Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.72

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.72.1

कीदृशो ब्राह्मणो राजा कार्याकार्यविचारणे ।
क्षमः कर्तुं समर्थो वा तन्मे ब्रूहि पितामह ॥ १२.७२.१ ॥

在权衡何可为、何不可为时,何种婆罗门堪为国王、有此能力?祖父啊,请告诉我。

12.72.2

य एव तु सतो रक्षेदसतश्च निवर्तयेत् ।
स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः ॥ १२.७२.२ ॥

唯能守护善人、遏止恶人者,王啊,才应被国王任命为王家祭司。

12.72.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पुरूरवस ऐलस्य संवादं मातरिश्वना ॥ १२.७२.३ ॥

关于此事,人们也援引这段古老的传说——伊拉之子补鲁罗婆斯与摩多利湿梵的对话。

12.72.4

कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः ।
कस्माच्च भवति श्रेयांस्तन्मे व्याख्यातुमर्हसि ॥ १२.७२.४ ॥

婆罗门从何而生?三种种姓又从何而来?他为何殊胜?请为我解说。

12.72.5

ब्राह्मणो मुखतः सृष्टो ब्रह्मणो राजसत्तम ।
बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य एव च ॥ १२.७२.५ ॥

王中至尊啊,婆罗门从梵天之口而生;刹帝利从双臂而生,吠舍也从双股而生。

12.72.6

वर्णानां परिचर्यार्यं त्रयाणां भरतर्षभ ।
वर्णश्चतुर्थः पश्चात्तु पभ्द्यां शूद्रो विनिर्मितः ॥ १२.७२.६ ॥

婆罗多族中的雄牛啊,为服侍三种种姓,第四种姓——首陀罗——后来从双足而造。

12.72.7

ब्राह्मणो जायमानो हि पृथिव्यामनुजायते ।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ १२.७२.७ ॥

婆罗门一出生便降生于大地;作为一切众生之主,为守护法的宝藏而生。

12.72.8

सर्वस्वं ब्राह्मणस्येदं यत्किंचिदिह दृश्यते ।
धर्मयुक्तं प्रशस्तं च जगत्यस्मिन्नृपात्मज ॥ १२.७२.८ ॥

此世间所见的一切都属于婆罗门;这合乎法且值得称赞,王子啊。

12.72.9

ततः पृथिव्या यन्तारं क्षत्रियं दण्डधारणे ।
द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये ॥ १२.७२.९ ॥

此后,为了成为大地的统治者、执掌刑杖,他为保护民众而创造了第二种姓——刹帝利。

12.72.10

वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान् ।
शूद्रो ह्येतान्परिचरेदिति ब्रह्मानुशासनम् ॥ १२.७२.१० ॥

吠舍应以财富和谷物供养这三种姓,首陀罗应侍奉他们——这是梵天的教诫。

12.72.11

द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत् ।
धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे ॥ १२.७२.११ ॥

这片大地应属于再生者,还是刹帝利的亲族?请依法与财物,为我正确解说,哦,风神。

12.72.12

विप्रस्य सर्वमेवैतद्यत्किंचिज्जगतीगतम् ।
धनं धान्यं हिरण्यं च स्त्रियो रत्नानि वाहनम् ॥ १२.७२.१२ ॥

世间所存在的一切都属于婆罗门:财富、谷物、黄金、女子、宝石与车乘。

12.72.13

मङ्गलं च प्रशस्तं च यच्चान्यदपि विद्यते ।
ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः ॥ १२.७२.१३ ॥

凡吉祥与殊胜之物,以及此间所存在的其他一切,熟知法者以长子之家世而知之。

12.72.14

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः ॥ १२.७२.१४ ॥

婆罗门享用自己的,穿着自己的,施予自己的。他是一切种姓的导师;再生者便是长者与最胜者。

12.72.15

पत्यभावे यथैव स्त्री देवरं कुरुते पतिम् ।
आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम्।
एष ते प्रथमः कल्प आपद्यन्यो भवेदतः ॥ १२.७२.१५ ॥

如同妇人在丈夫不在时,以夫之弟为夫,依次序,刹帝利之类也以大地为夫。这是你的第一条规定;遇到危难时,可以另有规定。

12.72.16

यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि ।
यत्किंचिज्जयसे भूमिं ब्राह्मणाय निवेदय ॥ १२.७२.१६ ॥

若你依法追求天上的至高之处,那么你所征服的任何土地,都应献给婆罗门。

12.72.17

श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने ।
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत् ॥ १२.७२.१७ ॥

给予有学问与德行、通晓法、修苦行、安于本分、不贪财富的婆罗门。

12.72.18

यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया ।
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवान् ॥ १२.७२.१८ ॥

能以全面圆满之智辅佐国王的婆罗门——因为婆罗门生于良好的家族,具备成熟的智慧,并且谦逊自律。

12.72.19

श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम् ।
राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम् ॥ १२.७२.१९ ॥

国王所奉行的法,即婆罗门所指示的法,以多样的言辞引导国王走向善果。

12.72.20

शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः ।
तावता सत्कृतः प्राज्ञश्चिरं यशसि तिष्ठति ॥ १२.७२.२० ॥

谦恭、不自负、安住于刹帝利法之誓的智者,因此受到尊敬,便长久地留存于名声之中。

12.72.21

तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः ।
एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः ॥ १२.७२.२१ ॥

王家祭司分享这一切法;同样,所有臣民都依附于国王。

12.72.22

ब्राह्मणं च सविद्वांसं राजशास्त्रविपश्चितम् ।
सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः ॥ १२.७२.२२ ॥

倚靠精通王政之学的博学婆罗门,行为端正、安于本分的人,便不因任何事而恐惧。

12.72.23

राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः ।
चतुर्थं तस्य धर्मस्य राजा भागं तु विन्दति ॥ १२.७२.२३ ॥

国民在王国中所奉行的法,若受国王良好保护,国王便获得其中的四分之一。

12.72.24

देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः ।
यज्ञमेवोपजीवन्ति नास्ति यष्टा ह्यराजके ॥ १२.७२.२४ ॥

诸天、人类、祖先、乾达婆、龙蛇与罗刹都依赖祭祀而生存;在无王的国度里,没有人主持祭祀。

12.72.25

इतो दत्तेन जीवन्ति देवताः पितरस्तथा ।
राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः ॥ १२.७२.२५ ॥

凭此处所施,诸神与祖先也得以生存。大王啊,此法的福祉与守护唯建立于国王身上。

12.72.26

छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति ।
अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति।
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः ॥ १२.७२.२६ ॥

在荫凉、水中、风中、炎热之中得乐;在火中、衣物中、太阳中、寒冷之中得乐。心意在声、触、味、色、香之中欢喜。

12.72.27

तेषु भोगेषु सर्वेषु न भीतो लभते सुखम् ।
अभयस्य हि यो दाता तस्यैव सुमहत्फलम् ॥ १२.७२.२७ ॥

在所有这些享受之中,怀有恐惧的人得不到快乐。唯有施予无畏者,才得到极大的福报。

12.72.28

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ।
इन्द्रो राजा यमो राजा धर्मो राजा तथैव च।
राजा बिभर्ति भूतानि राज्ञा सर्वमिदं धृतम् ॥ १२.७२.२८ ॥

三界之中,没有与生命相等的布施。因陀罗是王,阎摩是王,法也是王;国王养育众生,此一切皆由国王所持。