,善又被以隐秘之方式引入。
12.293.11
एतस्मात्कारणाच्छ्रेयो गहनं प्रतिभाति मे ।
ब्रवीतु भगवांस्तन्मे उपसन्नोस्म्यधीहि भो ॥ १२.२९३.११ ॥
因此,善对我而言显得幽深难明。愿尊者告诉我;我已来到您的面前,先生,请教导我。
12.293.12
आश्रमास्तात चत्वारो यथा संकल्पिताः पृथक् ।
तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव ॥ १२.२९३.१२ ॥
孩子啊,这四种修行之所如其各自所定,你应当全部观察,伽拉瓦,依止于它们。
12.293.13
तेषांतेषां तथाहि त्वमाश्रमाणां ततस्ततः ।
नानारूपं गुणोद्देशं पश्य विप्रस्थितं पृथक् ॥ १२.२९३.१३ ॥
你且看这些各自的生活阶段,其多样的形态与所述的德性之旨,乃智者分别确立的。
12.293.14
न यान्ति चैव ते सम्यगभिप्रेतमसंशयम् ।
अन्येऽपश्यंस्तथा सम्यगाश्रमाणां परां गतिम् ॥ १२.२९३.१४ ॥
他们确实不能完全达到所意欲的目标,此无疑义;其他人则正确地看见了诸生活阶段的至高归宿。
12.293.15
यत्तु निःश्रेयसं सम्यक्तच्चैवासंशयात्मकम् ।
अनुग्रहं च मित्राणाममित्राणां च निग्रहम् ॥ १२.२९३.१५ ॥
至善之事,其性质也确定无疑:善待朋友,制服敌人。
12.293.16
संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः ।
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता ॥ १२.२९३.१६ ॥
智者说,三目标的聚集也是善,远离罪恶之业,并且恒常具有美德,也是善。
12.293.17
सद्भिश्च समुदाचारः श्रेय एतदसंशयम् ।
मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम् ॥ १२.२९३.१७ ॥
与善人以善相处也是善,此无疑义;对一切众生温和,行事正直。
12.293.18
वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम् ।
देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि ॥ १२.२९३.१८ ॥
甘美的言语也被宣称为善,此无疑义;向诸神、祖先乃至客人施与分享,也是善。
12.293.19
असंत्यागश्च भूत्यानां श्रेय एतदसंशयम् ।
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् ॥ १२.२९३.१९ ॥
不舍弃仆从,这是善,毫无疑问。说真话是善,但真知之难。
12.293.20
यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम् ।
अहंकारस्य च त्यागः प्रमादस्य च निग्रहः ॥ १२.२९३.२० ॥
于众生极为有益的,这真理我宣说:舍弃我慢,克制放逸。
12.293.21
संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते ।
धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च ॥ १२.२९३.२१ ॥
知足、独修与不动之我,被称为善。依法学习吠陀,以及吠陀支分的学习,亦复如是。
12.293.22
ज्ञानार्थानां च जिज्ञासा श्रेय एतदसंशयम् ।
शब्दरूपरसस्पर्शान्सह गन्धेन केवलान् ॥ १२.२९३.२२ ॥
求知之对象,是善,毫无疑问。声、色、味、触,连同香,唯独……
12.293.23
नात्यर्थमुपसेवेत श्रेयसोर्थी कथंचन ॥ १२.२९३.२३ ॥
求善者,无论如何,不应过度沉溺(于诸境)。
12.293.24
नक्तंचर्यां दिवास्वप्नमालस्यं पैशुनं मदम् ।
अतियोगमयोगं च श्रेयसोर्थी परित्यजेत् ॥ १२.२९३.२४ ॥
夜行、昼眠、懒惰、谗言、骄狂、过度与不及的结合——求善者应当舍弃这些。
12.293.25
आत्मोत्कर्षं न मार्गेत परेषां परिनिन्दया ।
स्वगुणैरेव मार्गेति विप्रकर्षं पृथग्जनात् ॥ १२.२९३.२५ ॥
不应通过贬低他人来寻求自我抬高;应当仅凭自身的德行与普通人区别开来。
12.293.26
निर्गुणास्त्वेव भूयिष्ठमात्मसंभाविता नराः ।
दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात् ॥ १२.२९३.२६ ॥
多数人本无德行,却自视甚高;因自身德行的衰减,他们便以过失诋毁有德之人。
12.293.27
अनूच्यमानास्तु पुनस्ते मन्यन्ते महाजनात् ।
