Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.341

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.341.1

इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः ।
प्रातिष्ठत शुकः सिद्धिं हित्वा दोषांश्चतुर्विधान् ॥ १२.३४१.१ ॥

说完这些话,大苦行的梵仙旃 Śuka 舍弃四种过失,走向圆满。

12.341.2

तमो ह्यष्टगुणं हित्वा जहौ पञ्चविधं रजः ।
ततः सत्वं जहौ धीमांस्तदद्भुतमिवाभवत् ॥ १२.३४१.२ ॥

舍弃八种性质的暗性(tamas),又舍弃五种的激性(rajas);随后这位智者也舍弃了善性(sattva),此事竟显得奇妙非凡。

12.341.3

ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते ।
ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन् ॥ १२.३४१.३ ॥

于是,他安住于那永恒、无德、离相的境界,即梵之中,如无烟之火般光明燃烧。

12.341.4

उत्कापाता दिशां दाहो भूमिकम्पस्तथैव च ।
प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत् ॥ १२.३४१.४ ॥

就在那一刻,流星坠落、四方燃烧,大地也震动起来;此事竟显得奇妙非凡。

12.341.5

द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः ।
निर्घातशब्दैर्गुरुभिर्भूमिर्व्यादीर्यतेव ह ॥ १२.३४१.५ ॥

树木脱落了枝条,山峰崩落了顶峰;沉重的霹雳轰鸣声中,大地仿佛正在裂开。

12.341.6

न बभासे सहस्रांशुर्न जज्वाल च पावकः ।
ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा ॥ १२.३४१.६ ॥

太阳不再照耀,火也不再燃烧;湖泊、河流与大海也都翻腾起来。

12.341.7

ववर्ष वासवस्तोयं रसवच्च सुगन्धि च ।
ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः ॥ १२.३४१.७ ॥

婆娑(因陀罗)降下甘美而芬芳的雨水,一阵携带神圣香气的清风也吹拂起来。

12.341.8

स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसंनिभे ।
संश्लिष्टे स्वतेपीते द्वे रुक्मरूप्यमये शुभे ॥ १२.३४१.८ ॥

他到达了那两座无与伦比的神圣山峰,它们如喜马拉雅与弥卢山,相连在一起,因自身光辉而灼热,由金与银构成,吉祥无比。

12.341.9

शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत ।
उदीचीं दिशमास्थाय रुचिरे संददर्श ह ॥ १२.३४१.९ ॥

婆罗多啊,他朝北方前行,果然看见了那些美丽的山峰,横向与向上延伸,广达百由旬。

12.341.10

सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः ॥ १२.३४१.१० ॥

舍卢迦以无畏无疑之心,同样朝那些山峰猛扑而下。

12.341.11

ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते ।
अदृश्येतां महाराज तदद्भुतमिवाभवत् ॥ १२.३४१.११ ॥

然后,大王啊,那两座山峰忽然一分为二,显现出来;那景象仿佛奇迹一般。

12.341.12

ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः ।
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ॥ १२.३४१.१२ ॥

随后,他忽然从那两座山峰之间冲出,而那座最为殊胜的山也没有阻挡他的去路。

12.341.13

ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम् ।
गन्धर्वाणामृषीणां च ये च शैलनिवासिनः ॥ १२.३४१.१३ ॥

此时,天上所有天界居民、乾闼婆、仙人以及居住在山中的众生发出了巨大的声音。

12.341.14

दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधा कृतम् ।
साधुसाध्विति तत्रासीन्नादः सर्वत्र भारत ॥ १२.३४१.१४ ॥

众人看到shuka越过山峰,山峦一分为二,于是四处响起“善哉,善哉!”之声,婆罗多啊。

12.341.15

स पूज्यमानो देवैश्च गन्धर्वैर्ऋशिभिस्तथा ।
यक्षराक्षससङ्घैश्च विद्याधरगणैस्तथा ॥ १२.३४१.१५ ॥

他受到诸神、乾闼婆、仙人、夜叉罗刹群以及持明众的礼敬,继续前行。

12.341.16

दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः ।
आसीत्किल महाराज शुकाभिपतने तदा ॥ १२.३४१.१६ ॥

大王啊,那时,当shuka飞翔之际,天空四面都被天界的花朵所覆盖。

12.341.17

ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन् ।
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् ॥ १२.३४१.१७ ॥

随后,正义的shuka从上方飞过,看见了美丽的曼陀吉尼河,两岸是开满花的树林。

12.341.18

तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः ।
शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः ॥ १२.३४१.१८ ॥

在河中欢乐嬉戏沐浴的阿普萨拉斯群,看见shuka后,形体变得空虚而无形,且赤身裸体。

12.341.19

तं प्रक्रामन्तमाज्ञाय पिता स्नेहसमन्वितः ।
उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह ॥ १२.३४१.१९ ॥

父亲知道他要离去,满怀慈爱,以至上的速度追随在他身后。

12.341.20

शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम् ।
दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ॥ १२.३४१.२० ॥

然而,舍卢迦取风之上、穿行天空的路径,显示了自己的威能,于是成为了一切众生。

12.341.21

महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः ।
निमेषान्तरमात्रेण शुकाभिपतनं ययौ ॥ १२.३४१.२१ ॥

毗耶娑以大瑜伽的至上之道起身,在一瞬之间追赶舍卢迦而去。

12.341.22

स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् ।
शशंसुर्ऋषयस्तत्र कर्म पुत्रस्य तत्तदा ॥ १२.३४१.२२ ॥

