Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.100

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.100.1

सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् ।
इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् ॥ १३.१००.१ ॥

施予黄金者可满足一切愿望。祖父之子尊者阿特里如是说。

13.100.2

पवित्रं शुच्यथायुष्यं पितृणामक्ष्यं च तत् ।
सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् ॥ १३.१००.२ ॥

此金能净化、纯净、延长寿命,且对祖先永不衰竭,人主哈里什昌德罗如是宣示。

13.100.3

पानीयपरमं दानं दानानां मनुरब्रवीत् ।
तस्मात्कूपांश्च वापीश्च तटाकानि च स्वानयेत् ॥ १३.१००.३ ॥

摩奴说,施予饮水是诸施之最;因此应当开凿井、阶井与池塘。

13.100.4

सर्वं विनाशयेत्पापं पुरुषस्येह कर्मणः ।
कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः ॥ १३.१००.४ ॥

此处人之此业能灭尽一切罪恶。水源长流、时常保持良好运作的井,是(最上的)。

13.100.5

सर्वं तारयते वंशं यस्य खाते जलाशये ।
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥ १३.१००.५ ॥

凡所掘之池中,常有牛、婆罗门、善人与众人饮水者,其人能度脱全族。

13.100.6

निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् ।
स दुर्गं विषमं कृत्स्नं न कदाचिदवाप्नुते ॥ १३.१००.६ ॥

夏日炎热之时,其水可无阻取用者,永不会遭遇任何艰难困顿的险境。

13.100.7

बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च ।
अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा ॥ १३.१००.७ ॥

借助酥油,布利哈斯帕蒂、尊贵的普善、薄伽、双马童和火神都会感到欢喜。

13.100.8

परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम् ।
रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् ॥ १३.१००.८ ॥

这是至上的良药;在祭祀中它最好,在精华中它最好,在果实中它也最好。

13.100.9

फलकामो यशस्कामः पुष्टिकामश्च नित्यदा ।
घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् ॥ १३.१००.९ ॥

渴求福报、名声与兴旺的人,应当始终保持清净、克制自身,把酥油布施给再生者。

13.100.10

घृतं मासे आश्वयुजि विप्रभ्यो यः प्रयच्छति ।
तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ ॥ १३.१००.१० ॥

在阿什瓦尤贾月向婆罗门布施酥油的人,双马神会因此欢喜,在此显现他们的形象。

13.100.11

पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति ।
गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ॥ १३.१००.११ ॥

向再生者布施掺有酥油的牛奶粥的人,他的家永远不会被罗刹侵扰。

13.100.12

पिपासया न म्रियते सोपच्छन्दश्च जायते ।
न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति ॥ १३.१००.१२ ॥

布施水罐的人不会因口渴而死;他生来意志坚定,也不会遭遇任何灾祸。

13.100.13

प्रयतो ब्राह्मणाग्रे यः श्रद्धया परया युतः ।
उपस्पर्शनषड्भागं लभते पुरुषः सदा ॥ १३.१००.१३ ॥

自我克制、在婆罗门面前怀着至高信心的人,总能获得饮水仪式功德的六分之一。

13.100.14

यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति ।
प्रतापनार्थं राजेन्द्र वृत्तवद्भ्यः सदा नरः ॥ १३.१००.१४ ॥

君王之主啊!为了祭祀之事与点燃火焰,常将木柴施予德行端正的婆罗门之人,(便获得功德)。

13.100.15

सिद्ध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च ।
उपर्युपरि शत्रूणां वपुषा दीप्यते च सः ॥ १३.१००.१५ ॥

他的目标与种种事业总能成就;他超越敌人而上,以光彩焕发的身躯闪耀。

13.100.16

भगवांश्चापि सम्प्रतो वह्निर्भवति नित्यशः ।
न तं त्यजन्ति पशवः सङ्ग्रामे च जयत्यपि ॥ १३.१००.१६ ॥

那位尊贵的火神也总向他显现;牲畜不离弃他,他甚至在战场上获胜。

13.100.17

पुत्राञ्श्रियं च लभते यश्छत्रं सम्प्रच्छति ।
न चक्षुर्व्याधिं लभते यज्ञभागमथाश्नुते ॥ १३.१००.१७ ॥

施予伞盖者得子嗣与福德;不患眼疾,并且享有祭祀的一份。

13.100.18

निदाघकाले वर्षे वा यश्छत्रं सम्प्रयच्छति ।
नास्य कश्चिन्मनोदाहः कदाचिदपि जायते।
कृच्छ्रात्स विषमाच्चैव क्षिप्रं मोक्षमवाप्नुते ॥ १३.१००.१८ ॥

于炎夏或雨季施予伞盖者,心中永不生烦恼;他能迅速从困厄与灾难中解脱。

13.100.19

प्रदानं सर्वदानानां शकटस्य विशाम्पते ।
एवमाह महाभागः शाण्डिल्यो भगवानृषिः ॥ १३.१००.१९ ॥

人主啊,大福的圣者、尊贵的仙人婆伽婆·舍丹底利耶如此说道:在一切布施之中,施舍车辆最为殊胜。