Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.366

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.366.1

अतिभारोद्यतस्यैव भारावतरणं महत् ।
पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम् ॥ १२.३६६.१ ॥

对于承担了过重负担的人来说,卸下负担是大事;你所说的这些使我宽慰的话,我已听到。

12.366.2

अध्यक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् ।
तृषितस्येव पानीयं क्षुधार्तस्येव भोजनम् ॥ १२.३६६.२ ॥

对于行路疲惫者如同床榻,对于久立疲惫者如同座位,对于口渴者如同清水,对于饥饿者如同食物。

12.366.3

ईप्सितस्येव संप्राप्तिरर्थस्य समयेऽतिथे ।
एपितस्यात्मनः काले बृद्धस्यैव सुता यथा ॥ १२.३६६.३ ॥

客人啊,这就如同在适当的时候得到所求之物,又如老人在恰当的时候得到自己的儿子。

12.366.4

मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम् ।
प्रह्लादयति मां वाक्यं भवता यदुदीरितम् ॥ १२.३६६.४ ॥

如同心中所想之事,又如见到充满深情之人,你所说的这些话令我欢喜。

12.366.5

मनश्चक्षुरिवाकाशे पश्यामि विमृशामि च ।
प्रज्ञानवचनाद्योयमुपदेशो हि मे कृतः ॥ १२.३६६.५ ॥

我以心眼仰望天空而沉思,你以智慧之言赐予我的这番教导也是如此。

12.366.6

वाढमेवं करिष्यामि यथा मे भाषते भवान् ।
इमां हि रजनीं साधो निवसस्व मया सह ॥ १२.३६६.६ ॥

好吧,我会照你所说的去做。善人啊,今夜请与我同住。

12.366.7

प्रभाते यास्यति चवान्पर्याश्वस्तः सुखोपितः ।
असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्भुखः ॥ १२.३६६.७ ॥

黎明时分,你将休息得当、心满意足地启程。看哪,尊贵的太阳以柔和的光芒向下倾斜。

12.366.8

ततस्तेन कृतातिथ्यः सोऽनिथिः शत्रुसूदन ।
उवास किल तां रात्रिं सह तेन द्विजेन वै ॥ १२.३६६.८ ॥

于是,受到他款待的那位客人,啊,敌人的摧毁者,与那位再生者共度了那个夜晚。

12.366.9

तत्वं च धर्मसंयुक्तं तयोः कथयतोस्तदा ।
व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा ॥ १२.३६६.९ ॥

二人谈论正法之时,那整夜愉快地过去了,如同白昼一般。

12.366.10

ततः प्रभातसमये सोऽतिथिस्तेन पूजितः ।
ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता ॥ १२.३६६.१० ॥

然后,在黎明时分,那位想要完成自己事务的客人,受到了婆罗门依其能力的尊敬。

12.366.11

ततः स विप्रः कृतकर्मनिश्चयः ।
कृताभ्यनुज्ञः स्वजनेन धर्मकृत्।
यथोपदिष्टं भुजगेन्द्रसंश्रयं ।
जगाम काले सुकृतैकनिश्चयः ॥ १२.३६६.११ ॥

于是那位婆罗门确定了自己的行动,得到家人的允许,行持正法,依照所受的教导,在适当的时候前往蛇王的庇护之处,唯一的决心是善行。