摩诃婆罗多 · 章 12.44
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.44.1
प्राप्य राज्यं महाबाहुर्धर्मपुत्रो युधिष्ठिरः ।
यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि ॥ १२.४४.१ ॥
大臂法子坚战得到王国后,又做了什么?婆罗门啊,你应当在此告诉我。
12.44.2
भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः ।
ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि ॥ १२.४४.२ ॥
或者三界至高之师世尊希瑟柯夏所做的,以及那位英雄所做的,婆罗门,你也应当加以解说。
12.44.3
शृणु तत्त्वेन राजेन्द्र कीर्त्यमानं मयाऽनघ ।
वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः ॥ १२.४४.३ ॥
王中之王啊,无罪者,请如实听我所述:般度五子以婆苏提婆居前所做的事。
12.44.4
प्राप्य राज्यं महाराज कुन्तीपुत्रो युधिष्ठिरः ।
वर्णान्संस्थापयामास नयेन विनयेन च ॥ १२.४४.४ ॥
大王啊,贡蒂之子坚战得到王国后,以policy智慧与谦逊确立了各种姓。
12.44.5
ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम् ।
सहस्रनिष्कैरेकैकं तर्पयामास पाण्डवः ॥ १२.४४.५ ॥
对于一千位已完成吠陀学习的大德婆罗门,般度之子各以一千尼什卡使之满足。
12.44.6
तथाऽनुजीविनो भृत्यान्संश्रितानतिथीनपि ।
कामैः संतर्पयामास कृपणांस्तार्किकानपि ॥ १२.४४.६ ॥
同样,他以所求之物充分满足了依附者、仆人、投靠者、客人、贫困者,甚至辩论家。
12.44.7
पुरोहिताय धौम्याय प्रादादयुतशः स गाः ।
धनं सुवर्णं रजतं वासांसि विविधान्यपि ॥ १२.४४.७ ॥
他把数以万计的牛、财富、黄金、白银和各种衣物赠给家祭司达乌米亚。
12.44.8
कृपाय च महाराज पितृवत्तमतर्पयत् ।
विदुराय च राजाऽसौ पूजां चक्रे यतव्रतः ॥ १२.४४.८ ॥
大王啊,他像父亲一样使克利巴满足;那位坚守誓愿的国王也礼敬了维杜拉。
12.44.9
भक्ष्यान्नपानैर्विविधैर्वासोभिः शयनासनैः ।
सर्वान्संतोपयामास संश्रितान्ददतां वरः ॥ १२.४४.९ ॥
他以各种美食、饮料、衣物、床榻和座席,使所有依附他的人都得到满足;他是施主中最好的。
12.44.10
लब्धप्रशमनं कृत्वा स राजा राजसत्तम ।
युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायेशाः ॥ १२.४४.१० ॥
最好的国王啊,获得平静之后,那位国王也礼敬了尤油苏和持国之子,这两位都是声名显赫的人。
12.44.11
धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च ।
निवेद्य सुस्थवद्राजा सुखमास्ते युधिष्ठिरः ॥ १२.४४.११ ॥
国王坚战把王国交给持国、甘陀利和维杜拉之后,便安乐地居住,仿佛安然无事。
12.44.12
तथा सर्वं स नगरं प्रसाद्य भरतर्षभ ।
वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः ॥ १२.४४.१२ ॥
婆罗多的雄牛啊,如此使全城满足之后,他合掌走近了伟大的婆苏提婆。
12.44.13
ततो महति पर्यङ्के मणिकाञ्चनभूषिते ।
ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् ॥ १२.४४.१३ ॥
随后他看见黑天坐在一张饰以宝石与黄金的大床上,深蓝如须弥山上的乌云。
12.44.14
जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् ।
पीतकौशेयवसनं हेम्नेवोपगत मणिम् ॥ १२.४४.१४ ॥
身体光辉灼灼,饰以天界的珍饰,身着黄色丝袍,宛如镶嵌于金中的宝石。
12.44.15
कौस्तुभेनोरसिस्थेन मणिनाऽभिविराजितम् ।
उद्यतेवोदयं शैलं सूर्येणाभिविराजितम् ॥ १२.४४.१५ ॥
胸前的考斯图巴宝石光辉照耀,如同朝阳之山被太阳照亮。
12.44.16
नौपम्यं विद्यते तस्य त्रिषु लोकेषु किंचन ॥ १२.४४.१६ ॥
三界之中,无物可与之相比。
12.44.17
सोऽभिगम्य महात्मानं विष्णुं पुरुषसत्तमम् ।
उवाच मधुरं राजा स्मितपूर्वमिदं तदा ॥ १२.४४.१७ ॥
那位君王走近伟大灵魂的毗湿奴、人中最上者,于是带着微笑,温和地说了这些话。
12.44.18
सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर ।
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥ १२.४४.१८ ॥
智者中最杰出的人啊,你昨夜过得安乐吗?阿周那(不灭者)啊,你的一切智慧是否清明安宁?
12.44.19
तथैवोपश्रिता देवी बुद्धिर्बुद्धिमतां वर ।
वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता ॥ १२.४४.१९ ॥
同样,神圣的智慧依然依附于我们,智者中的最优者啊。我们已获得王国,大地也处于我们的掌控之中。
12.44.20
तव प्रसादाद्भगवंस्त्रिलोकगतिविक्रम ।
जयं प्राप्ता यशश्चाग्र्यं न च धर्मच्युता वयम् ॥ १२.४४.२० ॥
尊贵的主啊,您的威力遍及三界,凭您的恩典,我们获得了胜利与至高的荣耀,我们也未曾背离法。
12.44.21
तं तथा भाषमाणं तु धर्मराजमरिंदमम् ।
नोवाच भगवान्किंचिद्ध्यानमेवान्वपद्यत ॥ १२.४४.२१ ॥
对于如此说话的法王、降伏敌人者,世尊什么也没有说,他沉入了禅定之中。