他看见舍卢迦已离去,把山峰劈成两半。那里的仙人当时便称赞了儿子的这一行为。

12.341.23

ततः शुकेति दीर्घेण शब्देनाक्रन्दितस्तदा ।
स्वयं पित्रा स्वरेणोच्चैस्त्रील्लोँकाननुनाद्य वै ॥ १२.३४१.२३ ॥

于是父亲自己以悠长的声音大呼:“舍卢迦啊!”以此声响彻三界。

12.341.24

शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः ।
प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन् ॥ १२.३४१.२४ ॥

舍卢迦遍在一切,成为一切之我,面向一切方向,这位法心者以“喔”之声回应,使之回荡。

12.341.25

तत एकाक्षरं नादं भोरित्येव समीरयन् ।
प्रत्याहरञ्जगत्सर्वमुच्चैः स्थावरजङ्गमम् ॥ १२.३४१.२५ ॥

于是他只发出一个音节的声音「bhoḥ」,使整个世界、不动与可动之物,都大声回响。

12.341.26

ततःप्रभृति चाद्यापि शब्दानुच्चारितान्पृथक् ।
गिरिगह्वरपृष्ठेषु व्याहरन्ति शुकं प्रति ॥ १२.३४१.२६ ॥

自那时起直到今日,在山谷洞穴的表面,人们仍朝向修迦分别发出所说的话语,并使之回响。

12.341.27

अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा ।
गुणान्संत्यज्य शब्दादीन्पदमभ्यगमत्परम् ॥ १२.३४१.२७ ॥

那时修迦显示了他的威力后隐去,舍弃了声音等诸德,到达了至上之境。

12.341.28

महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः ।
निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन् ॥ १२.३४१.२८ ॥

见到这位无量光辉之子的伟大,他便坐在山岗高原上,唯独思念着自己的儿子。

12.341.29

ततो मन्दाकिनीतीरे क्रीडन्तोऽऽप्सरसां गणाः ।
आसाद्य तमृषिं सर्वाः संभ्रान्ता गतचेतसः ॥ १२.३४१.२९ ॥

于是在曼达基尼河岸嬉戏的天女群走近那位仙人,她们都惊慌失措,心神迷乱,……

12.341.30

जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे ।
वसनान्याददुः काश्चित्तं दृष्ट्वा मुनिसत्तमम् ॥ १२.३४१.३० ॥

有的隐入水中,有的躲进灌木丛,有的取了衣裳——她们看见了那位最优秀的仙人。

12.341.31

तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा ।
सक्ततामात्मनश्चैव प्रीतोऽभूद्बीडितश्च ह ॥ १२.३४१.३१ ॥

仙人知道她已被释放,也明白了儿子和自己的执著,便既欣喜又感到羞惭。

12.341.32

तं देवगन्धर्ववृतो महर्षिगणपूजितः ।
पिनाकहस्तो भगवानभ्यागच्छत शंकरः ॥ १२.३४१.३२ ॥

被天神和乾闼婆环绕,受众大仙人礼敬,手持毗那迦弓的世尊湿婆朝他走来。

12.341.33

तमुवाच महादेवः सान्त्वपूर्वमिदं वचः ।
पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा ॥ १२.३४१.३३ ॥

对因失子之痛而备受煎熬的黑仙人(Kṛṣṇa Dvaipāyana),大天神随即以安慰之语开口说道:

12.341.34

अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह ।
वीर्येण सदृशः पुत्रः पुरा मत्तस्त्वया वृतः ॥ १२.३४१.३४ ॥

你从前向我求取的,是一个与火、地、水、风、空同等威力的儿子。

12.341.35

स तथालक्षणो जातस्तपसा तव संभृतः ।
मम चैव प्रसादेन ब्रह्मतेजोमयः शुचिः ॥ १२.३४१.३५ ॥

他生来具有这样的相貌,由你的苦行所成,又蒙我的恩典,成为充满梵光、纯洁的人。

12.341.36

स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः ।
दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि ॥ १२.३४१.३६ ॥

他已达到那至高之境,连未能制伏感官的人难以企及,即便天神也难以获得。婆罗门仙人啊,你为何还为他悲伤?

12.341.37

यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः ।
तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति ॥ १२.३४१.३७ ॥

只要群山屹立,只要大海长存,你与你儿子的不朽之名便将永存。

12.341.38

छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा ।
द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने ॥ १२.३४१.३८ ॥

大仙啊,凭借我的恩典,你在此世将看见一个如你亲子般的影子,四面八方永不离你。

12.341.39

सोऽनुगीतो भगवता स्वयं रुद्रेण भारत ।
छायां पश्यन्परावृत्तः स मुनिः परया मुदा ॥ १२.३४१.३९ ॥

那位由世尊楼陀罗亲自教导的仙人,怀着无上的喜悦,望着那影子,转身而返。

12.341.40

इति जन्म गतिश्चैव शुकस्य भरतर्षभ ।
विस्तरेण समाख्याता यन्मां त्वं परिपृच्छसि ॥ १२.३४१.४० ॥

婆罗多族的俊杰啊,如此详细地讲述了羯陀(Śuka)的出生与归宿,正是你所询问的。

12.341.41

एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा ।
व्यासश्चैव महायोगी संजल्पेषु पदेपदे ॥ १२.३४१.४१ ॥

大王啊,天仙那罗陀往昔曾向我讲述此事,大瑜伽士毗耶娑也在我们的交谈中一再讲述。

12.341.42

इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम् ।
धारयेद्यः शमपरः स गच्छेत्परमां गतिम् ॥ १२.३४१.४२ ॥

若有人专心于寂静,memorize此神圣的传说——其中含有解脱、法与利的教义——他将抵达至上之境。