Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.371

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.371.1

स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति ।
तमेव मनसा ध्यायन्कार्यवत्तां विचारयन् ॥ १२.३७१.१ ॥

那蛇王便前往婆罗门那里,心中只念着他,并思量自己的事情。

12.371.2

तमतिक्रम्य नागेन्द्रो मतिमान्स नरेश्वर ।
प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः ॥ १२.३७१.२ ॥

君王啊,那位明智的龙王走近他,天性爱好正法,说出了温和的话语。

12.371.3

भोभो क्षाम्याभिभाषए त्वां न रोषं कर्तुमर्हसि ।
इह त्वमभिसंप्राप्तः कस्यार्थे किं प्रयोजनम् ॥ १२.३७१.३ ॥

喂喂,请原谅,我正在与您说话,您不应当生气。您为何来到此处?为了谁,有何目的?

12.371.4

आभिमुख्यादभिक्रम्य स्नेहात्पृच्छामि ते द्विज ।
विविक्ते गोमतीतीरे कं वा त्वं पर्युपाससे ॥ १२.३७१.४ ॥

我从正面走近,出于亲切之心问您,婆罗门啊。在僻静的戈玛蒂河岸,您侍奉的是谁?

12.371.5

धर्मारण्यं हि मां विद्धि नागं द्रष्टुमिहागतम् ।
पद्मनाभं द्विजश्रेष्ठ तत्र मे कार्यमाहितम् ॥ १२.३७१.५ ॥

请知道我来自法林,来此是为了见那龙王。哦,最优秀的再生者,为了见莲花脐(毗湿奴);我的事务就在那里。

12.371.6

तस्य चाहमसान्निध्ये श्रुतवानस्मि तं गतम् ।
स्वजनात्तं प्रतीक्षामि पर्जन्यमिव कर्षकः ॥ १२.३७१.६ ॥

在他不在的时候,我听说他已经离去;我从我的族人那里等待他,如同农夫等待雨云。

12.371.7

तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम् ।
आवर्तयामि तद्ब्रह्म योगयुक्तो निरामयः ॥ १२.३७१.७ ॥

为他,我再次诵念那不带苦恼、以吉祥语专注凝摄的梵,我与瑜伽相应,无病无恙。

12.371.8

अहो कल्याणवृत्तस्त्वं साधुः सज्जनवत्सलः ।
अवाच्यस्त्वं महाभाग परं स्नेहेन पश्यसि ॥ १२.३७१.८ ॥

啊!你品行良善、贤明,爱护善人。大福者啊,你不应受责备;你以深厚的情意看待我。

12.371.9

अहं स नागो विप्रर्षे यथा मां विन्दते भवान् ।
आज्ञापय यथास्वैरं किं करोमि प्रियं तव ॥ १२.३७१.९ ॥

婆罗门中的贤哲啊,我就是你所找到的那条蛇。请随你的心意吩咐;我该为你做什么令你欢喜的事?

12.371.10

भवन्तं स्वजनादस्मि संप्राप्तं श्रुतवानहम् ।
अतस्त्वां स्वयमेवाहं द्रष्टुमभ्यागतो द्विज ॥ १२.३७१.१० ॥

我从亲族那里听说你已到来;因此,二生者啊,我亲自前来见你。

12.371.11

संप्राप्तश्च भवानद्य कृतार्थः प्रतियास्यति ।
विस्रब्धो मां द्विजश्रेष्ठ विषये योक्तमर्हसि ॥ १२.३७१.११ ॥

你今日已到来,将完成你的使命而离去。二生者中的最上者啊,请放心,把我用于你的事务吧。

12.371.12

वयं हि भवता सर्वे गुणक्रीता विशेषतः ।
यस्त्वमात्महितं त्यक्त्वा मामेवेहानुरुध्यसे ॥ १२.३७१.१२ ॥

我们都为你的德行所折服,尤其是你,舍弃了自己的利益,来此只追随于我。

12.371.13

आगतोऽहं महाभाग तव दर्शनलालसः ।
कंचिदर्थमनर्यज्ञः प्रष्टुकामो भुजंगम ॥ १२.३७१.१३ ॥

大幸之人啊,我因渴望见到你而来。蛇啊,我想询问某件事,因为我并非不通正道。

12.371.14

अहमात्मानमात्मस्थो मार्गगाणोऽऽत्मनो गतिम् ।
वासार्थिनं महाप्रज्ञं चलच्चित्तमुपास्मि ह ॥ १२.३७१.१४ ॥

我安住于自我,寻求自身的归宿,侍奉你——你寻求居所,大智慧者啊,心却浮动不定。

12.371.15

प्रकाशितस्त्वं स गुणैर्यशोगर्भगभस्तिभिः ।
शशाङ्ककरसंस्पर्शैर्हृद्यैरात्मप्रकाशितैः ॥ १२.३७१.१५ ॥

你以你的德性而光明,以蕴含荣耀的光芒,以如月光般令人愉悦的、自我照耀的德性。

12.371.16

तस्य मे प्रश्नमुत्पन्नं छिन्धि त्वमनिलाशन ।
पश्चात्कार्यं वदिष्यामि श्रोतुमर्हति तद्भवान् ॥ १२.३७१.१६ ॥

请解答我心中生起的那个问题,食风者啊。之后我将说出那件事,你是值得听闻的。