Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.324

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.324.1

ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ ।
दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत् ॥ १२.३२४.१ ॥

婆罗多族的雄牛啊,即使获得了伟大的权势或财富,或得到了长寿,人又如何能超越死亡呢?

12.324.2

तपसा वा सुमहता कर्मणा वा श्रुतेन वा ।
रसायनप्रयोगैर्वा कैर्नाप्नोति जरान्तकौ ॥ १२.३२४.२ ॥

以极大的苦行、以行为、以学问,或以炼丹药剂,人究竟以何者才不会遭受衰老与死亡?

12.324.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च ॥ १२.३२४.३ ॥

这里人们也讲述这个古老的故事——乞士般遮犀与王者遮那迦之间的对话。

12.324.4

वैदेहो जनको राजा महर्षि वेदवित्तमम् ।
यर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम् ॥ १२.३२४.४ ॥

毗提诃国王遮那迦询问了大仙遮犀——吠陀中最博学者,其对法与利的疑惑已经断除。

12.324.5

केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ ।
तपसा वाऽथवा बुद्ध्या कर्मणा वा श्रुतेन वा ॥ १२.३२४.५ ॥

尊者啊,人以何种行为能够超越衰老与死亡呢——是以苦行、以智慧、以行为,还是以学问?

12.324.6

एवमुक्तः स वैदेहं प्रत्युवाचापरेक्षवित् ।
निवृत्तिर्नैतयोरस्ति नातिवृत्तिः कथंचन ॥ १२.३२४.६ ॥

被如此询问之后,那位知晓不可见之事的仙人对毗提诃王说:这二者既无可脱离,也无任何方法可以超越。

12.324.7

न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः ।
सोयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः ॥ १२.३२४.७ ॥

日子不会返回,月份也不会,夜晚也不会再来。这无常之人必将踏上漫长的路途。

12.324.8

सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा ।
ऊह्यमानं निमज्जन्तमप्लवे कालसागरे ॥ १२.३२४.८ ॥

一切众生的毁灭总是如水流般被卷走;在无舟的时间之海中被冲走并沉没。

12.324.9

जरामृत्युमहाग्राहे न कश्चिदतिवर्तते ।
नैवास्य कश्चिद्भवति नासौ भवति कस्यचित् ॥ १२.३२४.९ ॥

无人能逃脱衰老与死亡这头巨鳄。他没有任何人,他也不属于任何人。

12.324.10

पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः ।
नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित् ॥ १२.३२४.१० ॥

此等相聚只是路途中的相遇,与妻子、他人和亲属同行。这种无尽的共处,从前无人曾经得到。

12.324.11

क्षिप्यन्ते तेनतेनैव निष्टनन्तः पुनः पुनः ।
कालेन जाता याता हि वायुनेवाभ्रसंचयाः ॥ १२.३२४.११ ॥

他们呻吟着,被一次次地抛来抛去。生于时间,又消逝而去,如同云团被风吹散。

12.324.12

जरामृत्यू हि भूतानां खादितारौ वृकाविव ।
बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥ १२.३२४.१२ ॥

衰老与死亡如同两头狼,吞噬众生,无论强者弱者,矮小或伟大。

12.324.13

एवंभूतेषु भूतेषु नित्यभूताध्रवेषु च ।
कथं हि हृष्येज्जातेषु मृतेषु च न संज्वरेत् ॥ १२.३२४.१३ ॥

在这样的众生之中,常生而无常的众生之中,为何要因出生而欢喜,因死亡而不忧伤呢?

12.324.14

कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा ।
कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि ॥ १२.३२४.१४ ॥

我从何处而来,我是谁,将往何处去,我属于谁,我处于何种境地,将在何处?你为何、为了何事而悲伤?

12.324.15

द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च ।
आगमास्त्वनतिक्रम्य दद्याच्चैव यजेत च ॥ १२.३२४.१५ ॥

没有人见过天堂,也没有人见过地狱。但在不违背经典的前提下,应当布施,也应当祭祀。