摩诃婆罗多 · 章 12.299
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.299.1
वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना ।
प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा ॥ १२.२९९.१ ॥
从三个种姓以善意获得的生计,即使对低下者也是适当的;规定的生计总使他坚守法度。
12.299.2
वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा ।
न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत् ॥ १२.२९९.२ ॥
若首陀罗没有从父祖传下的固定生计,他不应向他人求取生计,而应从事侍奉。
12.299.3
सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः ।
नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः ॥ १२.२९९.३ ॥
唯有与明见法义的善人相交才是美好的,无论何时、何种境况都如此,而非与恶人相交——这是我的看法。
12.299.4
यथोदयगिरौ द्रव्यं सन्निकर्षेण दीप्यते ।
तथा सत्सन्निकर्षेण हीनवर्णोऽपि दीयते ॥ १२.२९९.४ ॥
如同置于日出之山的物件因靠近而发光,低等种姓之人也因亲近善人而得到光明。
12.299.5
यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् ।
तादृशं कुरुते रूपमेतदेवमवेहि मे ॥ १२.२९९.५ ॥
白布以何种颜色染色,它便呈现何种形貌——此理请由我而知。
12.299.6
तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन ।
अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् ॥ १२.२९९.६ ॥
因此应当乐于善德,而绝不沉溺于过失;因为在此凡人的生命无常、不定而变迁。
12.299.7
सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः ।
यश्चिनोति शुभान्येव स भद्राणीह पश्यति ॥ १२.२९९.७ ॥
无论处于乐还是苦,智者只积累善行,他在此所见的只有吉祥。
12.299.8
धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् ।
न तत्सेवेत मेधावी न तद्धितमिहोच्यते ॥ १२.२९९.८ ॥
背离法的行为,即使带来大果报,智者也不应遵行;此处不称其为有益。
12.299.9
धर्मेण सहितं यत्तु भवेदल्पफलोदयम् ।
तत्कार्यमविशङ्केन कर्मात्यन्तं सुखावहम् ॥ १२.२९९.९ ॥
与法相合的行为,即使果报微小,也应毫不犹豫地去做;此行为带来极大的安乐。
12.299.10
यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता ।
स शब्दमात्रफलभाग्राजा भवति तस्करः ॥ १२.२९९.१० ॥
若国王夺取成千上万头牛,不加保护便布施出去,他只得到果报之名;这样的国王便成了盗贼。
12.299.11
स्वयंभूरसृजच्चाग्रे धातारं लोकसत्कृतम् ।
धाताऽसृजत्पुत्रमेकं लोकानां धारणे रतम् ॥ १२.२९९.११ ॥
自生者先创造了受世界尊敬的造物者;造物者又生出一子,喜好维系世界。
12.299.12
तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् ।
रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः ॥ १२.२९९.१२ ॥
吠舍敬奉他之后,应使财富大为增长;刹帝利应当守护它,再生族应当用它。
12.299.13
अजिह्नैरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिः ।
शूर्दैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति ॥ १२.२९९.१३ ॥
正直而怒中无诈、举行天神与祖先祭供者,应以簸箕清扫谷物;如此法便不会灭亡。
12.299.14
अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः ।
सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः ॥ १२.२९९.१४ ॥
法未灭亡时,百姓便安乐;大王啊,因他们的安乐,诸天在天界欢喜。
12.299.15
तस्माद्यो रक्षति नृपः स धर्मेणेति पूज्यते ।
अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः ॥ १२.२९९.१५ ॥
因此,护持人民的君王因依法而受敬重;诵习吠陀的婆罗门,以及乐于积聚财富的吠舍,亦是如此。
12.299.16
यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः ।
अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते ॥ १२.२९९.१६ ॥
若首陀罗以调伏的诸根恒常侍奉,亦然;人中之主啊,行为相反者便堕于自身的法。
12.299.17
प्राणसंतापनिर्दिष्टाः काकिण्योऽपि महाफलाः ।
न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः ॥ १२.२९९.१७ ॥
即便是以生命辛劳所得、依正道获取而布施的小贝币,也结大果;何况其他财物成千上万地布施呢?
12.299.18
सत्कृत्य हि द्विजातिभ्यो यो ददाति नराधिपः ।
यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् ॥ १२.२९९.१८ ॥
君王若恭敬地布施给再生者,便常常享受与所施相称、丰厚的果报。
12.299.19
अभिगम्य तु यद्दत्तं धर्म्यमाहुरभिष्टुतम् ।
याचितेन तु यद्दत्तं तदाहुर्मध्यमं फलम् ॥ १२.२९९.१९ ॥
前往受施者处所施之布施,被称为合乎法义且值得称赞;被请求而施予者,则称为中等之果。
12.299.20
अवज्ञया दीयते यत्तथैवाश्रद्धयाऽपि वा ।
तदाहुरधमं दानं मुनयः सत्यवादिनः ॥ १२.२९९.२० ॥
以轻慢或无信心而施予的布施,诚实的牟尼称之为下等布施。
12.299.21
अतिक्रामेन्मज्जमानो विविधेन नरः सदा ।
तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् ॥ १२.२९९.२१ ॥
溺水之人应当常以种种方法设法渡过,并努力使自己脱离险境。
12.299.22
दमेन शोभते विप्रः क्षत्रियो विजयेन तु ।
धनेन वैश्यः शृद्रस्तु नित्यं दाक्ष्येण शोभते ॥ १२.२९९.२२ ॥
婆罗门以自制而光彩,刹帝利以胜利而光彩;吠舍以财富而光彩,而首陀罗则常以技能而光彩。