摩诃婆罗多 · 章 12.367
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.367.1
स वनानि विचित्राणि तीर्थानि च सरांसि च ।
अभिगच्छन्क्रमेण स्म कंचिन्मुनिमुपस्थितः ॥ १२.३६७.१ ॥
他依次走向奇异的森林、圣地与湖泊,逐渐来到一位苦行者面前。
12.367.2
तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः ।
पर्यपृच्छद्यथान्यायं श्रुत्वैव च जगाम सः ॥ १२.३६७.२ ॥
那位婆罗门按照指示,依礼询问了关于那伽的事,听后便离去了。
12.367.3
सोऽभिगम्य यथान्यायं नागायतनमर्थवित् ।
प्रोक्तवानहमस्मीति भोःशब्दालंकृतं वचः ॥ १२.३६७.३ ॥
知晓其意的他依礼来到那伽的居所,以带有“呸”(bhoḥ)一词修饰的言辞说道:“我来了。”
12.367.4
तत्तस्य वचनं श्रुत्वा रूपिणी धर्मवत्सला ।
दर्शयामास तं विप्रं नागपत्नी पतिव्रता। ॥ १२.३६७.४ ॥
她听到他的话,这位热爱法义、现出形貌、忠于丈夫的那伽之妻,向那位婆罗门显现了自己。
12.367.5
सा तस्मै विधिवत्पूजां चक्रे धर्मपरायणा ।
स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत् ॥ १२.३६७.५ ॥
她专心于法,依礼敬奉他,以礼迎接来客,并问道:“我该做什么?”
12.367.6
विश्रान्तोऽभ्यर्चिंतश्चास्मि भवत्या श्लक्ष्णया गिरा ।
द्रष्टुमिच्छामि भवति देवं नागमनुत्तमम् ॥ १२.३६७.६ ॥
夫人,我因您温和的言语得以休息并受到尊敬。我想见那位至尊的神圣那伽。
12.367.7
एतद्धि परमं कार्यमेतन्मे परमप्सितम् ।
अनेन चार्थेनास्म्यद्य संप्राप्तः पन्नगाश्रमम् ॥ १२.३६७.७ ॥
这确实是我最崇高的使命,也是我最大的愿望;正为此事,我今日来到了蛇众的修行处。
12.367.8
आर्यः सूर्यरथं वोढुं गतोऽसौ मासचारिकः ।
सप्ताष्टभिर्दिनैर्विप्र दर्शयिष्यत्यसंशयम् ॥ १२.३६७.८ ॥
夫君已前往拉载太阳战车,行程一月;婆罗门啊,七八日之内他必定会显现于你。
12.367.9
एतद्विदितमार्यस्य विवासकरणं तव ।
भर्तुर्भवतु किंचान्यत्क्रियतां तद्वदस्व मे ॥ १२.३६७.९ ॥
此事夫君已知你在此停留。若还有何事可为夫君而做,请告诉我。
12.367.10
अनेन निश्चयेनाहं साध्वि संप्राप्तवानिह ।
प्रतीक्षन्नागमं देवि वत्स्याम्यस्मिन्प्रहावने ॥ १२.३६७.१० ॥
怀着这样的决心,贤淑的女士啊,我来到了这里。女神啊,我将在这大林中等候他的到来。
12.367.11
संप्राप्तस्यैव चाव्यग्रमावेद्योऽहमिहागतः ।
मयाभिगमनं प्राप्तो वाच्यश्च वचनं त्वया ॥ १२.३६७.११ ॥
他一到,便当平静地告诉他我已来此;我的到来须告知于他,而你也应转达我的话语。
12.367.12
अहमप्यत्र वत्स्यामि गोमत्याः पुलिने शुभे ।
कालं परिमिताहारो यथोक्तं परिपालयन् ॥ १२.३६७.१२ ॥
我也将住在此地,吉祥的女士啊,在戈玛提河的沙岸上,饮食有度,依照所定的规矩修持。
12.367.13
ततः स विप्रस्तां नागीं समाधाय पुनःपुनः ।
वेदवित्पुलिनं नद्याः प्रययौ ब्राह्मणर्भषः ॥ १२.३६७.१३ ॥
于是那位精通吠陀的婆罗门,再三安慰那位蛇女之后,前往河边的沙洲;他是婆罗门中的俊杰。