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः ॥ १२.२९३.२७ ॥
然而当大人物再次称赞他们时,他们因自负而得意,便认为自己更加有德。
12.293.28
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् ।
विपश्चिद्गुणसंपन्नः प्राप्नोत्येव महद्यशः ॥ १२.२९३.२८ ॥
具备德行的智者,不诽谤他人,也不自我夸耀,必定获得巨大的声誉。
12.293.29
अब्रुवन्वाऽतिसुरभिर्गन्धः सुमनसां शुचिः ।
तथैवाव्याहरन्भाति विमलो भानुरम्बरे ॥ १२.२९३.२९ ॥
花朵不言,其清香自然飘散;同样,明净的太阳无需宣告,便照耀天空。
12.293.30
एव मादीनि चान्यानि परित्यक्तानि मेधया ।
ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च ॥ १२.२९३.३० ॥
同样,那些被智慧舍弃(不自我宣扬)、且不言语自夸的其他事物,在世间因声誉而闪耀。
12.293.31
न लोके दीप्यते मूर्खः केवलात्मप्रशंसया ।
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते ॥ १२.२९३.३१ ॥
愚人仅凭自我夸耀不能在世间闪耀;即使藏身坑中,学有所成者也会显露光芒。
12.293.32
असदुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति ।
दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम् ॥ १२.२९३.३२ ॥
即使无用之言大声说出,也会消散;而善言即便轻声说出,也会在世间闪耀。
12.293.33
मूढानामवलिप्तानामसारं भाषितं बहु ।
दर्शयत्यन्तरात्मानमग्निरूपमिवांशुमान् ॥ १२.२९३.३३ ॥
愚人与傲慢者所说的许多无用之言,显露出他们内在的自我,正如光耀的太阳以火的形态显现。
12.293.34
एतस्मात्कारणात्प्रज्ञां मृगयन्ते पृथग्विधाम् ।
प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति मे ॥ १२.२९३.३४ ॥
正因如此,人们追求各种形式的智慧;在我看来,获得智慧对众生而言是最高的善。
12.293.35
नापृष्टः कस्यचिद्ब्रूयान्नाप्यन्यायेन पृच्छतः ।
जानन्नपि च मेधावी जडवत्समुपाविशेत् ॥ १२.२९३.३५ ॥
不被问及,不可对任何人开口;即使对方不义地发问,也不可回答;即使知道,智者也应如愚钝之人那样静坐。
12.293.36
ततो वासं परीक्षेत धर्मनित्येषु साधुषु ।
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च ॥ १२.२९३.३६ ॥
然后,应在时时奉行正法的善人之中、在慷慨的人之中、在专注于自身本分的人之中,考察自己的居所。
12.293.37
चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत् ।
न तत्र वासं कुर्वीत श्रेयोर्थी वै कथंचन ॥ १२.२९३.३७ ॥
在四种姓之间法义混乱之处,求善者无论如何不应在那里居住。
12.293.38
निरारम्भोऽप्ययमिह यथालब्धोपजीवनः ।
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात् ॥ १२.२९३.३८ ॥
即使在此不作任何行动、只靠所得而生活的人,也会在有德者中得到清净的功德,在有罪者中得到罪过。
12.293.39
अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा ।
तथा पश्यामहे स्पर्शमुभयोः पुण्यपापयोः ॥ १२.२९३.३९ ॥
正如人感知水、火与月亮的触碰,我们也看到功德与罪过两者的触碰。
12.293.40
अपश्यन्तोऽन्यविषयं भुञ्जते विघसाशिनः ।
भुञ्जानाश्चान्यविषयान्विषयान्विद्धि कर्मणाम् ॥ १२.२९३.४० ॥
不见他人之物,食用祭余者享受;而享用他物者,应知其为业报所系之对象。
12.293.41
यत्रागमयमानानामसत्कारेण पृच्छताम् ।
प्रब्रूयाद्ब्रह्माणो धर्मं त्यजेत्तं देशमात्मवान् ॥ १२.२९३.४१ ॥
若婆罗门对等候与求问者轻慢而讲说法义,自制者应当离开那片土地。
12.293.42
शिष्योषाध्यायिका वृत्तिर्यत्र स्यात्सुसमाहिता ।
यथावच्छास्त्रसंपन्ना कस्तं देशं परित्यजेत् ॥ १२.२९३.४२ ॥
师生的生计安排得当,经典得以如法完备之处,谁会离开那片土地呢?
12.293.43
आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम् ।
आत्मपूजाभिकामो वै को वसेत्तत्र पण्डितः ॥ १२.२९३.४३ ॥
在天界居住者必定指出智者过失之地,哪位渴望自尊的学者会居住在那里?
12.293.44
यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः ।
प्रदीप्तमिव चेलान्तं कस्तं देशं न संत्यजेत् ॥ १२.२९३.४४ ॥
在贪婪者多半扰乱法之桥梁的地方,谁不会离开那片土地,就如同丢弃燃烧的衣角一般?
12.293.45
यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः ।
भवेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥ १२.२९३.४५ ॥
若人们无惧、无妒地奉行法,便应居住在那里,与行为纯洁的善人同住。
12.293.46
धर्ममर्थनिमित्तं च चरेयुर्यत्र मानवाः ।
न ताननुवसेज्जातु ते हि पापकृतो जनाः ॥ १२.२९३.४६ ॥
若人们为利益而奉行法,则绝不应与他们同住,因为那些人是作恶之人。
12.293.47
कर्मणां यत्र पापेन वर्तन्ते जीवितेप्सवः ।
व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव ॥ १२.२९३.४७ ॥
若人们为求生存而以恶业度日,应当迅速逃离那里,就如同逃离藏有毒蛇的居所一般。
12.293.48
येन खट्वां समारूढः कर्मणाऽनुशयी भवेत् ।
आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः ॥ १२.२९३.४८ ॥
那种使人躺上床榻后便悔恨不已的行为,希望自身安好者从一开始便不应去做。
12.293.49
यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः ।
कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान् ॥ १२.२९३.४९ ॥
若国王及其近臣夺取家主的首份所得,自制之人应当离开那个国家。
12.293.50
श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः ।
याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत् ॥ १२.२९३.५० ॥
若精通吠陀的婆罗门享受首份所得,恒常守法、长存不灭,并专心于祭祀与教导,便应居住在那里。
12.293.51
स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः ।
अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन् ॥ १२.२९३.५१ ॥
若“娑訶”“娑陀”“韋沙”等祭语被正确履行并不断进行,便应毫不犹豫地居住在那里。
12.293.52
अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान् ।
त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम् ॥ १२.२९३.५२ ॥
若见婆罗门因生计匮乏而枯瘦,从事不净之事,便应离开那个国家,如同舍弃被污染的肉。
12.293.53
प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः ।
स्वस्थचित्तो वसेत्तत्र कृतकृत्य इवात्मवान् ॥ १२.२९३.५३ ॥
若人们心怀喜悦,不待请求便施予,那么心境安宁、自制之人便应像完成使命一般居住在那里。
12.293.54
दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु ।
चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥ १२.२९३.५४ ॥
若对无礼者施以惩罚,对自制者给予尊敬,便应在那里往来;而应居住在德行高尚的善人之中。
12.293.55
उपसृष्टेषु दान्तेषु दुराचारेषु साधुषु ।
अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम् ॥ १२.२९३.५५ ॥
对于受困者、自制者、行为不端者、善人、不驯者和贪婪者之间,应施行重大的刑罚。
12.293.56
यत्र राजा धर्मनित्यो राज्यं धर्मेण पालयेत् ।
अपास्य कामान्कामेशो वसेत्तत्राविचारयन् ॥ १२.२९३.५६ ॥
若国王恒守法度,以法治理国家,则应舍弃欲望,作欲望的主人,毫不犹豫地居住在那里。
12.293.57
यथाशीला हि राजानः सर्वान्विषयवासिनः ।
श्रेयसा योजयत्याशु श्रेयसि प्रत्युपस्थिते ॥ १२.२९३.५७ ॥
国王的品行如何,国中所有居民也如何;当至善降临时,他们便迅速引导众人趋向至善。
12.293.58
पृच्छतस्ते मया तात श्रेय एतदुदाहृतम् ।
न हि शक्यं प्रधानेन श्रेयः सङ्ख्यातुमात्मनः ॥ १२.२९३.५८ ॥
孩子,你既然问了,我便为你说明这至善;实际上,即使是原初之本性,也无法穷尽自我的至善。
12.293.59
एवं प्रवर्तमानस्य वृत्तिं प्राणिहितात्मनः ।
तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति ॥ १२.२९३.५९ ॥
对于如此行事、一心利益众生的人,大善将借苦行在此显现。